रूपं रसो नवात्मायं जीव अह्गुष्ठकद्वये। तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीम्
देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु। पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः
अङ्गुष्टकद्वये वह्निस्तर्जन्यादौ परेषु च। शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु
पादयोरेकादशात्मा मनः श्रोत्रं त्वगेव च। चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश्च पायुकः
उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये। तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये
उत्तमाङ्गललाटास्यहृन्नाभावथ गुह्यके। ऊरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ।। ३७ विष्णुर्म्मधुहरश्चैव त्रिविक्रमकवामनौ। श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च
दामोदरः केशवश्च नारायणस्ततः परः। माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत्
अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ। शिरः शिखरकट्याञ्च जानुपादादिषु न्यसेत्
द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस्तथा। पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः
तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा। चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश्च पायवः
उपस्थो भूर्जलन्तेजो वायुराकाशमेव च। पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत्
शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके। मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोदूतौ
पादे जान्वोरुपस्थे च हृदये मूद्र्ध्नि च क्रमात्। परश्च पुरुषात्मादौ षड्विंशे पूर्ववत्परम्
सञ्चिन्त्य मण्डलैके तु प्रकृतिं पूजयेद्बुधः। पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत्
अस्त्रमग्न्यादिकोणेषु वैनतेयादि पूर्ववत्। दिक्पालांश्च विधिस्त्वन्यः त्रिव्यूहेग्निश्च मध्यतः
पूर्वादिदिग्बलावासोराज्यादिभिरलङ्कृतः। कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः
विश्वरूपं सर्वस्थित्यै यजेद्राज्यजयाय च। सर्वव्यूहैः समायुक्तमङ्गैरपि च पञ्चभिः
गरुडद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात्। विष्वक्सेनं यजेन्नाम्ना वै बीजं व्योमसंस्थितम्
नारद उवाच मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकम्। अञ्चलिः प्रथमा मुद्रा वन्दनी हृदयानुगा
ऊद्धर्वाङ्गुष्ठो वाममुष्टिर्द्दक्षिणाङ्गुष्ठबन्धनम्। सव्यस्य तस्य चाङ्गुष्ठो यस्य चोद्धर्वे प्रकीर्त्तितः
तिस्नः साधरणा व्यूहे अथासाधारणा इमाः। कनिष्ठादिविमोकेन अष्टौ मुद्रा यथाक्रमम्
अष्टानां पूर्व्वबीजानां क्रमशस्त्ववधारयेत्। अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम्
ऊद्ध्र्वं कृत्वा सम्मुखञ्च थीजाय नवमाय वै। वामहस्तमथोत्तानं कृत्वार्द्धं नामयेच्छनैः
वराहस्य स्मृता मुद्रा अङ्गानाञ्च क्रमादिमाः। एकैकां मोचयेद् बद्ध्वा वाममुष्टौ तथाङ्गुलीम्
आकुञ्चयेत् पूर्वमुद्रां दक्षिणेत्येवमेव च। ऊद्र्ध्वाङ्गुष्ठो वाममुष्टिर्मुद्रासिद्धिस्ततो भवेत्
नारद उवाच अभिषेकं प्रवक्ष्यामि यथाचार्य्यस्तु पुत्रकः। सिद्धिबाक् साधको येन रोगी रोगाद्विमुच्यते
राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनम्। मूर्त्तिकुम्भान् सुरत्नाढ्यः मध्यपूर्वादितो न्यसेत्
सहस्त्रावर्त्तितान् कुर्य्यादथवा शतवर्त्तितान्। मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठके
निवेश्य शकलीकृत्य पुत्रकं शाधकादिकम्। अभिषेकं समभ्यर्च्च्य कुर्य्याद्गीतादिपूर्वकम्
दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः। गुरुस्च समायान् ब्रूयाद्गुप्तः शिष्योथ सर्वभाक्