वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् । पर्व्वते पर्व्वते रामं सर्व्वत्र मधुसूदनं ।। ३०५.
नरं भूमौ तथा व्योम्नि वशिष्ठे गरुड़ध्वजम् । वासुदेवञ्च सर्व्वत्र संस्मरन् भुक्तिमुक्तिभाक् ।। ३०५.
नामान्येतानि विष्णोश्च जप्त्वा सर्वमवाप्नुयात् । क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ।। ३०५.
तत्सर्व्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् । यः पठेत् श्रृणुयाद्वापि निर्म्मलः स्वर्गमाप्नुयात् ।। ३०५.
अग्निरुवाच स्तम्भो विद्वेषणोच्चाट उत्सादो भ्रममारणे । व्याधिश्चोति स्मृतं क्षुद्रं तन्मोक्षो वक्ष्यते श्रृणु ।। ३०६.
ओं नमो बगवते उन्मत्तरुद्राय भ्रम भ्रामय अमुकं वित्रासय उद्रभ्रामय रौद्रेण रूपेण हूँ फट् ठ । श्मशाने निशि जप्तेन त्रिलक्षं मधुना हुनेत् । चिताग्नौ धूर्त्तसमिद्भिर्भ्राम्यते सततं रिपुः ।। ३०६.
हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः । जप्त्वा विध्येच्च तत्कण्ठे हृदि वा म्रियते रिपुः ।। ३०६.
खरबालचिताभस्म ब्हह्मदण्डी च मर्कटी । गृहे वा मूर्ध्नि तच्चूर्णं जप्तमुत्सादकृत् क्षिपेत् ।। ३०६.
भृग्वाकाशौ सदीप्ताग्निर्भृगुर्वह्निश्च विचक्राय शिवः । एवं सहस्रारे हूं फट् आचक्राय स्वाहा हृदयं विचक्राय शिवः । शिखाचक्रायाथ कवचं विचक्रायाथ नेत्रकम् ।। ३०६.
सञ्चक्रायास्त्रमुदिष्टं ज्यालाचक्राय पूर्ववत् । शार्ङ्ग सुदर्शनं क्षुद्रग्रहहृत् सर्व्वसाधनम् ।। ३०६.
मूर्द्धाक्षिमुखहृद्गुह्यपादे ह्यस्याक्षरान्न्यसेत् । चक्राब्जासनमग्न्याभं दंष्ट्रिणञ्च चतुर्भुजम् ।। ३०६.
शङ्कचक्रगदापद्मशलाकाङ्कुशपाणिनम् । चापिनं पिङ्गकेशाक्षमरव्याप्तत्रिपिष्टपं ।। ३०६.
नाभिस्तेनाग्निना विद्धा नश्यन्ते व्याधयो ग्रहाः । पीतञ्चक्रं गदा रक्ताः स्वाराः श्याममवान्तरं ।। ३०६.
नेमिः श्वेता वहिः कृष्णवर्णरेखा च पार्थिवी । मध्येतरेमरे वर्णानेवं चक्रद्वयं१ लिखेत् ।। ३०६.
आदावानीय कुम्भोदं गोचरे सन्निधाय च । दत्त्वा सुदर्शनं तत्र याम्ये चक्रे हुनेत् क्रमात् ।। ३०६.
आज्यापामार्गसमिधो ह्यक्षतं तिलसर्षणौ । पायसं गव्यमाज्यञ्च सहस्राष्टकसंख्यया ।। ३०६.
हुतशेषं क्षिपेत् कुम्भे प्रतिद्रव्यं विधानवित् । प्रस्थानेन कृतं पिण्डं कुम्भे तस्मिन्निवेशयेत् ।। ३०६.
विष्णवादि सर्वं तत्रैव न्यसेत् तत्रैव दक्षिणे । नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु शान्तये नमः ३०६.
फलके कल्पिते पात्रे पलाशं क्षीरशाखिनः । गव्यपूर्णे निवेश्यैव दिक्ष्वेव होमयेद् द्विजः ।। ३०६.
सदक्षिणमिदं होमद्वयं भूतादिनाशनम् । गव्याक्तपत्रलिखितैर्निष्पर्णैः क्षुद्रमुद्धृतम् ।। ३०६.
द्वर्वाभिरायुषे पद्मौः श्रिये पुत्रा उडुम्बरैः । गोसिद्ध्यै सर्पिंषा गोष्ठे मेधायै सर्वशाखिना ।। ३०६.
ओं क्षौं नमो भगवते नारसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय स्र्वक्षोघ्नाय सर्वभूतविनाशाय सर्व्वज्वरविनाशाय दह २ पच२ रक्ष २ हूं फट् । मन्त्रोयं नारसिंहस्य सकलाघनिवारणः । जप्यादिना हरेत् क्षुद्रग्रहमारीविषामयान् ।। ३०६.
चुर्णमण्डूकवयसा जलाग्निस्तम्भकृद्भवेत् ।। ३०६.
अग्निरुवाच वक्ष्ये मन्त्रं चतुर्वर्गसिद्ध्यै त्रैलोक्यमोहनम् ।०१ ओं श्रीं ह्रीं ह्रूं ओं नमः पुरुशोत्तमः पुरुषोत्तमप्रतिरूप लक्ष्मीनिवास सकलजगत्क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादकर सुरमनुजसुन्दरोजनमनांसि तापय २ दोपय २ शोडय २ मारय २ स्तम्भय २ द्रावय २ आकर्षय २ परमसुभग सर्वसौमाग्यकर कामप्रद अमुकं हन २ चक्रेण गदया खड्गेण सर्व[!!!] वाणैर्भिद २ पाशेन हट्ट २ अङ्कुशेन ताड्य २ तुरु २ किन्तिष्ठसियावत्तावत्समीहितं मे सिद्धं भवति हूं फट्नमः ओं पुरुषोत्तम त्रिभुवनमदोन्मादकर हूं फठृदयाय नमः कर्षय महाबल हूं फटस्त्राय त्रिभुवनेश्वर सर्वजनमनांसि हन २ दारय २ मम वशमानय २ हूं फट्नेत्राय त्रैलोक्यमोहन हृषीकेशाप्रतिरूप सर्वस्त्रीहृदयाकर्षण आगच्छ २ नमः ०१ इष्ट्वा सञ्जप्य पञ्चाशत्सहस्रमभिषिच्य च ।०२ कुण्डेग्नौ देविके वह्नौ कृत्वा शतं हुनेत् ॥०२ पृथग्दधि घृतं क्षीरं चरुं साज्यं पयः शृतं ।०३ द्वादशाहुतिमूलेन सहस्रञ्चाक्षतांस्तिलान् ॥०३ यवं मधुत्रयं पुष्पं फलं दधि समिच्छतं ।०४ हुत्वा पूर्णाहुतिं शिष्टं प्राशयेत्सघृतं चरुं ॥०४ सम्भोज्य विप्रानाचार्यं तोषयेत्सिध्यते मनुः ।०५ स्नात्वा यथावदाचम्य वाग्यतो यागमन्दिरं ॥०५ गत्वा पद्मासनं बद्ध्वा शोषयेद्विधिना वपुः ।०६ रक्षोघ्नविघ्नकृद्दिक्षु न्यसेदादौ सुदर्शनम् ॥०६ पञ्चबीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।०७ अशेषं कल्मषं देहात्विश्लेषयदनुस्मरेत् ॥०७ रंवीजं हृदयाब्जस्थं स्मृत्वा ज्वालाभिरादहेत् ।०८ उर्ध्वाधस्तिर्यगाभिस्तु मूर्ध्नि संप्लावयेद्वपुः ॥०८ ध्यात्वामृतैर्वहिश्चान्तःसुषुम्नामार्गगामिभिः ।०९ एवं शुद्धवपुः प्राणानायम्य मनुना त्रिधा ॥०९ विन्यसेन्न्यस्तहस्तान्तः शक्तिं मस्तकवक्त्रयोः ।१० गुह्ये गले दिक्षु हृदि कक्षौ देहे च सर्वतः ॥१० आवाह्य ब्रह्मरन्ध्रेण हृत्पद्मे सूर्यमण्डलात् ।११ तारेण सम्परात्मानं स्मरेत्तं सर्वलक्षणं ॥११ त्रैलोक्यमोहनाय विद्महे स्मराय धीमहि तन्नो विष्णुः प्रचोदयात् आत्मार्चनात्क्रतुद्रव्यं प्रोक्षयेच्छुद्धपात्रकं ।१२ कृत्वात्मपूजां विधिना स्थण्डिले तं समर्चयेत् ॥१२ कर्मादिकल्पिते पीठे पद्मस्थं गरुडोपरि ।१३ मर्वाङ्गसुन्दरं प्राप्तवयोलावण्ययौवनं ॥१३ मदाघूर्णितताम्राक्षमुदारं स्मरविह्वलिं ।१४ दिव्यमाल्याम्वरलेपभूषितं सस्मिताननं ॥१४ विष्णुं नानाविधानेकपरिवारपरिच्छदम् ।१५ लोकानुग्रहणं सौम्यं सहस्रादित्यतेजसं ॥१५ पञ्चवाणधरं प्राप्तकामैक्षं द्विचतुर्भुजम् ।१६ देवस्त्रीभिर्वृतं देवीमुखासक्तेक्षणं जपेत् ॥१६ चक्रं शङ्खं धनुः खड्गं गदां मुषलमङ्कुशं ।१७ पाशञ्च विभ्रतं चार्चेदावाहादिविसर्गतः ॥१७ श्रियं वामोरुजङ्घास्थां श्लिष्यन्तीं पाणिना पतिं ।१८ साब्जचामरकरां पीनां श्रीवत्सकौस्तुभान्वितां ॥१८ मालिनं पीतवस्त्रञ्च चक्राद्याढ्यं हरिं यजेत् ।१९ ओं सुदर्शन महाचक्रराज दुष्टभयङ्कर छिद २ छिन्द २ विदारय २ परममन्त्रान् ग्रस २ भक्षय २ भूतानि चाशप २ हूं फटों जलचराय स्वाहा । खड्गतीक्ष्ण छिन्द २ खड्गाय नमः । शारङ्गाय सशराय हूं फट् । भूतग्रामाय विद्महे चतुर्विधाय धीमहि तन्नो ब्रह्म प्रचोदयात् । सम्बर्तक श्वसन पोथय २ हूं फट्स्वाहा । पाश बन्ध २ आकर्षय २ हूं फट् । अङ्कुशेन कट्ट हूं फट् क्रमाद्भुजेषु मन्त्रैः स्वैरेभिरस्त्राणि पूजयेत् ॥१९ ओं पक्षिराजाय ह्रूं फट् तार्क्ष्यं यजेत्कर्णिकायामङ्गदेवान् यथाविधि ।२० शाक्तिरिन्द्रादियन्त्रेषु तार्क्ष्याद्या धृतचामराः ॥२० शक्तयोऽन्ते प्रयोज्यादौ सुरेशाद्याश्च दण्डिना ।२१ पीते लक्ष्मीसरस्वत्यौ रतिप्रीतिजयाः सिताः ॥२१ कीर्तिकान्त्यौ सिते श्यामे तुष्टिपुष्ट्यौ स्मरोदिते ।२२ लोकेशान्तं यजेद्देवं विष्णुमिष्टार्थसिद्धये ॥२२ ध्यायेन्मन्त्रं जपित्वैनं जुहुयात्त्वभिशेचयेत् ।२३ ओं श्रीं क्रीं ह्रीं हूं त्रैलोक्यमोहनाय विष्णवे नमः एतत्पूजादिना सर्वान् कामानाप्नोति पूर्ववत् ॥२३ तोयैः सम्मोहनी पुष्पैर्नित्यन्तेन च तर्पयेत् ।२४ ब्रह्मा सशक्रश्रीदण्डी वीजं त्रैलोक्यमोहनम् ॥२४ जप्त्वा त्रिलक्षं हुत्वा च लक्षं बिल्वैश्च साज्यकैः ।२५ तण्डुलैः फलगन्धाद्यैः दूर्वाभिस्त्वायुराप्नुयात् ॥२५ तयाभिषेकहोमादिक्रियातुष्टो ह्यभीष्टदः ।२६ ओं नमो भगवते वराहाय भूर्भुवः स्वःपतये भूपतिद्वं मे देहि हृदयाय स्वाह पञ्चाङ्गं नित्यमयुतं जप्त्वायूराज्यमाप्नुयात् ॥२६ इत्यादिमहापुराणे आग्नेये त्रैलोक्यमोहनमन्त्रो नाम सप्ताधिकत्रिशततमोऽध्यायः ।। अग्निरुवाच वक्ष्ये मन्त्रं चतुर्वर्गसिद्ध्यै त्रैलोक्यमोहनम् । ओं श्रीँ ह्रीँ ह्रूँ ओं नमः पुरुषोत्तमः पुरुषोत्तमप्रतिरूप लक्ष्मीनिवास सकलजगत्-क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादकर सुरमनुजसुन्दरीजनमनांसि तापय दीपय शोषय मारय स्तम्भय द्रावय आकर्षय परमसुभग सर्वसौभाग्यकर कामप्रज अमुकं हन चक्रैण गदया खड्गेन सर्व्ववाणैर्भिद पाशेन हट्ट अङ्कुशेन ताड़य तुरु किन्तिष्ठसि यावत्तावत् समीहितं मे सिद्धं भवति हूं फट् नमः । ॐ पुरुषोत्तम त्रिभुवनमदोन्मादकर हूँ फट् हृदयाय नमः कर्षय महाबल हूँ फट् अस्त्राय त्रिभुवनेश्वर सर्व्वजनमनांसि हन दारय मम वशमानय मम वशमानय मम वशमानय हूँ फट् नेत्राय त्रैलोक्यमोहन हृषीकेशाप्रतिरूषं सर्वस्त्रीहृदयाकर्षण आगच्छ नमः ३०७.
इष्ट्वा सञ्जप्य पञ्चाशत्सहस्रमभिपिच्च च । कुण्डेग्नौ देविके वह्नौ च रुं कृत्वा शतं हुनेत् ।। ३०७.
पृथग्दधि धृतं क्षीरं चरुं साज्यं पयः श्रृतं । द्वादशाहुतिमूलेन सहस्रञ्चाक्षतांस्तिलान् ।। ३०७.
यवं मधुत्रयं पुष्पं फलं दधि समिच्छतं । हुत्वा पूर्णाहुतिं शिष्टं प्राशयेत्सघृतं चरुं ।। ३०७.
सम्भोज्य विप्रानाचार्य्यं तोपयेत्सिध्यते मनुः । स्रात्वा यथावदाचम्य वाग्यतो यागमन्दिरं ।। ३०७.
गत्वा पद्मासनं बद्ध्वा शोषयेद्विधिना वपुः । रक्षोघ्नविघ्नकृद्दिक्षु न्यसेदादौ सुदर्शनम् ।। ३०७.
पञ्चवीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् । अशेषं कल्मषं देहात् विश्लेषयदनुस्मरेत् ।। ३०७.