धात्रीभृड्गरसप्रस्थतैलञ्च क्षीरमाढकम् । ओं नमो भगवते त्र्यम्बकाय उपशमयचुलुमिलि भिद गोमानिनि चक्रिण ह्रूं फट् ३०२.
मारीनिर्नाशनकरः स मां पातु जगत्पतिः । श्लोकौ चैव न्यसेदेतौ मन्त्रौ गोरक्षकौ पृथक् ।। ३०२.
अग्निरुवाच यदा जन्मर्क्षगश्चन्द्रो भानुः सप्तमराशिगः । पौष्णः कालः स विज्ञेयस्तदा ग्रासं परीक्षयेत् ।। ३०३.
कण्ठेष्ठै चलतः स्थानाद्यस्य वक्रा च नासिका । कृष्णा च जिह्वा सप्ताहं जीवितं तस्य वै भवेत् ।। ३०३.
तारो मेषो विषं दन्ती नरो दीर्घो घणा रसः । क्रुद्धोल्काय महोल्काय वीरोत्लाय शिखा भवेत् ।। ३०३.
ह्यल्काय सहसोल्काय वैष्णवोष्टाक्षरो मनुः । कनिष्ठादितदष्टानामङ्गुलीनाञ्च पर्वसु ।। ३०३.
ज्येष्ठाग्रेण क्रमात्तावन् मूर्द्धन्यष्टाक्षरं न्यसेत् । तर्ज्जन्यान्तारमङ्गुष्ठे लग्ने मध्यमया च तत् ।। ३०३.
तलेङ्गुष्ठे तदुत्तारं वीजोत्तारं ततो न्यसेत् । रक्तगौरधूम्रहरिज्जातरूपाः सितास्त्रथः ।। ३०३.
एवं रूपानिमान् वर्णान् भाववुद्धान्न्यसेत् क्रमात् । हृदास्यनेत्रमूर्द्धाङ्घ्रितालुगुह्यकरादिषु ।। ३०३.
अङ्गानि च न्यसेद्वीजान्न्यस्याथ करदेहयोः । यथात्मनि तथा देवेन्यासः सार्य्यः करं विना ।। ३०३.
हृदादिस्थानगान् वर्णान् गन्धपुष्पैः समर्च्चयेत् । धर्म्माद्यग्न्याद्यधर्मादि गात्रे पीठेऽम्बुजे न्यसेत् ।। ३०३.
यत्र केशरकिञ्चल्कव्यापिसूर्य्येन्दुदाहिनां । मण्डलन्त्रितयन्तावद् भेदैस्तत्र न्यसेत् क्रमात् ।। ३०३.
गुणाश्च तन्त्रसत्वाद्याः केशरम्थाश्च शक्तयः । विमलोत्कर्षणीज्ञानक्रियायोगाश्च वै क्रमात् ।। ३०३.
प्रह्वी सत्या तथेशानानुग्रहा मध्यतस्ततः । योगपीठं समभ्यर्च्य समावाह्य हरिं यजेत् ।। ३०३.
वासुदेवादयः पूज्याश्चत्वारो दिक्षु मूर्त्तयः । विदिक्षु श्रईसरस्वत्यै रतिशान्त्यै च पूजयेत् ।। ३०३.
शङ्खं चक्रं गदां पद्मं मुषलं खड्गशार्ङ्गिके । वनमालान्वितं दिक्षु विदिक्षु च यजेत् क्रमात् ।। ३०३.
अब्यर्च्य च चवहिस्तार्क्ष्यं देवस्य पुरतोऽर्च्चयेत् । विश्वक्सेनञ्च सोमेशं मध्ये आवरणाद्वहिः ।। ३०३.
इन्द्रादिपरिचारेण पूज्य सर्व्वमवाप्नुयात् ।। ३०३.
अग्निरुवाच मेषः संज्ञा विषं साज्यमस्ति दीर्घेदकं रसः । एतत् पञ्चाक्षरं मन्त्रं शिवदञ्च शिवात्मकं ॥ ३०४.
तारकादि समभ्यर्च्च्य देवत्वादि समाप्नुयात् । ज्ञानात्मकं परं ब्रह्म परं बुद्धिः शिवो हृदि ॥ ३०४.
तच्छक्तिभूतः सर्व्वेशो भिन्नो ब्रह्मादिमूर्त्तिभिः । मन्त्रार्णाः पञ्च भूतानि तन्मन्त्रा विषयास्तथा ॥ ३०४.
प्राणादिवायवः पञ्च ज्ञानकर्म्मेन्द्रियाणि च । सर्वं पञ्चाक्षरं ब्रह्म तद्वदष्टाक्षरान्तकः ॥ ३०४.
गव्येन प्रोक्षयेद्दीक्षास्थानं मन्त्रेण चोदितं । तन्त्रसम्भूतसम्भावः शिवमिष्ट्वा विधानतः ॥ ३०४.
मूलमूर्त्त्यङ्गविद्याभिस्तण्डुलक्षेपणादिकम् । कृत्वा चरुञ्च यत् क्षीरं पुनस्तद्विभजेत् त्रिधा ॥ ३०४.
निवेद्यैकं परं हुत्वा सशिष्योऽन्यद् भजेद्गुरुः । आचम्य सकलीकृत्य दद्याच्छिष्याय देशिकः ॥ ३०४.
दन्तकाष्ठं हृदा जप्तंक्षीरवृक्षादिसम्भवम् । संशोध्य दन्तान् संक्षीप्त्वा प्रक्षाल्यैतत् क्षिपेद्भुवि ॥ ३०४.
पूर्व्वेण सौम्यवारीशगं शुभमतौ शुभम् । पुनस्तं शिष्यमायान्तं शिखाबन्धादिरक्षितं ॥ ३०४.
कृत्वा वेद्यां सहानेन स्वपेद्दर्भास्तरे बुधः । सुषुप्तं वीक्ष्य तं शिष्यः प्रभाते श्रावयेद् गुरुं ॥ ३०४.
शुभैः सिद्धिपदैर्भक्तिस्तैः पुनर्म्मण्डलार्च्चनम् । मण्डलं भद्रकाद्युक्तं पूजयेत्सर्व्वसिद्धिदं ॥ ३०४.
स्नात्वाचम्य मृदा देहं मन्त्रैरालिप्य कल्प्यते । शिवतीर्थे नरः स्नायादघमर्षणपूर्वकम् ॥ ३०४.