रंवीजंहृद्याब्जस्थं स्मृत्वा ज्वालाभिरादहेत् । ऊद्र्ध्वाधस्तिर्य्यगाभिस्तु मूद्ध्नि संप्लावयेद्वपुः ।। ३०७.
ध्यात्वामृतैर्वहिश्चान्तःसुषुम्नामार्गगामिभिः । एवं शुद्धवपुः प्राणानायम्य मनुन त्रिधा ।। ३०७.
विन्यसैन्न्यस्तहस्तान्तः शकिं मस्तकवक्त्रयोः । गुह्यं गलो दिक्षु हृदि कुक्षौ देहे च सर्व्वतः ।। ३०७.
आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्य्यमण्डचलात् । तारेण सम्परात्मानं स्मरेत्तं सर्व्वलक्षणं ।। ३०७.
त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः प्रचोदयात् । आत्मार्चनात् क्रतुद्रव्यं प्रोक्षयेच्छुद्धपात्रकं । कृत्वात्मपूजां विधिना स्थण्डिले तं समर्च्चयेत् ।। ३०७.
कर्म्मादिकल्पिते पीठे पद्मस्थं गरुड़ोपरि । सर्व्वाङ्गसुन्दरं प्राप्तवयोलावण्ययौवनं ।। ३०७.
मदाघूर्णिततम्राक्षमुदारं स्मरविह्वलं । दिव्यमाल्याम्बरलेपभूषितं सस्मिताननं ।। ३०७.
विष्णुं नानाविधानेकपरिवारपरिच्छदम् । लोकानुग्रहणं सौम्यं सहस्रादित्यतेजसं ।। ३०७.
पञ्चवाणधरं प्राप्तकामैक्षँ द्विचतुर्भुजम् । देवस्त्रीभिर्वृतं देवीमुखासक्तेक्षणं जपेत् ।। ३०७.
चक्रं शङ्खं धनुः खड्गं गदां मुषलमङ्कुशं । पाशञ्च विभ्रतं चार्च्चेदावाहादिविसर्गतः ।। ३०७.
श्रियं वामोरुजङ्घास्थां श्लिष्यर्न्ती पाणिना पतिं । साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां ।। ३०७.
मालिनं पीतवस्त्रञ्च चक्राद्याढ्यं हरिं यजेत् । ओं सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद छिन्द विदारय परममन्त्रान् ग्रस भक्ष्य भूतानि चाशप हूँ फट् ओं जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द खड्गाय नमः । शारङ्गाय सशराय हूं फट् । भूतग्रामाय विद्महे चतुर्व्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्त्तक श्लसन पोथय हूं फट् स्वाहा । पाश बन्ध आकर्षय हूँ फट् । अङ्कुशेन हूँ फट् । क्रमाद्भुजेषु मन्त्रैः स्वैरेभिरस्त्राणि पूजयेत् ।। ३०७.
ओं पक्षिराजाय ह्रूँ फट् । तार्क्ष्यं यजेत् कर्णिकायामङ्गदेवान् यथाविधि । शक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः ।। ३०७.
शक्तयोऽन्ते प्रयोज्यादौ सुरेशाद्याश्च दण्डिना । पीते लक्षअमीसरस्वत्यौ रतिप्रीतजयाः सिताः ।। ३०७.
कीर्त्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते । लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये ।। ३०७.
एतत्पूजादिना सर्व्वान् कामानाप्नोति पूर्व्ववत् ।। ३०७.
तोयैः सम्मोहनी पुष्पैर्नित्यन्तेन च तर्पयेत् । ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम् ।। ३०७.
जप्त्वा त्रिलक्षं हुत्वा च लक्षँ पिल्वैस्च साज्यकैः । तण्डुलैः फलगन्धाद्यैः१ दूर्वाभिस्त्वायुराप्नुयात् ।। ३०७.
तताभिषेकहोमादिक्रियातुष्टो ह्यभीष्टदः । ओं नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतित्वं मे देहि हृदयाय स्वाहा । पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात् ।। ३०७.
अग्निरुवाच वक्षः सवह्निर्वामाक्षौ दण्डी श्रीः सर्व्वसिद्धिदा । महाश्रिये महासिद्दे महाविद्युत्प्रभे नमः ।। ३०८.
श्रिये देवि विजये नमः । गौरि महाबले बन्ध नमः । हूँ महाकाये पद्महस्ते हूँ फट् श्रियै नमः । श्रियै फट् श्रियै नमः । श्रियै फट् श्रीं नमः । श्रिये श्रीद नमः स्वाहा श्रीफट् ।। अस्याङ्गानि नवोक्तानि तेष्वेकञ्च समाश्रयेत् । त्रिलक्षमेकलक्षं वा जप्त्वाक्षाव्जैस्च भूतिदः ।। ३०८.
श्रीगेहे विष्णुगेहे वा श्रियं पूज्य धनं लभेत् । आज्याक्तैस्तण्डुलैर्ल्लक्षं जुहुयात् खादिरानले ।। ३०८.
राजा वश्यो भवेद्वृद्धिः श्रीश्च स्यादुत्तरोत्तरं । सर्षपाम्भोभिषेकेण नश्यन्ते शकला ग्रहाः ।। ३०८.
विल्वलक्ष्हुता लक्ष्मीर्वित्तवृद्धिश्च जायते । शक्रवेश्म चतुर्द्वारं हृदये चिन्तयेदथ ।। ३०८.
बलाकां वामनां श्यामां श्वेतपङ्कजधारिणीम् । ऊद्र्ध्ववाहुद्वयं ध्यायेत्क्रीडन्तीं द्वारि पूर्ववत् ।। ३०८.
हरितां दोर्द्वयेनोद्र्ध्वमुद्वहन्तीं सिताम्बुजम् । ध्यायेद्विभीषिकां नाम श्रीदूतीं द्वारि पश्चिमे ।। ३०८.
शाङ्करीमुत्तरे द्वारि तन्मध्येऽष्टदलपङ्कजम् । वासुदेवः सङ्कर्षणः प्रद्युम्नस्चानिरुद्धकः ।। ३०८.
ध्येयास्ते पद्मपत्रेषु शङ्कचक्रगदाधराः । अञ्जनक्षीरकाश्मीरहेमाभास्ते सुवाससः ।। ३०८.
आग्नेयादिषु पत्रेषु गुग्गुलुश्च कुरुण्टकः । दमकः शलिलश्चैति हस्तिना रजतप्रभाः ।। ३०८.११ हेमकुम्भधराश्चैते कर्णिकायां श्रियं स्मरेत् । स्वेतगन्धांशुकामेकरौम्यमालाश्त्रधारिणीं ।। ३०८.
ध्यात्वा सपरिवारान्तामभ्यर्च्य सकलं लभेत् । द्रोणाव्जपुष्पश्रीवृक्षपर्णं मूद्र्ध्नि न धारयेत् ।। ३०८.