द्वयोर्व्वा नाड़िकामन्त्रमन्त्रकं कुलिकोदयः । दुष्टः स कालः सर्व्वत्र सर्पदंशे विशेषतः ।। २९४.
कृत्तिका भरणी स्वाती मूलं पूर्व्वत्रयाश्विनी । विशाखार्द्रा मघाश्लेषा श्रवणरोहिणो ।। २९४.
हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः । षष्ठी रिक्ता शिवा निन्द्या पञ्चमी च चतुर्द्दशी ।। २९४.
सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः । एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् ।। २९४.
अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् । त्रयो द्व्येकक्षता दंशा वेदना रुधिरोल्वणा ।। २९४.
नक्तन्त्वेकाङ्घ्रिकूर्म्माबा दंशाश्च यमचोदिताः । दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः ।। २९४.
सतोदो ग्रन्थितो दंशः सविषो न्यस्तनिर्व्विषः । देवालये शून्यगृहे वल्मीकोद्यानकोटरे ।। २९४.
रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे । द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्व्वताग्रतः ।। २९४.
विलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके । शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरणेषु च ।। २९४.
वटे च जीर्णप्राकारे खास्यहृत्कक्षजत्रुणि । तालौ शङ्खे गले मूद्र्ध्नि चिवुके नाभिपादयोः ।। २९४.
दंशोऽशुभः शुभो दूनः पुष्पहस्तः सुवाक् सुधीः । लिङ्गवर्णंसमानश्च शुक्लवस्त्रोऽमलः शुचिः ।। २९४.
अपद्वारगतः शस्त्री प्रमादी भूगतेक्ष्णः । विवर्णवासाः पाशादिहस्तो गदगदवर्णभाक् ।। २९४.
शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः । आर्द्रवासाः कृष्णारक्तपुष्पयुक्तशिरोरुहः ।। २९४.
कुचमर्दीं नखच्छेदी गुदस्पृक् पादलेखकः । केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः ।। २९४.
इड़ान्या वा वहेद्द्वेधा यदि दूतस्य चात्मनः । आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् ।। २९४.
दूतः स्पृशति यद्गात्रं तस्मिन् दंशमुदाहरेत् । दूताङ्घ्रिचलनं दुष्टमुत्थितिर्निश्चला शुभा ।। २९४.
जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र समागतः । जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ।। २९४.
द्तस्य वाक् प्रदुष्टा सा पूर्व्वामजार्द्धनिन्दिता । विभक्तैस्तस्य वाक्यान्तैर्विषैर्निर्व्विषकालता ।। २९४.
आद्यैः स्वरैश्च काद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा । स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका ।। २९४.
वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् । नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ।। २९४.
दुष्टौ दूतस्य वाक्पादौ वातग्नी मध्यमो हरिः । प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ।। २९४.
प्रस्थाने मङ्गलं वाक्यं गर्ज्जितं मेघहस्तिनोः । प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ।। २९४.
शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये । अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ।। २९४.
वेश्या क्षुतो नृपः कन्या गौर्द्दन्ती मुरजध्वजौ । क्षीराज्यदधिङ्खाम्बु छत्रं भेरी फलं सुराः ।। २९४.
तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी । सकाष्ठः सानलः कारुर्म्मलिनाम्बरभावभृत् ।। २९४.
गलस्थटङ्को गोमायुगृध्रोलूककपर्द्दिकाः । तैलं कपालकार्पासा निषेधे भस्म नष्टये ।। २९४.
विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः । विषदंशो ललाटं यात्यतो नेत्रं ततो मुखम् । आस्याच्च वचनीनाड्यौ धातून् प्राप्नोति हि क्रमात् ।। २९४.
अग्निरुवाच मन्त्रध्यानौषधैर्दष्टतिकित्सां प्रवदामि ते । ॐ नमो भगवते नीलकण्ठायेति । जपनाद्विषहानिः स्यादौषधं जीवरक्षणं ।। २९५.
साकज्यं सकृद्रसं पेयं द्विविधं विषमुच्यते । जङ्गमं सर्पमूषादि श्रृङ्ग्यादि स्थावरं विषं ।। २९५.
शान्तस्वरान्वितो ब्रह्मा लोहितं तारकं शिवः । वियतेर्नाममन्त्रोऽयं तार्क्षः शब्दमयः स्मृतः ।। २९५.