विषशान्त्यै दहेद्दंशं ज्वालकोकनदादिना । शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं ।। २९७.
विषं विनाशयेत् पानलेपनेनाञ्जनादिना । शिरिषपुष्पस्य रसभावितं मरिचं सितं ।। २९७.
पाननस्याञ्चनाद्यैश्च विषं हन्यान्न संशयः । कोषातकीवचाहिङ्गुशिरीषार्कपयोयुतं ।। २९७.
कुटुत्रयं समेषाम्बो हरेन्नस्यादिना विषं । रामठेक्ष्वाकुशर्वाङ्गचूर्णं नस्याद्विषापहं ।। २९७.
इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा । तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्यविषापहं ।। २९७.
पञ्चाङ्गं कृष्णपञ्चम्यां शिरीषस्य विषापहं ।। २९७.
अग्निरुवाच गोनसादिचिकित्साञ्च वशिष्ठ श्रृणु वच्मि ते । ह्रीँ ह्रीँ अमलपक्षि स्वाहा २९८.
लशुनं रामठफ्लं कुष्ठाग्निव्योषकं विषे । स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाऽहिजे विषे ।। २९८.
अथ राजिलदष्टे च पेया कृष्णा ससैन्धवा । आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ।। २९८.
सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं । व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ।। २९८.
चूर्णितैर्म्मेषदुग्धाक्तैर्धूपः सर्वविषापहः । रोमनिर्गुण्डिकाकोलवर्णैर्वा लशुनं समं ।। २९८.
मुनिपत्रैः कृतस्वेदं दष्टं काञ्जिकपाचितैः । मूषिकाः षोडश प्रोक्ता रसङ्कार्पासकजम्पिवेत् ।। २९८.
सतैलं मूषिकार्त्तिघ्नं फलिनीकुसुमन्तथा । सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ।। २९८.
चिकित्सा विंशतिर्भूता लूताविषहरो गणः । पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ।। २९८.
निर्गुण्डी शारिवा शेलु लूतार्त्तं सेचयेज्जलैः । गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ।। २९८.
करञ्जास्थि च तत्पङ्कैः वृश्चिकार्त्तिहरं श्रृणु । मञ्जिष्ठा व्योषपुष्पं शिरीषकौमुदं ।। २९८.
संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः ।। ओं नमो भगवते रुद्राय चिवि छिन्द किरि भिन्द खङ्गेन छेदय शुलेन भेदय चक्रेण दारय ओं ह्रूँ फट् । मन्त्रेण मन्त्रितो देयो गर्द्धभादीन्निकृन्तति ।। २९८.
त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं । अजाक्षीरेण पानादेर्गर्द्धभादेर्विषं हरेत् ।। २९८.
हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं । सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ।। २९८.
व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् । क्षारव्योषवचाहिङ्गुविडङ्गं सैन्धवन्नतं ।। २९८.
अम्बष्ठातिबलाकुष्ठं सर्वकीटविषं हरेत् । यष्टिव्योषगुडक्षीरयोगाः शुनो विषापहः ।। २९८.
ओं सुभद्रायै नमः ओं सुप्रभायै नमः । यान्यौषधानि गृह्यन्ते विदानेन विना जनैः ।। २९८.
तेषां वीजन्त्वया ग्राह्यमिति ब्रह्माऽव्रवीच्च नाम् । ताम्प्रणम्योषधीम्पश्चात् यवान् प्रक्षिप्य मुष्टिना ।। २९८.
दश जप्त्वा मन्त्रमिदं नमस्कुर्य्यात्तदौषधं । त्वामुद्धराम्यूद्र्ध्वनेत्रामनेनैव च भक्षयेत् ।। २९८.
नमः पुरुषसिंहाय नमो गोपालकाय च । आत्मनैवाभिजानाति रणे कृष्णपराजयं ।। २९८.
एतेन सत्यवाक्येन अगदो मेऽस्तु सिध्यतु ।। नमो वैदूर्य्यमाते तन्न रक्ष मां सर्वविषेभ्यो गौरि गान्धारि चाण्डालि मातङ्गिनि स्वाहा हरिमाये । औषधादौ प्रयोक्तव्यो मन्त्रोऽयं स्थावरे विषे ।। २९८.
भुक्तमात्रे स्थिते ज्वाले पद्मं शीताम्बुसेवितं । पाययेत्सघृतं क्षौद्रं विषञ्चेत्तदनन्तरं ।। २९८.
अग्निरुवाच बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्द्दनं । अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ।। २९९.
गात्रोद्वेगो निराहारो नानाग्रीवाविवर्त्तनं । तच्चेष्टितमिदं तत्स्यान्मातृणाञ्च बलं हरेत् ।। २९९.
मत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः । लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ।। २९९.