मिश्रवर्गाद् द्वितीयन्तु अधस्तात् पुनरेव तु । चतुर्थस्वरसमि न्नं तालुवर्गादिसंयुतम् ।। ३१०.
ऊष्मणश्च द्वितीयन्तु अधस्ताद्विनियोजयेत् । स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ।। ३१०.
पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः । द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः ।। ३१०.
प्रथमं पञ्चमे योज्यं स्वरार्द्धेनोद्धृता इमे । ओंकाराद्या नमोन्ताश्च जपेत् स्वाहाग्निकार्य्यके ।। ३१०.
ओं ह्रीँ ह्रूँ ह्रः हृदयं हां हश्चेति शिरः । ह्रीँ ज्वल ज्वल शिखा स्यात् कवचं हनुद्वयम् । हीँ श्रीँ शून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्त्तितम् क्षौँ हः खौँ हूँ फडस्त्राय गुह्याङ्गानि पुरा न्यसेत् । त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि श्रृणुष्व मे । आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते ।। ३१०.
पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् । तोरकन्तु भवेन्तेत्रं नवार्द्धाक्षरलक्षणं ।। ३१०.
तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् । ख ख हूँ दशवीजा स्याद्वज्रतुण्डेक्षरलक्षणं ।। ३१०.
खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश । वर्च्चे शरविभीषणि खखेति च शवर्य्यपि ।। ३१०.
छे छेदनि करालिनि खखेति च कराल्यपि । वक्षःश्रवद्रवप्लवनी ख ख दूतीप्लवंख्यपि ।। ३१०.
स्त्रीबालकारे धुननि शास्त्री वसनवेगिका । क्षे पक्षे कपिले हस हस कपिला नाम दूतिका ।। ३१०.
ह्रूँ तेजोवति रौद्री च मातङ्गरौद्रिदूतिका । पुटे पुटे ख ख खड्गे फट् ब्रह्मकदूतिका ।। ३१०.
वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् । हृदादिकन्यासादौ स्यान् मध्ये नेत्रे न्यसेत्सुधीः ।। ३१०.
पादादारभ्य मूर्द्धान्तं शिर आरभ्य पादयोः । अङ्घ्निजानूरुगुह्ये च नाभिहृत्कण्ठदेशतः ।। ३१०.
वज्रमण्डलमूर्द्धे च अधोद्र्ध्वे चादिवीजतः । सोमरूपं ततो गावं धारामृतसुवर्षिणम् ।। ३१०.
विशन्तं ब्रह्मन्ध्रेण साधकस्तु विचिन्तयेत् । मूर्द्धास्यकण्ठहृन्नाभौ गुह्येरुजानुपादयोः ।। ३१०.
आदिवीजं न्यसेन्मन्त्री तर्ज्जन्यादि पुनः पुनः । ऊद्र्ध्वं सोममधः पद्म शरीरं वीजविग्रहं ।। ३१०.
योजानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वराः । यजेज्जपेत्तां विन्यस्य ध्यायेद्वेवीं शताष्टकम् ।। ३१०.
मुद्रा वक्ष्ये प्र्णीताद्याः प्रणीताः पञ्चधा स्मृताः । ग्रथितौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपातयेत् ।। ३१०.
. तर्ज्जनीं मूर्दिध्न संलग्नां विन्यसेत्तां शिरोपरि । प्रणीतेयं समाख्याता हृद्देशे तां समानयेत् ।। ३१०.
ऊद्र्ध्वन्तु कन्यसामध्ये सवीजान्तां विदुर्द्धिजाः । नियोज्य तर्ज्जनीमध्येऽनेकलग्नां परस्पराम् ।। ३१०.
ज्येष्ठाग्रं निक्षिपेन्मध्ये भेदनी स प्रकीर्त्तिता । नाभिदेशे तु तां बद्ध्वा अङ्गुष्ठानुन्क्षिपेत्ततः ।। ३१०.
कराली तु महामुद्रा हृदये योज्य मन्त्रिणः । पुनस्तु पूर्व्ववद् बद्धलग्नां ज्येष्ठां समुत्क्षिपेत् ।। ३१०.
वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् । उभाभ्याञ्चैव हस्ताभ्यां मणिबन्धन्तु बन्धयेत् ।। ३१०.
त्रीणि त्रीणि प्रसार्य्येति वज्रमुद्रा प्रकीर्त्तिता । दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता ।। ३१०.
अङ्गष्ठेनाक्रमेत् त्रीणि त्रिशूलञ्चोद्र्ध्वतो भवेत् । एकातु मध्यमोद्र्ध्वा तु शक्तिरेव विधीयते ।। ३१०.
शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया । शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः ।। ३१०.
अग्निरुवाच दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुलेऽब्जके । हे हुति वज्रदन्त पुरु लुलु गर्ज्ज इह सिंहासनाय नमः । तिर्य्यगूद्र्ध्वगता रेखाश्चत्वारश्चतुरो भवेत् ।। ३११.
नवभागविभागेन कोष्ठकान् कारयेद्बुधः । ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् ।। ३११.
वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् । वाह्यरेखा भवेद्वका द्विभङ्गा कारयेद्बुधः ।। ३११.
वज्रस्य मध्यमं श्रृङ्गं द्विधार्धतः । वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्बुधः ।। ३११.