तृतीये गोमुखी निद्रा सविण्मुत्रप्ररोदनम् । यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम् ।। २९९.
क्षीरं पूर्व्वे ददेन्मध्येऽहनि धूपश्च सर्पिषा । पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्त्तिहृत् ।। २९९.
तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् । पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं ।। २९९.
अपानः पीतवर्णश्च मत्स्याद्यैर्द्दक्षइणे बलिः । षणअमासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः ।। २९९.
मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः । सप्तमे तु निराहारा पूतिगन्धादिदन्तरुक् ।। २९९.
पिष्टमांससुरामांसैर्बलिः स्याद्यमुनाष्टमे । विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत् ।। २९९.
नवमे कुम्भकर्ण्यार्त्तो ज्वरी च्छर्द्दति पालकम् । रोदनं मांसकुल्माषमद्याद्यैर्वैश्वके बलिः ।। २९९.
दशमे तापसी चेष्टा निराहारोक्षइमीलनम् । घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ।। २९९.
राक्षस्येकादशी पीड़ा नेत्राद्यं न चिकित्सनम् । चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् ।। २९९.
बलिः पूर्वऽथ मध्याह्ने कुल्माषाद्यैस्तिलादिभिः । यातना तु द्वितीयेऽब्दे यातनं रोदनादिकम् ।। २९९.
तिलमांसमद्यमांसैर्बलिः स्नानादि पूर्ववत् । तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं ।। २९९.
गुड़ौदनं तिलापूपः प्रतिमा तिलपिष्टजा । तिलस्नानं पञ्चपत्रैर्धूपो राजफलत्वचा ।। २९९.
चतुर्थे चटकाशोफो ज्वरः सर्व्वाङ्गसादनम् । मत्स्यमांसतिलाद्यैश्च बलिः स्नानञ्च धूपनम् ।। २९९.
चञ्चला पञ्चमेऽब्दे तु ज्वरस्त्रासोऽङ्गसादनम् । मांसौदनाद्यैश्च वलिर्मेषश्रृङ्गेण धूपनम् ।। २९९.
पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् । षष्ठेऽब्दे धावनीशोषो वैरस्यं३ गात्रसादनम् ।। २९९.
सप्ताहोभिर्बलिः पूर्वैर्धूपस्नानञ्च भङ्गकैः । स्प्तमे यमुनाच्छर्दिरवचोहासरोदनम् ।। २९९.
मांसपायसमद्याद्यैर्बलिः स्नानञ्च धूपनम् । अष्टमे वा जातवेदा निराहारं प्ररोदनम् ।। २९९.
कृशरापूपदध्याद्यैर्बलिः स्नानञ्च धूपनम् । कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् ।। २९९.
बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः । दशमेऽब्दे कलहंसी दाहोऽङ्गकृशता ज्वरः ।। २९९.
पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् । निम्बधूपकुष्ठलेप एकादशमके ग्रही ।। २९९.
देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् । बलिका द्वादशे स्वासो बलीर्लेपादि पूर्ववत् ।। २९९.
त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् । रक्तान्नगन्धमाल्याद्यैर्बलिः पञ्चदलैः स्नपेत् ।। २९९.
राजीनिस्वदलैर्धूपो यक्षिणी च चतुर्दशे । चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर्बलिः ।। २९९.
स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्त्तिस्त्रिपञ्चके । तच्चेष्टासृक्श्रवः शश्वत्कुर्य्यान्मातृचिकित्सनम् ।। २९९.
वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः । पायसाद्यैस्त्रिरात्रञ्च बलिः स्नानादि पूर्ववत् ।। २९९.
गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् । कुल्माषाद्यैर्बलिः स्नानधूपलेपादि पूर्ववत् ।। २९९.
दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः । ओं नमऋ सर्वमातृभ्यो बालपीड़ासंयोगं भुञ्ज भुञ्ज चुट चुट स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण आकट्टय आकट्टय एवं सिद्धरूपो ज्ञापयति । हर हर निर्दोवं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा सर्वग्रहाणामुपक्रमात् । चामुण्डे नमो देवेयै ह्रूँ ह्रुँ ह्रीँ अपसर अपसर दुष्टग्रहान् ह्रूँ तद्यथा गच्छन्तु गृह्यकाः अन्यत्र पन्थानं रुद्रो ज्ञापयति । सर्वबालग्रहेषु स्यान्मन्त्रोऽयं सर्वकामिकः ।। २९९.
ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा । बलिं गृह्ण गृह्ण जय जय वस वस । सर्वत्र बलिदानेऽयं रक्षाकृत् पठ्यते मनुः ।। २९९.
ब्रह्मा विष्णुः शिवः स्कन्दो गौरीलक्षअमीर्गणआदयः । रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ।। २९९.
धन्वन्तरिरुवाच शय्या तु दण्डिसाजेशपावकश्चतुराननः । सर्व्वार्थसाधकमिदं वीजं पिण्डार्थमुच्यते ।। ३०१.