अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् । यष्टिव्योषगुडक्षीरयोगाः शुनो विषापहः ।। २९८.
ओं सुभद्रायै नमः ओं सुप्रभायै नमः । यान्यौषधानि गृह्यन्ते विदानेन विना जनैः ।। २९८.
तेषां वीजन्त्वया ग्राह्यमिति ब्रह्माऽव्रवीच्च नाम् । ताम्प्रणम्योषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ।। २९८.
दश जप्त्वा मन्त्रमिदं नमस्कुर्य्यात्तदौषधं । त्वामुद्धराम्यूद्र्ध्वनेत्रामनेनैव च भक्षयेत् ।। २९८.
नमः पुरुषसिंहाय नमो गोपालकाय च । आत्मनैवाभिजानाति रणे कृष्णपराजयं ।। २९८.
एतेन सत्यवाक्येन अगदो मेऽस्तु सिध्यतु ।। नमो वैदूर्य्यमाते तन्न रक्ष मां सर्वविषेभ्यो गौरि गान्धारि चाण्डालि मातङ्गिनि स्वाहा हरिमाये । औषधादौ प्रयोक्तव्यो मन्त्रोऽयं स्थावरे विषे ।। २९८.
भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं । पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ।। २९८.
अग्निरुवाच बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्द्दनं । अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ।। २९९.
गात्रोद्वेगो निराहारो नानाग्रीवाविवर्त्तनं । तच्चेष्टितमिदं तत्स्यान्मातृणाञ्च बलं हरेत् ।। २९९.
मत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः । लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ।। २९९.
महिषाक्षेण धूपश्च द्विरात्रे भीषणी ग्रही । तच्चेष्टा कासनिश्वासौ गात्रसङ्गोचनं मुहुः ।। २९९.
आजमूत्रैर्लिपेत् कृष्णासेव्यापामार्गचन्दनैः । गोश्रृङ्गदन्तकेशैश्च धूपयेत् पूर्ववद्वलिः ।। २९९.
ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः । जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं ।। २९९.
केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् । नखराजीविल्वदलैर्धूपयेच्च बलिं हरेत् ।। २९९.
ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं । फेनोद्ग्णरो दिशो द़तकेशेन धूपयेत् ।। २९९.
गजदन्ताहिनिर्म्मोकवाजिमूत्रप्रलेपनं । सराजीनिम्बपत्रेण धूतकेशेन धूतकेशेन धूपयेत् ।। २९९.
हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोद्र्ध्वधारिणी । मुष्टिबन्धश्च तच्चेष्टा बलिं मत्स्यादिना हरेत् ।। २९९.
मेषश्रृड्गबलालोध्रशिलातालैः शिशुं लिपेत् । फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं ।। २९९.
निराहरोऽह्गविक्षेणो हरेन्मत्स्यादिना बलिं । राजीगुग्गुलुकुष्ठे भदन्ताद्यैर्धूपलेपनैः ।। २९९.
सप्तमे मुक्तकेश्यार्त्तः पूतिगन्धो विजृम्भणं । सादः प्ररोदनङ्गासो धूपो व्याघ्रनशैर्लिपेत् ।। २९९.
वचागोमयगोमूत्रेः श्रीदणअडी चाष्टमे ग्रही । दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं ।। २९९.
वलिः पूर्वैव मत्स्याद्यैर्धूपलेपे च हिङ्गुला । वचासिद्धार्थलशुनैश्चोद्र्ध्वग्राही महाग्रही ।। २९९.
उद्वेजनोद्र्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं । रक्तचन्दनकुष्ठाद्यैर्धूपयेल्लेपयेच्छिशुं ।। २९९.
कपिरोमनखैर्धूपो दशमी रोदनी ग्ररी । तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता ।। २९९.
धूपो निम्बेन भूतोग्रराजीसर्ज्जरसैर्ल्लिपेत् । बर्लि वहिर्हरेल्लाजकुल्माषकवकोदनम् ।। २९९.
यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया । गृह्णाति मासिकं वत्सं पूतनासङ्कुली ग्रही ।। २९९.
काकवद्रोदनं स्वासो मूत्रगन्वोऽक्षिमीलनं । गोमूत्रस्नपनं त्स्य गोदन्तेन च धूपनम् ।। २९९.
पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः । त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्व्विधम् ।। २९९.
करञ्जाधो यमदिशि सप्ताहं तैर्बलिं हरेत् । द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं ।। २९९.
छर्द्दिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च । अपूपमोदनं दोपः कृष्णं नीरादि धूपकम् ।। २९९.