रक्तपित्तहरः पानादश्वकर्णैस्तथैव च । सप्तमे सप्तमे देयमश्वानां लवणं दिने ।। २८९.
तथा भुक्तवतान्देया अतिपाने तु वारुणी । दीवनीयैः समधुरैर्मृद्वीकाशर्करायुतैः ।। २८९.
सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः । विड़ङ्गापिप्पलीधान्यशताह्वालोध्रसैनधवैः ।। २८९.
सचित्रकैस्तुरङ्गाणं प्रतिपानं हिमागमे । लोध्रपिरियङ्गुकामुस्तापिप्पलीविश्वभेषजै ।। २८९.
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् । प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः ।। २८९.
निदाघे सगुड़ा देया मदिरा प्रतिपानके । लोध्रकाष्ठं सलवणं पिप्पल्यो विश्वभेषजम् ।। २८९.
प्रावृड्भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् । पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ।। २८९.
प्रावृड्भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् । पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ।। २८९.
स्रेहव्यापद्भ्वो येषां कार्य्यं तेषां विरूक्षणम् । त्र्यहं यवागू रूक्षा स्याद् भोजनं तक्रसंयुतम् ।। २८९.
शरन्निदाघ्योः सर्पिस्तैलं शीतवसन्तयोः । वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते ।। २८९.
गुर्वभिष्यन्दिभक्तानि व्यायामं स्नानमातपम् । वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम् ।। २८९.
स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे । अत्यर्थं दुर्द्दिने काले पानमेकं प्रशस्यते ।। २८९.
युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् । ग्रीष्मे त्रिस्नानपानं स्याच्चिरं तस्यावगाहनम् ।। २८९.
निस्तुषाणां प्रदातव्या यवानां चतुराढकी । चणकव्रीहिमौद्गानि कलायं वापि दापयेत् ।। २८९.
अहोरात्रेण चार्द्धस्य यवसस्य तुला दश । अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ वुषस्य वा ।। २८९.
दूर्वा पित्तं यवः कासं वुषश्च श्लेष्मसञ्चयम् । नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम् ।। २८९.
वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः । न रोगाः पीडयिष्यन्ति दूर्वाहारन्तुरङ्गमम् ।। २८९.
द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि । पश्चाद्धनुस्च कर्त्तर्व्यो दूरकीलव्यपाश्रयः ।। २८९.
वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः । यत्नोपन्यस्तयवसाः सप्रदीपाः सुरक्षिता ।। २८९.
कृकवाक्कजकपयो धार्य्याश्चाश्वगृहे मृगाः ।। २८९.
शालिहोत्र उवाच अश्वशान्तिं प्रवक्ष्यामि वाजिरोगविमर्द्दनीं । नित्यां नैमित्तिकीं काम्यां त्रिविधां श्रृणु सुश्रुत ।। २९०.
शुभे दिने श्रीधरञ्च श्रियमुच्चैःश्रवाश्च तं । हयराजं समभ्यर्च्य सावित्रैर्जुहुयाद्घृतं ।। २९०.
द्विजेभ्यो दक्षिणान्दद्यादश्ववृद्धिस्तथा भवेत् । अश्वयुक् शुक्लपक्षस्य पञ्चदश्याञ्च शान्तिकं ।। २९०.
बहिः कुर्य्याद्विशेषेण नासत्यौ वरुणं यजेत् । समुल्लिख्य ततो देवीं शाखाभिः परिवारयेत् ।। २९०.
घटान्सर्व्वरसैः पूर्णान् दिक्षु दद्यात्सवस्त्रकान् । यवाज्यं जुहुयात् प्रार्च्य यजेदश्वांश्च साश्विनान् ।। २९०.
विप्रेभ्यो दक्षिणान्दद्यान्नैमित्तिकमतः श्रृणु । मकरादौ हयानाञ्च पद्मैर्विष्णुं श्रियं यजेत् ।। २९०.
ब्रह्माणं शङ्करं सोममादित्यञ्च तथाश्विनौ । रेवन्तमुच्चैःश्रवसन्दिक्पालांश्च दलेष्वपि ।। २९०.
प्रत्येकं पूर्णंकुम्भैश्च वेद्यान्तत्सौम्यतः स्थले । तिलाक्षताज्यसिद्धार्थान् देवतानां शतं शतं ।। २९०.
उपोषितेन कर्त्तव्यं कर्म्म चाश्वरुजापहं ।। २९०.
शालिहोत्र उवाच गजशान्तिं प्रवक्ष्यामि गजरोगविमर्द्दनीम् । विष्णुं श्रियञ्च पञ्चम्यां नागमैरावतं यजेत् ।। २९१.