वेणुवीजयवाः शालिश्यामाकतिलराजिकाः । जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य्य तत् ।। ३०१.
जानुभ्यामवनीङ्गत्वा सूर्य्यायार्घ्यं निवेदयेत् । स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै महान् ।। ३०१.
ग्र्हादिशान्तये स्नानं जप्त्वार्क्क सर्वमाप्नुयात् । संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ।। ३०१.
न्यस्य मूर्द्धादिपादान्तं मूलं पूज्य तु मुद्रया । स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ।। ३०१.
ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् । रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.
योऽभिषेकजपध्यानपूजाहोमपरः सदा । तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.
ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं । न्यस्तवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतम्।। ३०१.
अग्निरुवाच वाक्कर्म्मपार्श्वयुक्शुक्रतोककृते मतो प्लवः । हुतान्ता देशवर्णेयं विद्या मुख्या सरस्वती ।। ३०२.
अक्षाराशी वर्णलक्षं जपेत् स मतिमान् भवेत् । अत्रिः सवह्निर्वामाक्षिविन्दुरिन्द्राय हृत्परः ।। ३०२.
वज्रपद्मधरं शक्रं पीतमावाह्य पूजयेत् । नियुतं होमयेदाज्यतिलांस्तेनाभिषेचयेत् ।। ३०२.
नृपादिर्भ्रष्टराज्यादीन्राज्यपुत्रादिमाप्नुयात् । हृल्लेखा शक्तिदेवाख्या दोषारग्निर्द्दण्डिदण्डवान् ।। ३०२.
शिवमिष्ट्वा जपेच्छक्तिमष्टम्यादिचतुर्द्दशीं । चक्रपाशाङ्कुशधरां साभयां वरदायिकां ।। ३०२.
होमादिना च सौभाग्यं कवित्वं पुत्रवान् भवेत् । ओं ह्रीं ओं नमः कामाय कर्व्वजनहिताय सर्व्वजनमोहनाय प्रज्वलिताय सर्व्वजनहृदयं ममात्मगतं कुरु ओं । एतज्जपादिना मन्त्रो वशयेत् सकलं जगत् ।। ३०२.
ओं ह्रीं चामुण्डेअमुकन्दह पच मम वशमानय ठ । वशीकरणकृन्मन्त्रश्चामुण्डायाः प्रकीर्त्तितः । फलत्रयकषायेण वरङ्गं क्षालयेद्वशे ।। ३०२.
अश्वगन्धायवैः स्त्री तु निशाक्कर्पूरकादिना । पिप्पलीतण्डुलान्यष्टौ मरिचानि च विंशतिः ।। ३०२.
वृहतीरसलेपश्च वशे स्यान्मरणान्तिकं । कटीरमूलत्रिकटुक्षौद्रलेपस्तथा भवेत् ।। ३०२.
हिमं कपित्थकरभं मागधी मधुकं मधु । तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् ।। ३०२.
सशर्क्करयोनिलेपात् कदम्बरसको मधु । तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् ।। ३०२.
एतच्चूर्णं शिरःक्षिप्तं वशमुत्तमम् । त्रिफला चन्दनक्काथप्रश्था द्विकुड़वम् पृथ्क् ।। ३०२.
भृङ्गहेमरसन्दोषातावती चुञ्चुकं मधु । घृतैः पक्का निशा छाया शुष्का लोप्या तु रञ्जनी ।। ३०२.
विदारीं सोच्चटामाषचूर्णीभूतां सशर्करां । मथितां यः पिवेत् क्षीरैर्नित्यं स्त्रीशतकं ब्रजेत् ।। ३०२.
गुल्ममाषतिलव्रीहिचूर्णक्षीरसितान्वितं । अश्वत्थवंशदर्भाणं मूलं वै वैष्णवीश्रियोः ।। ३०२.
मूलं दूर्व्वाश्वगन्धोत्थं पिवेत् क्षीरैः सुतार्थिनी । कौन्तीलक्ष्म्याः शिफा धात्री वज्रं लोध्रं वटाङ्कुरम् ।। ३०२.
आज्यक्षीरमृतौ पेयं पुत्रार्थ त्रिदिवं स्त्रिया । पुत्रार्थिनी विबेत् क्षीरं श्रीमृलं सवटाह्कुरम् ।। ३०२.१७ श्रीवटाङ्कुरदेवीनां रसं तस्ये पिवेच्च सा । श्रीपद्ममूलमुत्क्षीरमश्वत्थोत्तरमूलयुक् ।। ३०२.
तरलं पयसा युक्तं कार्पासफलपल्लवं । अपामार्गस्य पुष्पाग्रं नवं समहिषीपयः ।। ३०२.
पुत्रार्थञ्चार्द्धषट्शाकैर्योगाश्चत्वार ईरिताः । शर्करोत्पलपुष्पाक्षलोद्रचन्दनसारिवाः ।। ३०२.
स्नवमाणे स्त्रिया गर्भे दातव्यास्तण्डुलाम्भसा । लाजा यष्टिसिताद्राक्षाक्षौद्रसर्पींषि वा लिहेत् ।। ३०२.
अटरुषकलाङ्गुल्यः काकमाच्याः शिफा पृथक् । नाभेरघः समालिप्य प्रसूते प्रमदा सुखम् ।। ३०२.
रक्तं शुक्लं जवापुष्पं रक्तशुक्लस्रुतौ पिवेत् । केशरं वृहतीमूलं गोपीयष्टितृणोत्पलम् ।। ३०२.
साजक्षीरं सतैलं तद्भक्षणं रोमजन्मकृत् । शीर्य्यमाणेषु केशेषु स्थापनञ्च भवेदिदम् ।। ३०२.