पञ्चर्च्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाकके । विंशके रुद्रदेवास्ताः प्रथमा बृहती स्मृता ।। २९६.
ऋग्द्वितीया त्रिजगती तृतीया त्रिष्टुबेव च । अनुष्टुभो यजुस्तिस्र आर्योभिज्ञः सुसिद्धिभाक् ।। २९६.
त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्द्दनं । इँ श्रीँ ह्रीँ ह्रैँ हूँ त्रैलोक्यमोहनाय विष्णवे नमः ।। २९६.
ओं हं इँ उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं । नृसिंहं भीषणं भद्रं मृत्युमृत्युन्नमाम्यहं ।। २९६.
अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः । द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्द्दनौ ।। २९६.
कुब्जिका त्रिपुरा गौरी चन्द्रिका विषहारिणी । प्रसादमन्त्रो विषहृदायुरारोग्यवर्द्धनं ।। २९६.
सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ।। २९६.
अग्निरुवाच ओं नमो भगवते रुद्राय छिन्द विषं ज्वलितपरशुपाणये च । नमो भगवते पक्षिरुद्राय दष्टकं उत्थापय दष्टकं कम्पय जल्पय सर्प्पदष्टमुत्थापय लल बन्व मोचय वररुद्र गच्छ बध त्रुट वुक भीषय मुष्टिना संहर विषं ठ ठ । पक्षिररुद्रेण ह विषं नाशमायाति मन्त्रणात् ।। ओं नमो भगवते रुदज्र नाशय विषं स्थावरजङ्गमं कृत्रिमाकृत्रिमविषमुपविषं नाशय नानाविषं दष्टकविषं नाशय धम दम वम मेघान्धकारधाराकर्षर्निर्विषयीभव संहर गच्छ आवेशय विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं ओं क्षिप ओं क्षिप स्वाहा । ओं ह्राँ ह्रीँ खीँ सः ठन्द्रौँ ह्रीँ ठः । जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ।। २९७.
एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः । गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः ।। २९७.
ओं नमो भगवते रुद्राय प्रेताधिपतये गुत्त्व गर्ज्ज भ्रामय मुञ्च मुह्य कट आविश सुवर्णपतङ्ग रुद्रो ज्ञापयति ठ । पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः । दंशकाहिदंशे सद्यो दष्टः काष्ठशिलादिना ।। २९७.
विषशान्त्यै दहेद्दंशं ज्वालकोकनदादिना । शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं ।। २९७.
विषं विनाशयेत् पानलेपनेनाञ्जनादिना । शिरिषपुष्पस्य रसभावितं मरिचं सितं ।। २९७.
पाननस्याञ्चनाद्यैश्च विषं हन्यान्न संशयः । कोषातकीवचाहिङ्गुशिरीषार्कपयोयुतं ।। २९७.
कुटुत्रयं समेषाम्बो हरेन्नस्यादिना विषं । रामठेक्ष्वाकुशर्वाङ्गचूर्णं नस्याद्विषापहं ।। २९७.
इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा । तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्यविषापहं ।। २९७.
पञ्चाङ्गं कृष्णपञ्चम्यां शिरीषस्य विषापहं ।। २९७.
अग्निरुवाच गोनसादिचिकित्साञ्च वशिष्ठ श्रृणु वच्मि ते । ह्रीँ ह्रीँ अमलपक्षि स्वाहा २९८.
लशुनं रामठफ्लं कुष्ठाग्निव्योषकं विषे । स्नुहीक्षीरं गव्यघृतं पक्षं पीत्वाऽहिजे विषे ।। २९८.
अथ राजिलदष्टे च पेया कृष्णा ससैन्धवा । आज्यक्षौद्रशकृत्तोयं पुरीतत्या विषापहं ।। २९८.
सकृष्णाखण्डदुग्धाज्यं पातव्यन्तेन माक्षिकं । व्योषं पिच्छं विडालास्थि नकुलाङ्गरुहैः समैः ।। २९८.
चूर्णितैर्म्मेषदुग्धाक्तैर्धूपः सर्वविषापहः । रोमनिर्गुण्डिकाकोलवर्णैर्वा लशुनं समं ।। २९८.
मुनिपत्रैः कृतस्वेदं दष्टं काञ्जिकपाचितैः । मूषिकाः षोडश प्रोक्ता रसङ्कार्पासकजम्पिवेत् ।। २९८.
सतैलं मूषिकार्त्तिघ्नं फलिनीकुसुमन्तथा । सनागरगुडम्भक्ष्यं तद्विषारोचकापहं ।। २९८.
चिकित्सा विंशतिर्भूता लूताविषहरो गणः । पद्मकं पाटली कुष्ठं नतमूशीरचन्दनं ।। २९८.
निर्गुण्डी शारिवा शेलु लूतार्त्तं सेचयेज्जलैः । गुञ्जानिर्गुण्डिकङ्कोलपर्णं शुण्ठी निशाद्वयं ।। २९८.
करञ्जास्थि च तत्पङ्कैः वृश्चिकार्त्तिहरं श्रृणु । मञ्जिष्ठा व्योषपुष्पं शिरीषकौमुदं ।। २९८.
संयोज्याश्चतुरो योगा लेपादौ वृश्चिकापहाः ।। ओं नमो भगवते रुद्राय चिवि छिन्द किरि भिन्द खङ्गेन छेदय शुलेन भेदय चक्रेण दारय ओं ह्रूँ फट् । मन्त्रेण मन्त्रितो देयो गर्द्धभादीन्निकृन्तति ।। २९८.
त्रिफलोशीरमुस्ताम्बुमांसीपद्मकचन्दनं । अजाक्षीरेण पानादेर्गर्द्धभादेर्विषं हरेत् ।। २९८.
हरेत् शिरीषपञ्चाङ्गं व्योषं शतपदीविषं । सकन्धरं शिरीषास्थि हरेदुन्दूरजं विषं ।। २९८.
व्योषं ससर्पिः पिण्डीतमूलमस्य विषं हरेत् । क्षारव्योषवचाहिङ्गुविडङ्गं सैन्धवन्नतं ।। २९८.