स्वयं दीर्घस्वराकग्यञ्च वीजेष्वङ्गानि सर्वशः । खातं साधु विषञ्चैव सनिन्दुं सकलं तथा ।। ३०१.
गणस्य पञ्च वीजानि पृथग्दृष्टफलं महत् । गणं जयाय नमः एकदंष्ट्राय अचलकर्णिने गजवक्ताय महोदरहस्ताय ३०१.
गणाधिपतये गणेश्वराय गणनायकाय गणक्रीडाय । दिग्दले पूजयेन्नमूर्त्तीः पुरावच्चाङ्गपञ्चकम् ।। ३०१.
मध्यामातर्ज्जनीमध्यागताङ्गुष्ठौ समुष्टिकौ । चुर्भुजो मोदकाढ्यो दण्डपाशाङ्कुशान्वितः ।। ३०१.
दन्तभक्षधरं रक्तं साब्जं पाशाङ्कुशैर्वृतम् । पूजयेत्तं चतुर्थ्याञ्च विशेषेनाथ नित्यशः ।। ३०१.
श्वेतार्कमूलेन कृतं सर्व्वाप्तिः स्यात्तिलैर्घृतैः । तण्डुलैर्दधिमध्वाज्यैः सौभाग्यं वश्यता भवेत् ।। ३०१.
घोषासृक्प्राणधात्वर्दी दण्डी मार्त्तण्डभैरवः । धर्म्मार्थकाममोक्षाणां कर्त्ता विम्बपुटावृतः ।। ३०१.
ह्रस्वाः स्युर्मूर्त्तयः पञ्च दीर्घा अङ्गानि तस्य च । सिन्दूरारुणमीशाने वामार्द्धदयितं रविं ।। ३०१.
आग्नेयादिषु कोणेषु कुजमन्दाहिकेतवः । स्नात्वा विधिवदादित्यमाराध्यार्घ्यपुरःसरं ।। ३०१.
कृतान्तमैशे निर्म्माल्यं तेजश्चण्डाय दीपितं । रोचना कुङ्कुमं वारि रक्तागन्धाक्षताङ्कुराः ।। ३०१.
वेणुवीजयवाः शालिश्यामाकतिलराजिकाः । जवापुष्पान्वितां दत्वा पात्रैः शिरसि धार्य्य तत् ।। ३०१.
जानुभ्यामवनीङ्गत्वा सूर्य्यायार्घ्यं निवेदयेत् । स्वविद्यामन्त्रितैः कुम्भैर्नवभिः प्रार्च्य वै महान् ।। ३०१.
ग्र्हादिशान्तये स्नानं जप्त्वार्क्क सर्वमाप्नुयात् । संग्रामविजयं साग्निं वीजदोषं सविन्दुकं ।। ३०१.
न्यस्य मूर्द्धादिपादान्तं मूलं पूज्य तु मुद्रया । स्वाङ्गानि च यथान्यासमात्मानं भावयेद्रविं ।। ३०१.
ध्यानञ्च मारणस्तम्भे पीतमाप्यायने सितम् । रिपुघातविधौ कृष्णं मोहयेच्छक्रचापवत् ।। ३०१.
योऽभिषेकजपध्यानपूजाहोमपरः सदा । तेजस्वी ह्यजयः श्रीमान् समुद्रादौ जयं लभेत् ।। ३०१.
ताम्बूलादाविदं न्यस्य जप्त्वा दद्यादुशीरकं । न्यस्तवीजेन हस्तेन स्पर्शनं तद्वशे स्मृतम्।। ३०१.
अग्निरुवाच वाक्कर्म्मपार्श्वयुक्शुक्रतोककृते मतो प्लवः । हुतान्ता देशवर्णेयं विद्या मुख्या सरस्वती ।। ३०२.
अक्षाराशी वर्णलक्षं जपेत् स मतिमान् भवेत् । अत्रिः सवह्निर्वामाक्षिविन्दुरिन्द्राय हृत्परः ।। ३०२.
वज्रपद्मधरं शक्रं पीतमावाह्य पूजयेत् । नियुतं होमयेदाज्यतिलांस्तेनाभिषेचयेत् ।। ३०२.
नृपादिर्भ्रष्टराज्यादीन्राज्यपुत्रादिमाप्नुयात् । हृल्लेखा शक्तिदेवाख्या दोषारग्निर्द्दण्डिदण्डवान् ।। ३०२.
शिवमिष्ट्वा जपेच्छक्तिमष्टम्यादिचतुर्द्दशीं । चक्रपाशाङ्कुशधरां साभयां वरदायिकां ।। ३०२.
होमादिना च सौभाग्यं कवित्वं पुत्रवान् भवेत् । ओं ह्रीं ओं नमः कामाय कर्व्वजनहिताय सर्व्वजनमोहनाय प्रज्वलिताय सर्व्वजनहृदयं ममात्मगतं कुरु ओं । एतज्जपादिना मन्त्रो वशयेत् सकलं जगत् ।। ३०२.
ओं ह्रीं चामुण्डेअमुकन्दह पच मम वशमानय ठ । वशीकरणकृन्मन्त्रश्चामुण्डायाः प्रकीर्त्तितः । फलत्रयकषायेण वरङ्गं क्षालयेद्वशे ।। ३०२.
अश्वगन्धायवैः स्त्री तु निशाक्कर्पूरकादिना । पिप्पलीतण्डुलान्यष्टौ मरिचानि च विंशतिः ।। ३०२.
वृहतीरसलेपश्च वशे स्यान्मरणान्तिकं । कटीरमूलत्रिकटुक्षौद्रलेपस्तथा भवेत् ।। ३०२.
हिमं कपित्थकरभं मागधी मधुकं मधु । तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् ।। ३०२.
सशर्क्करयोनिलेपात् कदम्बरसको मधु । तेषां लेपः प्रयुक्तस्तु दम्पत्योः स्वस्तिमावहेत् ।। ३०२.
एतच्चूर्णं शिरःक्षिप्तं वशमुत्तमम् । त्रिफला चन्दनक्काथप्रश्था द्विकुड़वम् पृथ्क् ।। ३०२.
भृङ्गहेमरसन्दोषातावती चुञ्चुकं मधु । घृतैः पक्का निशा छाया शुष्का लोप्या तु रञ्जनी ।। ३०२.