यवैर्द्धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् । अक्षैरुन्मत्तता शत्रोः शाल्मलीभिश्च मारणम् ।। ३०९.
जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैरपि । रक्तोत्पलैर्म्महापुष्टिः कुन्दपुष्पैर्म्महोदयः ।। ३०९.
मल्लिकाभिः परक्षोभः कुमुदैर्जनवल्लभः । अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना ।। ३०९.
आम्रैरायुस्तिलैर्ल्लक्षअमीर्विल्वैः श्रीश्चम्पकैर्द्धनम् । इष्टं मधुकपुष्पैश्च विल्वैः सर्वज्ञतां लभेत् ।। ३०९.
त्रिलक्षजप्यात्सर्व्वाप्तिर्होमाद्ध्यानात्तथेज्यया । मण्डलेऽभ्यर्च्च्य गायत्र्या आहुतीः पञ्चविंशतिम् ।। ३०९.
दद्याच्छतत्रयं मूलात् पल्लवैर्दीक्षितो भवेत् । पञ्चगव्यं पुरा पीत्वा चरूकं प्राशयेत्सदा ।। ३०९.
अग्निरुवाच अपरां त्वरिताविद्यां वक्ष्येऽहं भुक्तिमुक्तिदां । परेवज्राकुले१ देवीं रजोभिर्लिखिते यजेत् ।। ३१०.
पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां । द्वाशोभोपशोभाञ्च लिखेच्छीघ्रं स्मरेन्नरः ।। ३१०.
अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता । दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता ।। ३१०.
नागभूषां वज्रकुण्डे खड्गं चक्रं गदां क्रमात् । शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः ।। ३१०.
धनः पाशं शरं घष्टां तर्ज्जनीं शङ्खमङ्कुशम् । अभयञ्च तता वज्रं वामपार्श्वे घृतायुधम् ।। ३१०.
पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया । दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिव्यादिसिद्धिभाक् ।। ३१०.
तलोतिसप्तपातालाः कालाग्निभुवनान्तकाः । ओं कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम् ।। ३१०.
ओं काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः । प्र्स्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि ।। ३१०.
तालुवर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः । चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः ।। ३१०.
षष्ठोऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः । ऊष्माणः स्याच्छवर्गस्तु उद्धरेच्च मनुं ततः ।। ३१०.
षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् । तालुवर्गाद्वितीयन्तु स्वरैकादशयोजितम् ।। ३१०.
जिह्वातालुसमायोगः प्रथमं केवलं भवेत् । तदेव च द्वितायन्तु अधस्ताद्विनियोजयेत् ।। ३१०.
एकादशस्वरैर्युक्तं प्रथमं तालुवर्गतः । ऊष्णाणस्य१ द्वितीयन्तु अधस्ताद् दृश्य योजयेत् ।। ३१०.
षोड़शस्वरसंयुक्तमूष्माणस्य द्वितीयकम् । जिह्वादन्तसमायोगे प्रथमं योजयेदधः ।। ३१०.
मिश्रवर्गाद् द्वितीयन्तु अधस्तात् पुनरेव तु । चतुर्थस्वरसमि न्नं तालुवर्गादिसंयुतम् ।। ३१०.
ऊष्मणश्च द्वितीयन्तु अधस्ताद्विनियोजयेत् । स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ।। ३१०.
पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः । द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः ।। ३१०.
प्रथमं पञ्चमे योज्यं स्वरार्द्धेनोद्धृता इमे । ओंकाराद्या नमोन्ताश्च जपेत् स्वाहाग्निकार्य्यके ।। ३१०.
ओं ह्रीँ ह्रूँ ह्रः हृदयं हां हश्चेति शिरः । ह्रीँ ज्वल ज्वल शिखा स्यात् कवचं हनुद्वयम् । हीँ श्रीँ शून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्त्तितम् क्षौँ हः खौँ हूँ फडस्त्राय गुह्याङ्गानि पुरा न्यसेत् । त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि श्रृणुष्व मे । आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते ।। ३१०.
पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् । तोरकन्तु भवेन्तेत्रं नवार्द्धाक्षरलक्षणं ।। ३१०.
तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् । ख ख हूँ दशवीजा स्याद्वज्रतुण्डेक्षरलक्षणं ।। ३१०.
खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश । वर्च्चे शरविभीषणि खखेति च शवर्य्यपि ।। ३१०.
छे छेदनि करालिनि खखेति च कराल्यपि । वक्षःश्रवद्रवप्लवनी ख ख दूतीप्लवंख्यपि ।। ३१०.
स्त्रीबालकारे धुननि शास्त्री वसनवेगिका । क्षे पक्षे कपिले हस हस कपिला नाम दूतिका ।। ३१०.