जनार्द्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् । कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ।। ३०५.
शालग्रामे महायोगं हरिं गोवर्द्धनाचले । पिण्डारके चतुर्ब्बाहुं शङ्खोद्धारे च शङ्खिनम् ।। ३०५.
वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् । विश्वेश्वरं तथा शोणे कपिलं पूर्व्वसागरे ।। ३०५.
विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे । वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ।। ३०५.
काशीतटे महायोगं विरजायां रिपुञ्जयम् । विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ।। ३०५.
द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् । लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ।। ३०५.
पुरुषं पूरुषवटे विमले च जगत्प्रभुं । अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ।। ३०५.
उत्पलावर्त्तके शौरिं नर्म्मदायां श्रियः पतिं । दामोदरं रैवतके नन्दायां जलशायिनं ।। ३०५.
गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विदुः । सह्याद्रौ देवदेवेशं वैकुण्ठं मागधे वने ।। ३०५.
सर्व्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् । आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ।। ३०५.
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् । पर्व्वते पर्व्वते रामं सर्व्वत्र मधुसूदनं ।। ३०५.
नरं भूमौ तथा व्योम्नि वशिष्ठे गरुड़ध्वजम् । वासुदेवञ्च सर्व्वत्र संस्मरन् भुक्तिमुक्तिभाक् ।। ३०५.
नामान्येतानि विष्णोश्च जप्त्वा सर्वमवाप्नुयात् । क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ।। ३०५.
तत्सर्व्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् । यः पठेत् श्रृणुयाद्वापि निर्म्मलः स्वर्गमाप्नुयात् ।। ३०५.
अग्निरुवाच स्तम्भो विद्वेषणोच्चाट उत्सादो भ्रममारणे । व्याधिश्चोति स्मृतं क्षुद्रं तन्मोक्षो वक्ष्यते श्रृणु ।। ३०६.
ओं नमो बगवते उन्मत्तरुद्राय भ्रम भ्रामय अमुकं वित्रासय उद्रभ्रामय रौद्रेण रूपेण हूँ फट् ठ । श्मशाने निशि जप्तेन त्रिलक्षं मधुना हुनेत् । चिताग्नौ धूर्त्तसमिद्भिर्भ्राम्यते सततं रिपुः ।। ३०६.
हेमगैरिकया कृष्णा प्रतिमा हैमसूचिभिः । जप्त्वा विध्येच्च तत्कण्ठे हृदि वा म्रियते रिपुः ।। ३०६.
खरबालचिताभस्म ब्हह्मदण्डी च मर्कटी । गृहे वा मूर्ध्नि तच्चूर्णं जप्तमुत्सादकृत् क्षिपेत् ।। ३०६.
भृग्वाकाशौ सदीप्ताग्निर्भृगुर्वह्निश्च विचक्राय शिवः । एवं सहस्रारे हूं फट् आचक्राय स्वाहा हृदयं विचक्राय शिवः । शिखाचक्रायाथ कवचं विचक्रायाथ नेत्रकम् ।। ३०६.
सञ्चक्रायास्त्रमुदिष्टं ज्यालाचक्राय पूर्ववत् । शार्ङ्ग सुदर्शनं क्षुद्रग्रहहृत् सर्व्वसाधनम् ।। ३०६.
मूर्द्धाक्षिमुखहृद्गुह्यपादे ह्यस्याक्षरान्न्यसेत् । चक्राब्जासनमग्न्याभं दंष्ट्रिणञ्च चतुर्भुजम् ।। ३०६.
शङ्कचक्रगदापद्मशलाकाङ्कुशपाणिनम् । चापिनं पिङ्गकेशाक्षमरव्याप्तत्रिपिष्टपं ।। ३०६.
नाभिस्तेनाग्निना विद्धा नश्यन्ते व्याधयो ग्रहाः । पीतञ्चक्रं गदा रक्ताः स्वाराः श्याममवान्तरं ।। ३०६.
नेमिः श्वेता वहिः कृष्णवर्णरेखा च पार्थिवी । मध्येतरेमरे वर्णानेवं चक्रद्वयं१ लिखेत् ।। ३०६.
आदावानीय कुम्भोदं गोचरे सन्निधाय च । दत्त्वा सुदर्शनं तत्र याम्ये चक्रे हुनेत् क्रमात् ।। ३०६.
आज्यापामार्गसमिधो ह्यक्षतं तिलसर्षणौ । पायसं गव्यमाज्यञ्च सहस्राष्टकसंख्यया ।। ३०६.
हुतशेषं क्षिपेत् कुम्भे प्रतिद्रव्यं विधानवित् । प्रस्थानेन कृतं पिण्डं कुम्भे तस्मिन्निवेशयेत् ।। ३०६.
विष्णवादि सर्वं तत्रैव न्यसेत् तत्रैव दक्षिणे । नमो विष्णुजनेभ्यः सर्वशान्तिकरेभ्यः प्रतिगृह्णन्तु शान्तये नमः ३०६.
फलके कल्पिते पात्रे पलाशं क्षीरशाखिनः । गव्यपूर्णे निवेश्यैव दिक्ष्वेव होमयेद् द्विजः ।। ३०६.
सदक्षिणमिदं होमद्वयं भूतादिनाशनम् । गव्याक्तपत्रलिखितैर्निष्पर्णैः क्षुद्रमुद्धृतम् ।। ३०६.