दुष्टौ दूतस्य वाक्पादौ वातग्नी मध्यमो हरिः । प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ।। २९४.
प्रस्थाने मङ्गलं वाक्यं गर्ज्जितं मेघहस्तिनोः । प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ।। २९४.
शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये । अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ।। २९४.
वेश्या क्षुतो नृपः कन्या गौर्द्दन्ती मुरजध्वजौ । क्षीराज्यदधिङ्खाम्बु छत्रं भेरी फलं सुराः ।। २९४.
तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी । सकाष्ठः सानलः कारुर्म्मलिनाम्बरभावभृत् ।। २९४.
गलस्थटङ्को गोमायुगृध्रोलूककपर्द्दिकाः । तैलं कपालकार्पासा निषेधे भस्म नष्टये ।। २९४.
विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः । विषदंशो ललाटं यात्यतो नेत्रं ततो मुखम् । आस्याच्च वचनीनाड्यौ धातून् प्राप्नोति हि क्रमात् ।। २९४.
अग्निरुवाच मन्त्रध्यानौषधैर्दष्टतिकित्सां प्रवदामि ते । ॐ नमो भगवते नीलकण्ठायेति । जपनाद्विषहानिः स्यादौषधं जीवरक्षणं ।। २९५.
साकज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते । जङ्गमं सर्पमूषादि श्रृङ्ग्यादि स्थावरं विषं ।। २९५.
शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं शिवः । वियतेर्नाममन्त्रोऽयं तार्क्षः शब्दमयः स्मृतः ।। २९५.
ॐ ज्वल महामते हृदयाय गरुडविशलशिरसे गरुडशिखायै गरुड विषभञ्जन प्रभेदन प्रभेदन वित्रासय विमर्द्दय विमर्द्दय कवचाय अप्रतिहतशासनं वं हूं फट् अस्त्राय उग्ररूपधारक सर्वभयङ्कर भीषय सर्वं दह दह भस्मीकुरु कुरु स्वाहा नेत्राय । सप्तवर्गान्तयुग्माष्टदिग्दलस्वर केशरादिवर्णरुद्धं वह्निराभूतकर्णिकं मातृकाम्बुजं । कृत्वा हृदिस्थं तन्मन्त्री वामहस्ततले स्मरेत् । अह्गुष्ठादौ न्यसेद्वर्णान्वियतेर्भेदिताः कलाः ।। २९५.
पीतं वज्रचतुष्कोणं पार्थिवं शक्रदैवतं । वृत्तार्द्धमाप्यपद्मार्द्धं शुक्लं वरुणदैवतं ।। २९५.
त्र्यस्त्रं स्वस्तिकयुक्तञ्च तैजसं वह्निदैवतं । वृत्तं विन्दुवृतं वायुदैवतं कृष्णमालिनम् ।। २९५.
अङ्गुष्ठाद्यङ्गुलीमध्ये पर्य्यस्तेषु स्ववेश्मसु । सुवर्णनागवाहेन वेष्टितेषु न्यसेत् क्रमात् ।। २९५.
वियतेश्चतुरो वर्णान् सुमण्डलसमत्विषः । अरूपे रवतन्मात्रे आकाशेशिवदेवते ।। २९५.
कनिष्ठामद्यपर्वस्थे न्यसेत्तस्याद्यमक्षरम् । नागानामादिवर्णांश्च स्वमण्डलगतान्न्यसेत् ।। २९५.
भूतादिवर्णान् विन्यसेदङ्गुष्ठाद्यन्तपर्वसु । तन्मात्रादिगुणाभ्यर्णानङ्गुलीषु न्यसेद्बुधः ।। २९५.
स्पर्शनादेव तार्क्षेण हस्ते हन्याद्विषद्वयं । मण्डलादिषु तान् वर्णान् वियतेः कवयो जितान् ।। २९५.
श्रेष्ठद्वय्ह्गुलिभिर्द्देहनाभिस्थानेषु पर्वसु । आजानुतः सुवर्णाभमानाभेस्तुहिनप्रभम् ।। २९५.
कुङ्कुमारुणमाकण्ठादाकेशान्तात् सितेतरं । ब्रह्माण्डव्यापिनं तार्क्षञ्चन्द्राख्यं नागभूषणम् ।। २९५.
नीलोग्रनाशमात्मानं महापक्षं स्मरेद्बुधः । एवन्तार्क्षात्मनो वाक्यान्मन्त्रः स्यान्मन्त्रिणो विषे ।। २९५.
मुष्टिस्तार्क्षकरस्यान्तः स्थिताङ्गुष्ठविषापहा । तार्क्षं हस्तं समुद्यम्य तत्पञ्चाङ्गुलिचालनात् ।। २९५.
कुर्य्याद्विषस्य स्तम्भादींस्तदुक्तमदवीषया । आकाशादेष भूवीजः पञ्चर्णाधिपतिर्म्मनुः ।। २९५.
संस्तम्भयेतिविषतो भाषया स्तम्भयेद्विषम् । व्यत्यस्तभूषया वीजो मन्त्रोऽयं साधुसाधितः ।। २९५.
संप्लवः प्लावय यमः शब्दाद्यः संहरेद्विषं । दण्डमुत्थापयेदेष सुजप्ताम्भोऽभिषेकतः ।। २९५.
सुजप्तशङ्खभेर्य्यादिनिस्वनश्रवणेन वा । संदहत्येव संयुक्तो भूतेजोव्यत्ययात् स्थितः ।। २९५.
. भूवायुव्यत्ययान्मन्त्रो विषं संक्रामयत्यसौ । अन्तस्थो निजवेश्मस्थो वीजाग्नीन्दुजलात्मभिः ।। २९५.
एतत् कर्म्म नयेन्मन्त्री गरुड़ाकृतिविग्रहः । तार्क्षवरुणगेहस्थस्तज्जपान्नाशयेद्विषम् ।। २९५.
जानुदण्डीदमुदितं स्वधाश्रीवीजल्छितं । स्नानपानात्सर्व्वविषं ज्वरारोगापमृत्युजित् ।। २९५.
पक्षि पक्षि महापक्षि महापक्षि विधि स्वाहा । पक्षि पक्षि महापक्षि महापक्षि क्षि क्षि स्वाहा ।। २९५.