द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात् । पक्षिराजाय विद्महे पक्षिऽदेवाय धीमहि तन्नो गरुडः प्रचोदयात् । वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ।। २९५.
हर हर हृदयाय नमः कपर्द्दिने च शिरसे नीलकण्ठाय वै शिखांकालकूटविषभक्षणाय स्वाहा । अथ वर्म्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैराननैर्युक्तं स्वेतपीतारुणासितैः ।। २९५.
अभयं वरदं चापं वासुकिञ्च दधद्भुजैः । यस्योपरीतपार्श्वस्थगौरीरुद्रोऽस्य देवता ।। २९५.
. पादजानुगुहानाभिहृत्कण्ठाननमूर्द्धसु । मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ।। २९५.
तर्ज्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर्न्न्यसेत् । ध्यात्वैवं संहरेत् क्षिप्रं वद्धया शूलमुद्रया ।। २९५.
कनिष्ठा ज्येष्ठया वद्धा तिस्रोऽन्याः प्रसृतेर्ज्जवाः । विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं ।। २९५.
ओं नमो भगवते नीलकण्ठाय चिः अमलकण्ठाय चिः । सर्वज्ञकण्ठाय चिः क्षिप ओं स्वाहा । अमलनीलकण्ठाय नैकसर्वविषापहाय । नमस्ते रुद्रमंन्यव इति सम्मार्ज्जनाद्विपं विनश्यति- न सन्देहः कर्णजाप्या उपानहावा । यजेद्रुद्रविधाने नीलग्रीवं महेश्वरम् । विषव्याधिविनाशः स्यात् कृत्वा रुद्रविधानकं ।। २९५.
अग्निरुवाच वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्व्वदं परं । हृदयं [https://sa.wikisource.org/s/1zc6 शिवसङ्कल्पः] शिवः सूक्तन्तु पौरुषम् ।। २९६.
शिखाद्भ्यः सम्भृतं सूक्तमाशुः कवचमेव च । शतरुद्रीयमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि ।। २९६.
पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्ततः क्रमात् । यज्जाग्रत इति सूक्तं षडृचं मानसं विदुः ।। २९६.
ऋषिः स्याच्छिवसङ्कल्पश्छन्दस्त्रिष्टुबुदाहृतं । शिवः सहस्रशीर्षेति तस्य नारायणोऽप्यृषिः।। २९६.
देवता पुरुषोऽनुष्टुप्छन्दो ज्ञेयञ्च त्रैष्टुभम् । अद्भ्यः सम्भृतं सूक्तमृषिरुत्तरगोनरः ।। २९६.
आद्यानान्तिसृणां त्रिष्टुप्छन्दोऽनुष्टुब्द्वयोरपि । छन्दस्त्रैष्टुभमन्त्यायाः पुरुषोऽस्यापि देवता ।। २९६.
आशुरिन्द्रो द्वादशानां छन्दस्त्रिष्टुबुदाहृतं । ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्च्चके ।। २९६.
पृथक्पृथक् देवताः स्युः पुरुविदङ्गदेवता । अवशिष्टदैवतेषु छन्दोऽनुष्टुबुदाहृतं ।। २९६.
असौ यस्ताम्रो भवतीन्द्रः पुरुलिङ्गोक्तदेवताः । पङ्क्तिच्छन्दोऽथ मर्म्माणि त्वपो लिङ्गोक्तदेवताः ।। २९६.
रौद्राध्याये च सर्व्वस्मिन्नृषिः स्यात् परमेष्ठ्यपि । प्रजापतिर्व्वा देवानां कुत्सस्य तिसृणां पुनः ।। २९६.
मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश्च देवताः । आद्योनुवाकोऽथ पूर्व्व एकरुद्राख्यदैवतः ।। २९६.
छन्दो गायत्रमाद्याया अनुष्टुप् तिसृणामृचाम् । तिसृणाञ्च तथा पङ्क्तिरनुष्टुबथ संस्मृतम् ।। २९६.
द्वयोश्च जगतीछन्दो रुद्राणामप्यशीतयः । हिरण्यबाहवस्तिस्रो नमो वः किरिकाय च ।। २९६.
पञ्चर्च्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाकके । विंशके रुद्रदेवास्ताः प्रथमा बृहती स्मृता ।। २९६.
ऋग्द्वितीया त्रिजगती तृतीया त्रिष्टुबेव च । अनुष्टुभो यजुस्तिस्र आर्योभिज्ञः सुसिद्धिभाक् ।। २९६.
त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्द्दनं । इँ श्रीँ ह्रीँ ह्रैँ हूँ त्रैलोक्यमोहनाय विष्णवे नमः ।। २९६.
ओं हं इँ उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं । नृसिंहं भीषणं भद्रं मृत्युमृत्युन्नमाम्यहं ।। २९६.
अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः । द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्द्दनौ ।। २९६.
कुब्जिका त्रिपुरा गौरी चन्द्रिका विषहारिणी । प्रसादमन्त्रो विषहृदायुरारोग्यवर्द्धनं ।। २९६.
सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ।। २९६.
अग्निरुवाच ओं नमो भगवते रुद्राय छिन्द विषं ज्वलितपरशुपाणये च । नमो भगवते पक्षिरुद्राय दष्टकं उत्थापय दष्टकं कम्पय जल्पय सर्प्पदष्टमुत्थापय लल बन्व मोचय वररुद्र गच्छ बध त्रुट वुक भीषय मुष्टिना संहर विषं ठ ठ । पक्षिररुद्रेण ह विषं नाशमायाति मन्त्रणात् ।। ओं नमो भगवते रुदज्र नाशय विषं स्थावरजङ्गमं कृत्रिमाकृत्रिमविषमुपविषं नाशय नानाविषं दष्टकविषं नाशय धम दम वम मेघान्धकारधाराकर्षर्निर्विषयीभव संहर गच्छ आवेशय विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं ओं क्षिप ओं क्षिप स्वाहा । ओं ह्राँ ह्रीँ खीँ सः ठन्द्रौँ ह्रीँ ठः । जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ।। २९७.
एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः । गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः ।। २९७.
ओं नमो भगवते रुद्राय प्रेताधिपतये गुत्त्व गर्ज्ज भ्रामय मुञ्च मुह्य कट आविश सुवर्णपतङ्ग रुद्रो ज्ञापयति ठ । पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः । दंशकाहिदंशे सद्यो दष्टः काष्ठशिलादिना ।। २९७.