ॐ ज्वल महामते हृदयाय गरुडविशलशिरसे गरुडशिखायै गरुड विषभञ्जन प्रभेदन प्रभेदन वित्रासय विमर्द्दय विमर्द्दय कवचाय अप्रतिहतशासनं वं हूं फट् अस्त्राय उग्ररूपधारक सर्वभयङ्कर भीषय सर्वं दह दह भस्मीकुरु कुरु स्वाहा नेत्राय । सप्तवर्गान्तयुग्माष्टदिग्दलस्वर केशरादिवर्णरुद्धं वह्निराभूतकर्णिकं मातृकाम्बुजं । कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् । अह्गुष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः ।। २९५.
पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं । वृत्तार्द्धमाप्यपद्मार्द्धं शुक्लं वरुणदैवतं ।। २९५.
त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं । वृत्तं विन्दुवृतं वायुदैवतं कृष्णमालिनम् ।। २९५.
अङ्गुष्ठाद्यङ्गुलीमध्ये पर्य्यस्तेषु स्ववेश्मसु । सुवर्णनागवाहेन वेष्टितेषु न्यसेत् क्रमात् ।। २९५.
वियतेश्चतुरो वर्णान् सुमण्डलसमत्विषः । अरूपे रवतन्मात्रे आकाशेशिवदेवते ।। २९५.
कनिष्ठामद्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् । नागानामादिवर्णांश्च स्वमण्डलगतान्न्यसेत् ।। २९५.
भूतादिवर्णान् विन्यसेदङ्गुष्ठाद्यन्तपर्वसु । तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्बुधः ।। २९५.
स्पर्शनादेव तार्क्षेण हस्ते हन्याद्विषद्वयं । मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान् ।। २९५.
श्रेष्ठद्वय्ह्गुलिभिर्द्देहनाभिस्थानेषु पर्वसु । आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् ।। २९५.
कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरं । ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम् ।। २९५.
नीलोग्रनाशमात्मानं महापक्षं स्मरेद्बुधः । एवन्तार्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे ।। २९५.
मुष्टिस्तार्क्षकरस्यान्तः स्थिताङ्गुष्ठविषापहा । तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् ।। २९५.
कुर्य्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया । आकाशादेष भूवीजः पञ्चर्णाधिपतिर्म्मनुः ।। २९५.
संस्तम्भयेतिविषतो भाषया स्तम्भयेद्विषम् । व्यत्यस्तभूषया वीजो मन्त्रोऽयं साधुसाधितः ।। २९५.
संप्लवः प्लावय यमः शब्दाद्यः संहरेद्विषं । दण्डमुत्थापयेदेष सुजप्ताम्भोऽभिषेकतः ।। २९५.
सुजप्तशङ्खभेर्य्यादिनिस्वनश्रवणेन वा । संदहत्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ।। २९५.
. भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ । अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः ।। २९५.
एतत् कर्म्म नयेन्मन्त्री गरुड़ाकृतिविग्रहः । तार्क्षवरुणगेहस्थस्तज्जपान्नाशयेद्विषम् ।। २९५.
जानुदण्डीदमुदितं स्वधाश्रीवीजल्छितं । स्नानपानात्सर्व्वविषं ज्वरारोगापमृत्युजित् ।। २९५.
पक्षि पक्षि महापक्षि महापक्षि विधि स्वाहा । पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा ।। २९५.
द्वावेतौ पक्षिराड्मन्त्रौ विषघ्नावभिमन्त्रणात् । पक्षिराजाय विद्महे पक्षिऽदेवाय धीमहि तन्नो गरुडः प्रचोदयात् । वह्निस्थौ पार्श्वतत्पूर्वौ दन्तश्रीकौ च दण्डिनौ ।। २९५.
हर हर हृदयाय नमः कपर्द्दिने च शिरसे नीलकण्ठाय वै शिखांकालकूटविषभक्षणाय स्वाहा । अथ वर्म्म च कण्ठे नेत्रं कृत्तिवासास्त्रिनेत्रं पूर्वाद्यैराननैर्युक्तं स्वेतपीतारुणासितैः ।। २९५.
अभयं वरदं चापं वासुकिञ्च दधद्भुजैः । यस्योपरीतपार्श्वस्थगौरीरुद्रोऽस्य देवता ।। २९५.
. पादजानुगुहानाभिहृत्कण्ठाननमूर्द्धसु । मन्त्रार्णान्न्यस्य करयोरङ्गुष्ठाद्यङ्गुलीषु च ।। २९५.
तर्ज्जन्यादितदन्तासु सर्वमङ्गुष्ठयोर्न्न्यसेत् । ध्यात्वैवं संहरेत् क्षिप्रं वद्धया शूलमुद्रया ।। २९५.
कनिष्ठा ज्येष्ठया वद्धा तिस्रोऽन्याः प्रसृतेर्ज्जवाः । विषनाशे वामहस्तमन्यस्मिन् दक्षिणं करं ।। २९५.
ओं नमो भगवते नीलकण्ठाय चिः अमलकण्ठाय चिः । सर्वज्ञकण्ठाय चिः क्षिप ओं स्वाहा । अमलनीलकण्ठाय नैकसर्वविषापहाय । नमस्ते रुद्रमंन्यव इति सम्मार्ज्जनाद्विपं विनश्यति- न सन्देहः कर्णजाप्या उपानहावा । यजेद्रुद्रविधाने नीलग्रीवं महेश्वरम् । विषव्याधिविनाशः स्यात् कृत्वा रुद्रविधानकं ।। २९५.
अग्निरुवाच वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्व्वदं परं । हृदयं [https://sa.wikisource.org/s/1zc6 शिवसङ्कल्पः] शिवः सूक्तन्तु पौरुषम् ।। २९६.
शिखाद्भ्यः सम्भृतं सूक्तमाशुः कवचमेव च । शतरुद्रीयमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि ।। २९६.
पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्ततः क्रमात् । यज्जाग्रत इति सूक्तं षडृचं मानसं विदुः ।। २९६.