क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी । अभिघातेन खञ्जन्ति ये ह्यश्वास्तीव्रवेदनाः ।। २८९.
परिषेकक्रिया तेषां तैलेनाशु रुजापहा । दोषकोपाभिघाताभ्यां पक्कभिन्ने ब्रणक्रमः ।। २८९.
अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ।। २८९.
प्रभूतसलिलः क्काथः सुखोष्णो व्रणशोधनः । शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ।। २८९.
देवदारुवचायुग्मरजनीरक्तवन्दनैः । तैलसिद्धं कषायेण गुडूच्याः पयसा सह ।। २८९.
म्रक्षणे वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने । रक्तस्रावो जलौकाभिर्न्नेत्रान्ते नेत्ररोगिणः ।। २८९.
खादिरोडुम्बराश्वत्थकषायेण च साधनम् । थात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः ।। २८९.
गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने । उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च ।। २८९.
क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते । गोशकृन्मञ्जिकाकुष्ठरजनीतिलसर्षपैः ।। २८९.
गवां मूत्रेण पिष्टैश्च मर्द्दनं कण्डुनाशनम् । शीतो मधुयुतः क्काथो नाशिकायां सशर्करः ।। २८९.
रक्तपित्तहरः पानादश्वकर्णैस्तथैव च । सप्तमे सप्तमे देयमश्वानां लवणं दिने ।। २८९.
तथा भुक्तवतान्देया अतिपाने तु वारुणी । दीवनीयैः समधुरैर्मृद्वीकाशर्करायुतैः ।। २८९.
सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः । विड़ङ्गापिप्पलीधान्यशताह्वालोध्रसैनधवैः ।। २८९.
सचित्रकैस्तुरङ्गाणं प्रतिपानं हिमागमे । लोध्रपिरियङ्गुकामुस्तापिप्पलीविश्वभेषजै ।। २८९.
सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् । प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः ।। २८९.
निदाघे सगुड़ा देया मदिरा प्रतिपानके । लोध्रकाष्ठं सलवणं पिप्पल्यो विश्वभेषजम् ।। २८९.
प्रावृड्भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् । पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ।। २८९.
प्रावृड्भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् । पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ।। २८९.
स्रेहव्यापद्भ्वो येषां कार्य्यं तेषां विरूक्षणम् । त्र्यहं यवागू रूक्षा स्याद् भोजनं तक्रसंयुतम् ।। २८९.
शरन्निदाघ्योः सर्पिस्तैलं शीतवसन्तयोः । वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते ।। २८९.
गुर्वभिष्यन्दिभक्तानि व्यायामं स्नानमातपम् । वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम् ।। २८९.
स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे । अत्यर्थं दुर्द्दिने काले पानमेकं प्रशस्यते ।। २८९.
युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् । ग्रीष्मे त्रिस्नानपानं स्याच्चिरं तस्यावगाहनम् ।। २८९.
निस्तुषाणां प्रदातव्या यवानां चतुराढकी । चणकव्रीहिमौद्गानि कलायं वापि दापयेत् ।। २८९.
अहोरात्रेण चार्द्धस्य यवसस्य तुला दश । अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ वुषस्य वा ।। २८९.
दूर्वा पित्तं यवः कासं वुषश्च श्लेष्मसञ्चयम् । नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम् ।। २८९.
वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः । न रोगाः पीडयिष्यन्ति दूर्वाहारन्तुरङ्गमम् ।। २८९.
द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि । पश्चाद्धनुस्च कर्त्तर्व्यो दूरकीलव्यपाश्रयः ।। २८९.
वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः । यत्नोपन्यस्तयवसाः सप्रदीपाः सुरक्षिता ।। २८९.
कृकवाक्कजकपयो धार्य्याश्चाश्वगृहे मृगाः ।। २८९.