मध्येषु डिण्डिमं प्रार्च्य गन्धमाल्यानुलेपनैः । हुत्वा देयस्तु कलशो रसपूर्णो द्विजाय च ।। २९१.
गजाध्यक्षं हस्तिपं च गणितज्ञञ्च पूजयेत् । गजाध्यक्षाय तन्दद्यात् डिण्डिमं सोपि वादयेत् ।। २९१.
शुभगम्भीरशब्दैः स्याज्जघनस्थोऽभिवादयेत् ।। २९१.
धन्वन्तरिरुवाच गोविप्रपालनं कार्य्यं राज्ञा गोशान्तिमावदे । गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः ।। २९२.
शकृन्मूत्रं परं तासामलक्षमीनाशनं परं । गवां कण्डूयनं वारि श्रृह्गस्याघौघमर्द्दनम् ।। २९२.
रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां । यद्गृहे दुःखिता गावः स याति नरकन्नरः ।। २९२.
परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् । गोदानात्कीर्त्तनाद्रक्षां कृत्वा चोद्धरते कुलम् ।। २९२.
गवां श्वासात् पवित्रा भूस्पर्शनात्किल्विषक्षयः । गोमृत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। २९२.
एकरात्रोपवासश्च श्वपाकमपि शोधयेत् । सर्व्वाशुभविनाशाय पुराचरितमीश्वरैः ।। २९२.
प्रत्येकञ्च त्र्यहाभ्यस्तं महासान्तपनं स्मृतं । सर्वकामप्रदञ्चैतत् सर्व्वाशुभवीमर्द्दनम् ।। २९२.
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिं । निर्म्मलाः सर्व्वकामाप्त्या स्युर्गगाः स्युर्न्नरोत्तमाः ।। २९२.
त्र्यहमुष्णं पिवेन्मूत्रं त्र्यहमुष्णं घृतं पिवेत् । त्र्यहमुष्णं पयः पीत्वाः वायुभक्षः परं त्र्यहम् ।। २९२.
तप्तकृच्छ्रव्रतं सर्व्वपापघ्नं ब्रह्मलोकदं । शीतैस्तु शीतकृच्छ्रं स्याद्ब्रह्मोक्तं ब्रह्मलोकदं ।। २९२.
गोमूत्रेणाचरेत्स्नानं वृत्तिं कुर्य्याच्च गोरसैः । गोभिर्व्रजेच्च भुक्तासु भुञ्जीताथ च गोव्रती ।। २९२.
मासेनैकेन निष्पापो गोलोकी स्वर्गगो भवेत् । विद्याञ्च गोमतीं जप्त्वा गोलोकं परमं व्रजेत् ।। २९२.
गौतैर्न्नृत्येरप्सरोभिविंमाने तत्र मोदते । गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ।। २९२.
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परं । अन्नमेव परं गावो देवानां हविरुत्तमम् ।। २९२.
पावनं सर्व्वभूतानां क्षरन्ति च वदन्ति च । हविषा मन्त्रपूतेन तर्पयन्त्वमरान्दिवि ।। २९२.
ऋषीणामग्निहोत्रेषु गावो होमेषु योजिताः । सर्व्वेषामेव भूतानां गावः शरणमुत्तमं ।। २९२.
गावः पचित्रं परमं गावो माङ्गल्यमुत्तमं । गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः ।। २९२.
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च । नमो ब्रह्मसुताभ्यश्च पवित्राब्यो नमो नमः ।। २९२.
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् । एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ।। २९२.
देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् । धार्य्यते वै सदा सस्मात् सर्व्वे पूज्यतमा मताः ।। २९२.
पिवन्ति यत्र तत्तीर्थं गह्गाद्या गाव एव हि । गवां माहात्म्यमुक्तं हि चिकित्साञ्च तथा श्रृणु ।। २९२.
श्रृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवं । श्रृङ्गवेरबलामांसकल्कसिद्धं समाक्षिकं ।। २९२.
कर्णशूलेषु सर्वेषु मञ्जिष्ठाहिङ्गुसैन्धवैः । सिद्धं तैलं प्रदातव्यं रसोनेनैथ वा पुनः ।। २९२.
विल्वमूलमपामार्गन्धातकी च सपाटला । कुटजन्दन्तमूलेषु लेपात्तच्छूलनाशनं ।। २९२.
दन्तशूलहरैर्द्रव्यैर्घृतं राम विपाचितं । मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवं ।। २९२.
श्रृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे । हृच्छूले वस्तिशुले च वातरोगे क्षये तथा ।। २९२.
त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते । अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत् ।। २९२.