शिरोब्रुमस्तके कण्ठे हृदि नाभौ च गुह्यके । उर्व्वोश्च जानुजङ्घोरुद्वये चरणयोः क्रमात् ।। ३०९.
न्यस्ताङ्गो न्यस्तमन्त्रस्तु समस्तं व्यापकं न्यसेत् । पार्वती शवरी चेशा वरदाभयहस्तिका ।। ३०९.
मयूरबलया पिच्छमौलिः किसलयांशुका । सिंहासनस्था मायूरवर्हच्छत्रसमन्विता ।। ३०९.
त्रिनेत्रा श्यामला देवी वनमालाविभूषणा । विप्राहिकर्णाभरणा क्षत्रकेयूरभूषणा ।। ३०९.
वैश्यानागकटोबन्धा वृषलाहिकृतनूपुरा । एवं रूपात्मिका भूत्वा तन्मन्त्रं नियुतं जपेत् ।। ३०९.
ईशः किरातरूपोषऽभूत् परा गौरी च तादृशी । जपेद्ध्यायेत् पूजयेत्तां सर्वसिद्ध्यैविषादिहृत् ।। ३०९.
अष्टसिंहासने पूज्या दले पूर्वादिके क्रमात् । अङ्गणायत्री प्रणीता हूङ्काराद्या दलग्रके ।। ३०९.
फट्कारी चाग्रतो देव्याः श्रीवीजेनार्च्चयेदिमाः । लोकेशायुधवर्णास्ताः फट्कारी तु धनुर्द्धरा ।। ३०९.
जया च विजया द्वास्थे पूज्ये सौवर्णयष्टिके । किङ्कण वर्वरी मुण्डी लगुड़ी च तयोर्वरिः ।। ३०९.
इष्ट्वैवं सिद्धयेद्द्रव्यैः कुण्डे योन्याकृतौ हुनेत् । हेमलाभोऽर्जुनैर्द्धान्यैर्गोधूमैः पुष्टिसम्पदः ।। ३०९.
यवैर्द्धान्यैस्तिलैः सर्वसिद्धिरीतिविनाशनम् । अक्षैरुन्मत्तता शत्रोः शाल्मलीभिश्च मारणम् ।। ३०९.
जम्बुभिर्धनधान्याप्तिस्तुष्टिर्नीलोत्पलैरपि । रक्तोत्पलैर्म्महापुष्टिः कुन्दपुष्पैर्म्महोदयः ।। ३०९.
मल्लिकाभिः परक्षोभः कुमुदैर्जनवल्लभः । अशोकैः पुत्रलाभः स्यात् पाटलाभिः शुभाङ्गना ।। ३०९.
आम्रैरायुस्तिलैर्ल्लक्षअमीर्विल्वैः श्रीश्चम्पकैर्द्धनम् । इष्टं मधुकपुष्पैश्च विल्वैः सर्वज्ञतां लभेत् ।। ३०९.
त्रिलक्षजप्यात्सर्व्वाप्तिर्होमाद्ध्यानात्तथेज्यया । मण्डलेऽभ्यर्च्च्य गायत्र्या आहुतीः पञ्चविंशतिम् ।। ३०९.
दद्याच्छतत्रयं मूलात् पल्लवैर्दीक्षितो भवेत् । पञ्चगव्यं पुरा पीत्वा चरूकं प्राशयेत्सदा ।। ३०९.
अग्निरुवाच अपरां त्वरिताविद्यां वक्ष्येऽहं भुक्तिमुक्तिदां । परेवज्राकुले१ देवीं रजोभिर्लिखिते यजेत् ।। ३१०.
पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां । द्वाशोभोपशोभाञ्च लिखेच्छीघ्रं स्मरेन्नरः ।। ३१०.
अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता । दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता ।। ३१०.
नागभूषां वज्रकुण्डे खड्गं चक्रं गदां क्रमात् । शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः ।। ३१०.
धनः पाशं शरं घष्टां तर्ज्जनीं शङ्खमङ्कुशम् । अभयञ्च तता वज्रं वामपार्श्वे घृतायुधम् ।। ३१०.
पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया । दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिव्यादिसिद्धिभाक् ।। ३१०.
तलोतिसप्तपातालाः कालाग्निभुवनान्तकाः । ओं कारादिस्वरारभ्य यावद्ब्रह्माण्डवाचकम् ।। ३१०.
ओं काराद्भ्रामयेत्तोयन्तोतला त्वरिता ततः । प्र्स्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्भुवि ।। ३१०.
तालुवर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः । चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः ।। ३१०.
षष्ठोऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः । ऊष्माणः स्याच्छवर्गस्तु उद्धरेच्च मनुं ततः ।। ३१०.
षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् । तालुवर्गाद्वितीयन्तु स्वरैकादशयोजितम् ।। ३१०.
जिह्वातालुसमायोगः प्रथमं केवलं भवेत् । तदेव च द्वितायन्तु अधस्ताद्विनियोजयेत् ।। ३१०.
एकादशस्वरैर्युक्तं प्रथमं तालुवर्गतः । ऊष्णाणस्य१ द्वितीयन्तु अधस्ताद् दृश्य योजयेत् ।। ३१०.
षोड़शस्वरसंयुक्तमूष्माणस्य द्वितीयकम् । जिह्वादन्तसमायोगे प्रथमं योजयेदधः ।। ३१०.