सर्वेषु कोष्ठरोगेषु तथा शाखागदेषु च । श्रृङ्गवेरञ्च भार्गीञ्च कासे श्वासे प्रदापयेत् ।। २९२.
दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता । तैलं वातहरं पित्ते मधुयष्टीविपाचितं ।। २९२.
कफे व्योषञ्च समधु सपुष्टकरजोऽस्रजे । तैलाज्यं हरितालञ्च भग्नक्षतिश्रृतन्ददेत् ।। २९२.
माषास्तिलाः सगोधूमाः पशुक्षीरं घृतं तथा । एषां पिण्डी सलवणा वत्सानां पुष्टिदा त्वियं ।। २९२.
बलप्रदा विषाणां स्याद् ग्रहनाशाय धूपकः । देवदारु वचा मांसी गुग्गुलुहिङ्गुसर्षपाः ।। २९२.
ग्रहादिगदनाशाय एष धुपो गवां हितः । घष्टा चैव गवां कार्या धूपेनानेन धूपिता ।। २९२.
अश्वगन्धातिलैः शुक्लं तेन गौः क्षीरिणी भवेत् । रसायनञ्च पिन्याकं मत्तो यो धार्य्यते गृहे ।। २९२.
गवां पुरीषे पञ्चम्यां नित्यं शान्त्यै श्रियं यजेत् । वासुदेवञ्च गन्धाद्यैरपरा शान्तिरुच्यते ।। २९२.
अश्वयुक्शुक्लपक्षस्य पञ्चदश्यां यजेद्धरिं । हरिरुद्रमजं सूर्य्यं श्रियमग्निं घृतेन च ।। २९२.
दधि सम्प्राश्य गाः पूज्य कार्य्यं वह्निप्रदक्षिणं । वृषाणां योजयेद् युद्धं गीतवाद्यरवैर्वहिः ।। २९२.
गवान्तु लवणन्देयं ब्राह्मणानाञ्च दक्षिणा । नैमित्तिके माकरादौ यजेद्विष्णुं सह श्रिया ।। २९२.
स्थणअडिलेव्जे मध्यगते कदिक्षु केशरगान् सुरान् । सुभद्राजो रविः पूज्यो बहुरूपो बलिर्वहिः ।। २९२.
खं विश्वरूपा सिद्धिस्च ऋद्धिः शान्तिश्च रोहिणी । दिग्धेनवो हि पूर्वाद्याः कृशरैश्चन्द्र ईश्वरः ।। २९२.
दिक्पालाः पद्मपत्रेषु कुम्भेष्वग्नौ च होमयेत् । क्षीरवृक्षस्य समिधः सर्षपाक्षततण्डुलान् ।। २९२.
शतं शतं सुवर्णञ्च कांस्यादिकं द्विजे ददेत् । गावः पूज्या विमोक्तव्याः शान्त्यै क्षीरादिसंयुताः ।। २९२.
शालिहोत्रः सुश्रुताय हयायुर्वेदमुक्तवान् । पालकाप्योऽङ्गराजाय गजायुर्वेदमब्रवीत् ।। २९२.
अग्निरुवाच नागादयोऽथ भावादिदशस्थानानि कर्म्म च । सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ।। २९४.
शेषवासुकितक्षाख्याः कर्कटोऽब्जो महाम्बुजः । शङ्खपालश्च कुलिक इत्याष्टौ नागवर्य्यकाः ।। २९४.
दशाष्टपञ्चत्रिगुणशतमूर्द्धान्वितौ क्रमात् । विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्त्तितौ ।। २९४.
तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः । फणिमण्डलिराजीलवातपित्तकफात्मकाः ।। २९४.
व्यन्तरा दोषमिश्रास्ते सर्पा दर्व्वीकराः समृताः । रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ।। २९४.
गोनसा मन्दगा दीर्घा मण्डलैर्विविधैस्चिताः । राजिलाश्चित्रिताः स्निग्धास्तिर्य्यगूद्र्ध्वञ्च वाजिभिः ।। २९४.
व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः । चतुर्विधास्ते षड्विंशभेदाः षोड़श गोनसाः ।। २९४.
त्रयोदश च राजीला व्यन्तरा एकविशतिः । येऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ।। २९४.
आषाढादित्रिमासैः स्याद् गर्भो माषटतुष्टये । अण्डकानां शते द्वे च तत्वारिंशत् प्रसूयते ।। २९४.
सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् । उन्मीलतेऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः ।। २९४.
द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्य्यदर्शनात् । द्वात्रिंशद्दिनविंशत्या चतुस्रस्तेषु दंष्ट्रिकाः ।। २९४.
कराली मकरी कालरात्री च यमदूतिका । एतास्तीः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ।। २९४.
षण्मासान्मुच्यते कृत्तिं जीवेत्षष्टिसमाद्वयं । नागाः सूर्य्यादिवारेशाः सप्त उक्ता दिवा निशि ।। २९४.
स्वेषां षट् प्रतिवारेषु कुलिकः सर्व्वसन्धिषु । शङ्खेन वा महाव्जेन सह तस्योदयोऽथवा ।। २९४.