श्रियं वामोरुजङ्घास्थां श्लिष्यर्न्ती पाणिना पतिं । साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां ।। ३०७.
मालिनं पीतवस्त्रञ्च चक्राद्याढ्यं हरिं यजेत् । ओं सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद छिन्द विदारय परममन्त्रान् ग्रस भक्ष्य भूतानि चाशप हूँ फट् ओं जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द खड्गाय नमः । शारङ्गाय सशराय हूं फट् । भूतग्रामाय विद्महे चतुर्व्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्त्तक श्लसन पोथय हूं फट् स्वाहा । पाश बन्ध आकर्षय हूँ फट् । अङ्कुशेन हूँ फट् । क्रमाद्भुजेषु मन्त्रैः स्वैरेभिरस्त्राणि पूजयेत् ।। ३०७.
ओं पक्षिराजाय ह्रूँ फट् । तार्क्ष्यं यजेत् कर्णिकायामङ्गदेवान् यथाविधि । शक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः ।। ३०७.
शक्तयोऽन्ते प्रयोज्यादौ सुरेशाद्याश्च दण्डिना । पीते लक्षअमीसरस्वत्यौ रतिप्रीतजयाः सिताः ।। ३०७.
कीर्त्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते । लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये ।। ३०७.
एतत्पूजादिना सर्व्वान् कामानाप्नोति पूर्व्ववत् ।। ३०७.
तोयैः सम्मोहनी पुष्पैर्नित्यन्तेन च तर्पयेत् । ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम् ।। ३०७.
जप्त्वा त्रिलक्षं हुत्वा च लक्षँ पिल्वैस्च साज्यकैः । तण्डुलैः फलगन्धाद्यैः१ दूर्वाभिस्त्वायुराप्नुयात् ।। ३०७.
तताभिषेकहोमादिक्रियातुष्टो ह्यभीष्टदः । ओं नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतित्वं मे देहि हृदयाय स्वाहा । पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात् ।। ३०७.
अग्निरुवाच वक्षः सवह्निर्वामाक्षौ दण्डी श्रीः सर्व्वसिद्धिदा । महाश्रिये महासिद्दे महाविद्युत्प्रभे नमः ।। ३०८.
श्रिये देवि विजये नमः । गौरि महाबले बन्ध नमः । हूँ महाकाये पद्महस्ते हूँ फट् श्रियै नमः । श्रियै फट् श्रियै नमः । श्रियै फट् श्रीं नमः । श्रिये श्रीद नमः स्वाहा श्रीफट् ।। अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् । त्रिलक्षमेकलक्षं वा जप्त्वाक्षाव्जैस्च भूतिदः ।। ३०८.
श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् । आज्याक्तैस्तण्डुलैर्ल्लक्षं जुहुयात् खादिरानले ।। ३०८.
राजा वश्यो भवेद्वृद्धिः श्रीश्च स्यादुत्तरोत्तरं । सर्षपाम्भोभिषेकेण नश्यन्ते शकला ग्रहाः ।। ३०८.
विल्वलक्ष्हुता लक्ष्मीर्वित्तवृद्धिश्च जायते । शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ ।। ३०८.
बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् । ऊद्र्ध्ववाहुद्वयं ध्यायेत्क्रीडन्तीं द्वारि पूर्ववत् ।। ३०८.
हरितां दोर्द्वयेनोद्र्ध्वमुद्वहन्तीं सिताम्बुजम् । ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे ।। ३०८.
शाङ्करीमुत्तरे द्वारि तन्मध्येऽष्टदलपङ्कजम् । वासुदेवः सङ्कर्षणः प्रद्युम्नस्चानिरुद्धकः ।। ३०८.
ध्येयास्ते पद्मपत्रेषु शङ्कचक्रगदाधराः । अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः ।। ३०८.
आग्नेयादिषु पत्रेषु गुग्गुलुश्च कुरुण्टकः । दमकः शलिलश्चैति हस्तिना रजतप्रभाः ।। ३०८.११ हेमकुम्भधराश्चैते कर्णिकायां श्रियं स्मरेत् । स्वेतगन्धांशुकामेकरौम्यमालाश्त्रधारिणीं ।। ३०८.
ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् । द्रोणाव्जपुष्पश्रीवृक्षपर्णं मूद्र्ध्नि न धारयेत् ।। ३०८.
ध्यात्वा सपरिवारान्तामभ्यर्च्य सकरं लभेत् । द्रोणाव्जपुष्पश्रीवृक्षपर्णं मूद्र्ध्नि न धारयेत् ।। ३०८.
लवणामलकं वर्ज्जं नागादित्यतिथौ क्रमात् । पायसाशी जपेत् सूक्तं क्षियस्तेनाभिषेचयेत् ।। ३०८.
आवाहादिविसर्गान्तां मूद्र्ध्नि ध्यात्वार्च्ययेत् श्रियम् । विल्वाज्याव्जपायसेन पृथग् योगः श्रिये भवेत् ।। ३०८.
ओं ह्रीँ महामहिषमर्हिनि ठ ठ मूलमन्त्रं महिषहिसके नमः । महिषशत्रुं भ्रामय हूँ फट् ठ ठ महिषं हेषय हूं महिषं हन देवि हूँ महिषनिसूदनि फट् । दुर्गाहृदयमित्युक्तं साङ्गं सर्वार्थसाधकम् ।। ३०८.
यजेद्यथोक्तं तां देवीं पीठञ्चैवाङ्गमध्यागम् । ओं ह्रीँ दुर्गे रक्षणि स्वाहा चेति दुर्गायै नमः । वरवर्ण्यै नमः । आर्य्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कन्यकायै सुरूपायै ३०८.
चक्राय शङ्खाय गदायै खड्गाय धनुषे वाणाय ।। अष्टम्याद्यैरिमां दुर्गा लोकेशान्तां यजेदिति । दर्गायोगः समायुःश्रीस्वामिरक्ताजयादिकृत् ।। ससाध्येसानमन्त्रेण तिलहोमो वशीकरः । जयः पद्मैस्तु दुर्व्वाभिः शान्तिः कामः पलाशजैः ।। ३०८.
पुष्टिः स्यात् काकपक्षेण मृतिद्वेषादिकं भवेत् । ग्रहक्षुद्रभयापत्तिं सर्वमेव मनुर्हरेत् ।। ३०८.
ओं दुर्गे दुर्गे रक्षणि स्वाहा । रक्षाकरीयमुदिता जयदुर्गाङ्गसंयुता । श्यामां त्रिलोचनां देवीं ध्यात्वात्मानं चतुर्भुजम् ।। ३०८.
शङ्खचक्राव्जशूलादित्रिशूलां रौद्ररूपिणीं । युद्धादौ सञ्जयेदेतां यजेत् शड्घादिके जये ।। ३०८.
अग्निरुवाच त्वरिताङ्गान्समाख्यास्ये भुक्तिमुक्तिप्रदायकान् । ओं आधारशक्त्यै नमः । ओं ह्रीँ पुरु महासिंहाय नमः । ओं पद्माय नमः । ओं ह्रीँ ह्रूँ खेचछेक्षः । स्त्रीँ ओं ह्रूँ क्षैँ ह्रूँ फट् त्वरितायै नमः । खे च हृदयाय नमः । चछे शिरसे नमः । छेक्षः शिखायै नमः । क्षस्त्री कवचाय नमः । स्त्रीँ ह्रूँ नेत्राय नमः । ह्रूँ खे अस्त्राय फट् नमः । ओं त्वरिताविद्यां विद्महे तूर्णविद्याञ्च धीमहि तन्नो देवी प्रचोदयात् । श्रीप्रणितायै नमः । ह्रूँ कारायै नमः । ओं खेच हृदयाय नमः । खेचर्य्यै नमः । ओं चण्डायै नमः । छेदन्यै नमः क्षेपण्यै नमः । स्त्रियै ह्रूँ कार्य्यै नमः । क्षेमङ्कर्य्यै- जयायै किङ्कराय रक्ष । ओं त्वरिताज्ञया स्थिरो भव वषट् । तोतला त्वरिता तूर्णेत्येवं विद्येयमीरिता ।। ३०९.