सृक्कण्याञ्च ललाटे च कर्णमूले निगालके । बाहुमूले गले श्रेष्ठा आवर्त्तास्त्वशुभाः परे ।। २८९.
शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः । सुवर्णवर्णाः स्निग्धाश्च प्रशस्यास्तु सदैव हि ।। २८९.
दीर्घग्रीवाक्षिकूटाश्च ह्रस्वकर्णाश्च शोभनाः । राज्ञान्तुरङ्गमा यत्र विजयं वर्जयेत्ततः ।। २८९.
पालितस्तु हयो दन्तो शुभदो दुःखदोऽन्यथा । क्षियः पुत्रास्तु गन्धर्व्वा वाजिनो रत्नमुत्तमम् ।। २८९.
अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते । वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका ।। २८९.
सिंहा गन्धकरी पिण्डी स्वेदश्च शिरसस्तथा । हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं ।। २८९.
पिप्पलीसैन्धवयुतं शूलघ्नं चोष्णवारिणा । नागरातिविषा मुस्ता सानन्ता विल्वमालिका ।। २८९.
क्काथमेषां पिवेद्वाजी सर्व्वातीसारनाशनम् । प्रियङ्गुसारिवाभ्याञ्च युक्तमाजं श्रृतं पयः ।। २८९.
पर्य्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते । द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे ।। २८९.
कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् । दाड़िमं त्रिफला व्योषं गुड़ञ्च समभाविकम् ।। २८९.
पिण्डमेतत् प्रदातव्यमश्वानां काशनाशनम् । प्रियङ्गुलोध्रमधुभिः पिवेद्वृषरसं हयः ।। २८९.
क्षीरं वा पञ्चकोलाद्यं काशनाद्धि प्रमुच्यते । प्रस्कन्धेषु च सर्व्वेषु श्रेय आदौ विशोधनम् ।। २८९.
अभ्यङ्गोद्वर्त्तनैः स्नेहं नस्यवर्त्तिक्रमः स्मृतः । ज्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः ।। २८९.
लोध्रकन्धरयोर्मूलं मातुलाङ्गाग्निनागराः । कुष्ठहिङ्गुवचारास्नालेपोयं शोथनाशनः ।। २८९.
मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम् । त्रपुषीवीजमूलानि श्रृङ्गाटककशेरुकम् ।। २८९.
अजापयः श्रृतमिदं सुशीतं शर्करान्वितं । पीत्वा नीरशनो वाजी रक्तमेहात् प्रमुच्यते ।। २८९.
मन्याहनुनिगालस्थशिराशोथो गलग्रहः । अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ।। २८९.
गलग्रहगदी शोथः प्रायशो गलदेशके । प्रत्यक्पुष्पी तथा वह्निः सैन्धवं सौरसो रसः ।। २८९.
कृष्णाहिङ्गुयुतैरेभिः कृत्वा नस्यं न सीदति । निशे ज्योतिष्मती पाठा कृष्णा कुष्ठं वचा मधु ।। २८९.
जिह्वास्तम्भे च लोपोऽयं गुड़मूत्रयुतो हितः । तिलैर्यष्ट्या रजन्या च निम्बपत्रैश्च योजिता ।। २८९.
क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी । अभिघातेन खञ्जन्ति ये ह्यश्वास्तीव्रवेदनाः ।। २८९.
परिषेकक्रिया तेषां तैलेनाशु रुजापहा । दोषकोपाभिघाताभ्यां पक्कभिन्ने ब्रणक्रमः ।। २८९.
अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ।। २८९.
प्रभूतसलिलः क्काथः सुखोष्णो व्रणशोधनः । शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ।। २८९.
देवदारुवचायुग्मरजनीरक्तवन्दनैः । तैलसिद्धं कषायेण गुडूच्याः पयसा सह ।। २८९.
म्रक्षणे वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने । रक्तस्रावो जलौकाभिर्न्नेत्रान्ते नेत्ररोगिणः ।। २८९.
खादिरोडुम्बराश्वत्थकषायेण च साधनम् । थात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः ।। २८९.
गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने । उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च ।। २८९.
क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते । गोशकृन्मञ्जिकाकुष्ठरजनीतिलसर्षपैः ।। २८९.
गवां मूत्रेण पिष्टैश्च मर्द्दनं कण्डुनाशनम् । शीतो मधुयुतः क्काथो नाशिकायां सशर्करः ।। २८९.