ब्रह्माणं शङ्करं विष्णुं शक्रं वैश्रवणं यमं । चद्रार्कौ वरुणं वायुमग्निं पृथ्वीं तथा च खं ।। २९१.
शेषं शैलान् कुञ्जरांश्च ये तेऽष्टौ देवयोनयः । विरूपाक्षं महापद्मं भद्रं सुमनसन्तथा ।। २९१.
कुमुदैरावणः पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोञ्जनो नागा अष्टौ होमोऽथ दक्षिणाम् ।। २९१.
गजाः शान्त्युदकासिक्ता वृद्धौ नैमित्तिकं श्रृणु । गजानां मकरादौ च ऐशान्यां नगराद्बहिः ।। २९१.
स्थण्डिले कमले मध्ये विष्णुं लक्ष्मीञ्च केशरे । ब्रह्माणं भास्करं पृथ्वीं यजेत् स्कन्दं ह्यनन्तकं ।। २९१.
खं शिवं सोममिन्द्रादींस्तदस्त्राणि दले क्रमात् । वज्रं शक्तिञ्च दण्डञ्च तोमरं पाशकं गदां ।। २९१.
शूलं पद्मं बहिर्वृन्ते चक्रे सूर्य्यन्तथाश्विनौ । वसूनष्टौ तथा साध्यान् याम्येऽथ नैर्ऋते दले ।। २९१.
देवानाङ्गिरसश्चाश्विभृगवो मरुतोऽनिले । विश्वेदेवांस्तथा दक्षे रुद्रा रौद्रेऽथ मण्डले ।। २९१.
ततो वृत्तया रेखया तु देवान् वै बाह्यतो यजेत् । सूत्रकारानृषीन् वाणीं पूर्व्वादौ सरितो गिरीन् ।। २९१.
महाभूतानि कोणेषु ऐशान्यादिषु संयजेत् । पद्मं चक्रं गदां शंखं चतुरस्रन्तु मण्डलं ।। २९१.
चतुर्द्वारं ततः कुम्भाः अग्न्यादौ च पताकिकाः। चत्वारस्तोरणा द्वारि नागानैरावतादिकान् ।। २९१.
पूर्व्वादौ चौषधीभिश्च देवानां भाजनं पृथक् । पृथक्शताहुतीश्चाज्यैर्गजानर्च्य प्रदक्षिणं ।। २९१.
नागं वह्निं देवतादीन् बाह्यैर्जग्मुः स्वकं गृहम् । द्विजेभ्यो दक्षिणां दद्यात् हस्तिवैद्यादिकांस्तथा ।। २९१.
करिणीन्तु समारुह्य वदेत् कर्णन्तु कालवित् । नागाराजेऽमृते शान्तिं कृत्वाऽमुष्मिन् जपन्मनुम् ।। २९१.१५ श्रीगजस्त्वं कृतो राज्ञा भवानस्य गजाग्रणीः । प्रभुर्माल्याग्रभक्तैस्त्वां पूजयिष्यति पार्थिवः ।। २९१.
लोकस्तदाज्ञया पूजां करिष्यति तदा तव । पालनीयस्त्वया राजा युद्धेऽध्वनि तथा गृहे ।। २९१.
तिर्य्यग्भावं समुत्सृज्य दिव्यं भावमनुस्मर । देवासुरे पुरा युद्धे श्रीगजस्त्रिदशैः कृतः ।। २९१.
ऐरावणसुतः श्रीमानरिष्टो नाम वारणः । श्रीगजानान्तु तत् तेजः सर्व्वमेवोपतिष्ठते ।। २९१.
तत्तेजस्तव नागेन्द्र दिव्यभावसमन्वितं । उपतिष्ठतु भद्रन्ते रक्ष राजानमाहवे ।। २९१.
इत्येवमभिषिक्तैनमारोहेत शुभे नृपः । तस्यानुगमनं कुर्युः सशस्त्रनवसद्गजाः ।। २९१.
शालास्वसौ स्थण्डिलेऽब्जे दिकपालादीन् यजेद्वहिः । केशरेषु बलं नागं भुवञ्चैव सरस्वतीं ।। २९१.
मध्येषु डिण्डिमं प्रार्च्य गन्धमाल्यानुलेपनैः । हुत्वा देयस्तु कलशो रसपूर्णो द्विजाय च ।। २९१.
गजाध्यक्षं हस्तिपं च गणितज्ञञ्च पूजयेत् । गजाध्यक्षाय तन्दद्यात् डिण्डिमं सोपि वादयेत् ।। २९१.
शुभगम्भीरशब्दैः स्याज्जघनस्थोऽभिवादयेत् ।। २९१.
धन्वन्तरिरुवाच गोविप्रपालनं कार्य्यं राज्ञा गोशान्तिमावदे । गावः पवित्रा माङ्गल्या गोषु लोकाः प्रतिष्ठिताः ।। २९२.
शकृन्मूत्रं परं तासामलक्षमीनाशनं परं । गवां कण्डूयनं वारि श्रृह्गस्याघौघमर्द्दनम् ।। २९२.
रोचना विषरक्षोघ्नी ग्रासदः स्वर्गगो गवां । यद्गृहे दुःखिता गावः स याति नरकन्नरः ।। २९२.
परगोग्रासदः स्वर्गी गोहितो ब्रह्मलोकभाक् । गोदानात्कीर्त्तनाद्रक्षां कृत्वा चोद्धरते कुलम् ।। २९२.
गवां श्वासात् पवित्रा भूस्पर्शनात्किल्विषक्षयः । गोमृत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।। २९२.
एकरात्रोपवासश्च श्वपाकमपि शोधयेत् । सर्व्वाशुभविनाशाय पुराचरितमीश्वरैः ।। २९२.
प्रत्येकञ्च त्र्यहाभ्यस्तं महासान्तपनं स्मृतं । सर्वकामप्रदञ्चैतत् सर्व्वाशुभवीमर्द्दनम् ।। २९२.