हस्ताभिषेकं कृत्वाथ प्रायात् पूजादिकं बुधः । मूलेनाब्जासनं कुर्य्यात्तेन पूरककुम्भकान् ॥ ३०४.
आत्मानं योजयित्वोर्द्ध्वं शिखान्ते द्वादशाङ्गुले । संशोष्य दग्धवा स्वतनुं प्लावयेदमृतेन च ॥ ३०४.
ध्यात्वा दिव्यं वपुस्तस्मिन्नात्मानञ्च पुनर्नयेत् । कृत्वैवं चात्मशुद्धिः स्याद्विन्यस्यार्च्चनमारभेत् ॥ ३०४.१५ क्रमात् कृष्णसितश्यामरक्तपीता नगादयः । मन्त्रार्णा दण्डिनाङ्गनि तेषु सर्व्वास्तु मूर्त्तयः ॥ ३०४.
अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि सर्व्वतः । न्यसेन्मन्त्राक्षरं पादगुह्यहृद्वक्त्रमूर्द्धसु ॥ ३०४.
व्यापकं न्यस्य मूर्द्धादि मूलमङ्गानि विन्यसेत् । रक्तपीतश्यामसितान् पीठपादान् स्वकोणजान् ॥ ३०४.
स्वाङ्गान्मन्त्रैर्न्यसेद् गात्राण्यधर्म्मादीनि दिक्षु च । तत्र पद्मञ्च सूर्य्यादिमण्डल त्रितयं गुणान् ॥ ३०४.
पूर्व्वादिपत्रे वामाद्या नवमी कर्णिकोपरि । वामा ज्येष्ठा क्रमाद्रौद्री काली कलविकारिणी ॥ ३०४.
बलविकारिणी चाथ बलप्रमथनी तथा । सर्व्वभूतदमनी च नवमी च मनोन्मनी ॥ ३०४.
श्वेता रक्ता सिता पीता श्यामा वह्निनिभाषिता । कृष्णारुणाश्च ताः शक्तीर्ज्वालारूपाः स्मरेत् क्रमात् ॥ ३०४.
अनन्तयोगपीठे च आवाह्याथ हृदब्जतः । स्फटिकाभं चतुर्बाहुं फलशूलधरं शिवम् ॥ ३०४.
साभयं वरदं पञ्चवदनञ्च त्रिलोचनम् । पत्रेषु मूर्त्तयः पञ्च स्थाप्यास्तत्पुरुषादयः ॥ ३०४.
पूर्व्वे तत्पुरुषः श्वेतो अघोरोऽष्टभुजोऽसितः । चतुर्बाहुमुखः पीतः सद्योजातश्च पश्चिमे ॥ ३०४.
वामदेवः स्त्रीविलासी चतुर्वक्त्रभुजोऽरुणः । सौम्ये पञ्चास्य ईशाने ईशानः सर्व्वदः सितः ॥ ३०४.
इष्टाङ्गानि यथान्यायमनन्तं सूक्ष्म्मर्च्चयेत् । सिद्धेश्वरं त्वेकनेत्रं पूर्व्वादौ दिशि पूजयेत् ॥ ३०४.
एकरुद्रं त्रिनेत्रञ्च श्रीकण्ठञ्च शिखण्डिनम् । ऐशान्यादिविदिक्ष्वेते विद्येशाः कमलासनाः ॥ ३०४.
श्वेतः पीतः सितो रक्तो धूम्रो रक्तोऽरुणः सितः । शूलाशनिशरेष्वासवाहवश्चतुराननाः ॥ ३०४.
उमा चण्डीशनन्दीशौ महाकालो गणेश्वरः । वृषो भृङ्गरिटिस्कन्दानुत्तरादौ प्रपूजयेत् ॥ ३०४.
कुलिशं शक्तिदण्डौ च खड्गपाशध्वजौ गदां । शूलं चक्रं यजेत् पद्मं पूर्व्वादौ देवमर्च्य च ॥ ३०४.
ततोऽधिवासितं शिष्यं पाययेद् गव्यपञ्चकम् । आचान्तं प्रोक्ष्य नेत्रान्तैर्नेत्रे नेत्रेण बन्धयेत् ॥ ३०४.
द्वारे प्रवेशयेच्छिष्यं मण्डपस्याथ दक्षिणे । सासनादिकुशासीनं तत्र संशोधयेद् गुरुः ॥ ३०४.
आदितत्त्वानि संहृत्य परमार्थे लयः क्रमात् । पुनरुत्पादयेच्छिष्यं सृष्टिमार्गेण देशिकः ॥ ३०४.
न्यासं शिष्ये ततः कृत्वा तं प्रदक्षिणमानयेत् । पश्चिमद्वारमानीय क्षेपयेत् कुसुमाञ्जलिम् ॥ ३०४.
यस्मिन् पतन्ति पुष्पाणि तन्नामाद्यं विनिर्द्दिशेत् । पार्श्वे यागभुवः खाते कुण्डे सन्नाभिमेखले ॥ ३०४.
शिवाग्निं जनयित्वेष्ट्वा पुनः शिष्येण चार्च्चयेत् । ध्यानेनात्मनि तं शिष्यं संहृत्य प्रलयः क्रमात् ॥ ३०४.
पुनरुत्पाद्य तत्पाणौ दद्याद्दर्भांश्च मन्त्रितान् । पृथिव्यादीनि तत्त्वानि जुहुयाद् हृदयादिभिः ॥ ३०४.
एकैकस्य शतं हुत्वा व्योममूलेन होमयेत् । हुत्वा पूर्णाहुतिं कुर्य्यादस्त्रेणाष्टाहुतीर्हुनेत् ॥ ३०४.
प्रायश्चित्तं विशुद्ध्यर्थं ततः शेषं समापयेत् । कुम्भं समन्त्रितं प्रार्च्यं शिशुं पीठेऽभिषेचयेत् ॥ ३०४.
अग्निरुवाच जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः । मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम् ।। ३०५.
पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् । राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ।। ३०५.
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे । वाराहं वर्द्धमाने च काश्मीरे चक्रपाणिनम् ।। ३०५.