हृच्छिरश्च शिखा वर्म्म चास्त्रनेत्रन्तथोदरम्। पृष्ठबाहूरुजानूँश्च जङ्घा पादौ क्रमान्न्यसेत्
कं टं पं शं वैनतेयः खं ठं फं षं गदामनुः । गं डं बं सं पुष्टिमन्त्रो घं ढं भं हं श्रियै नमः
वं शं मं क्षं पाञ्चजन्यं छं तं पं कौस्तुभाय च। जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लं
ओं धं वं वनमालायै महानन्ताय वै नमः । निर्बीजपदमन्त्राणं पदैरङ्गानि कल्पयेत्
जात्यन्तैर्नामसंयुक्तैर्हृदयादीनि पञ्चधा। प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा
प्रणवं हृदयं पूर्वं परायेति शिरः शिखा। नाम्नात्मना तु कवचं अस्त्रं नामान्तकं भवेत्
ओं परास्त्रादिस्वनामात्मा चतुर्थ्यन्तो नमोन्तकः। एकव्यूहादिपड्विशव्यूहात्तस्यात्मनो मनुः
कनिष्ठादिकराग्रेषु प्रकृतिं देहकेर्च्चयेत्। पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः
ओं परायाग्न्यात्मने चैव वाय्वर्क्कौ च द्विरूपकः। अग्निं त्रिमूर्त्तौ विन्यस्य व्यापकं करदेहयोः
वाय्वर्क्कौ करशाखासु सव्येतरकरद्वये। हृदि मूर्त्तौ तनावेष त्रिव्यूहे तुर्य्यरूपके
ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत्। तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः
आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत्। अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके
वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः। मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः
व्यापकं मानसं न्यस्य ततोङ्गुष्ठादितः क्रमात्। मूर्द्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः
आदिमूर्त्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः। भूर्भुवः स्वर्म्महर्ज्जनस्तपः सत्यञ्च सप्तधा
करे देहे न्यसेदाद्यमङ्गुष्ठादिक्रमेण तु। तलसंस्थः सप्तमश्च लोकेशो देहके क्रमात्
देहे शिरोललाटास्यहृद्गुह्याङ्घ्रिषुसंस्थितः। अग्निष्टोमस्तथोक्थस्तु षोडशी वाजपेयकः
अतिरात्राप्तोर्यामञ्च यज्ञात्मा सप्तरूपकः। धीरहं मनः शब्दश्च स्पर्शरूपरसास्तत
गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात्। न्यसेदन्त्यौ च तलयोः के ललाटे मुखे हृदि
नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृत । जीवो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः
रूपं रसो नवात्मायं जीव अह्गुष्ठकद्वये। तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीम्
देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु। पादयोश्च दशात्मायं इन्द्रो व्यापी समास्थितः
अङ्गुष्टकद्वये वह्निस्तर्जन्यादौ परेषु च। शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु
पादयोरेकादशात्मा मनः श्रोत्रं त्वगेव च। चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश्च पायुकः
उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये। तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये
उत्तमाङ्गललाटास्यहृन्नाभावथ गुह्यके। ऊरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात् ।। ३७ विष्णुर्म्मधुहरश्चैव त्रिविक्रमकवामनौ। श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च
दामोदरः केशवश्च नारायणस्ततः परः। माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत्
अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ। शिरः शिखरकट्याञ्च जानुपादादिषु न्यसेत्
द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस्तथा। पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः
तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा। चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश्च पायवः