न त्यजेत् पश्चिमं पादं यदा साधुर्भवेत्तदा । तदाकृष्टिर्व्विधातव्या पाणिभ्यामिह वल्गया ।। २८८.
तत्र त्रिको यथा तिष्ठेदुद्ग्रीवोश्वः समाननः । धरायां पश्चिमौ पादौ अन्तरीशे यदाश्रयौ ।। २८८.
तदा सन्धारणं कुर्य्याद्गाठवाहञ्च मुष्टिना । सहसैवं समाकृष्टो यस्तुरङ्गो न तिष्ठति ।। २८८.
शरीरं विक्षिपन्तञ्च साधयेन्मण्डलभ्रमैः । क्षिपेत् स्कन्धञ्च यो वाहं स च स्थाप्यो हि वल्गया ।। २८८.
गोमयं लवणं मूत्रं क्कथितं मृत्समन्वितम् । अङ्गलेपो मक्षिकादिदंशश्रमविनाशनः ।। २८८.
मध्ये भद्रादिजातीनां मण्डो देयो हि सादिना । दर्शनं भोततीक्षस्य निरुत्साहः क्षुधा हयः ।। २८८.
यथा वश्यस्तथा शिक्षा विनश्यन्त्यतिवाहिताः । अवाहिता न सिध्यन्ति तुङ्गवक्त्रांश्च वाहयेत् ।। २८८.
सम्पीड्य जानुयुग्मेन स्थिरमुष्टिस्तुरङ्गमं । गोमूत्राकुटिला वेणई पद्ममण्डलमालिका ।। २८८.
संक्षिप्तञ्चैव विक्षिप्तं कुञ्चितञ्च यथाचितम् ।। २८८.
वल्गितावल्गितौ चैव षोढा चेत्थमुदाहृतम् । विथीधनुःशतं यावदशीतिर्न्नवतिस्तथा ।। २८८.
भद्रः सुसाध्यो वाजी स्यान्मन्दो दण्डैकमानसः । मृगजङ्घो मृगो वाजी सङ्कीर्णस्तत्समन्वयात् ।। २८८.
शर्क्करामधुलाजादः सुगन्धोऽस्व शुचिर्द्विजः । तेजस्वी क्षत्रियश्चाश्वो विनीतो बुद्धिमांश्च यः ।। २८८.
शूद्रोऽशुचिश्चलो मन्दो विरूपो विमतिः खलः । वल्गया धार्य्यमाणोऽश्वो लालकं यश्च दर्शयेत् ।। २८८.
धारासु योजनीयोऽसौ प्रग्रहग्रहमोक्षणैः । अश्वादिलक्षणं वक्ष्ये शालिहोत्रो यथावदत् ।। २८८.
शालिहोत्र उवाच अश्वानां लक्षणं वक्ष्ये चिकित्साञ्चैव सुश्रुत् । हीनदन्तो विदन्तश्च कराली कृष्णतालुकः ।। २८९.
कृष्णजिह्वश्च यमजो जातमुष्कश्च यस्तथा । द्विशफश्च तथा श्रृङ्गी त्रिवर्णो व्याघ्रवर्णकः ।। २८९.
शरवर्णो भस्मवर्णो जातवर्णश्च काकुदी । श्वित्री च काकसादी च खरसारस्तथैव च ।। २८९.
वानराक्षः कृष्णशटः कृष्णगुह्यस्तथैव च । कृष्णप्रोथश्च यश्च तित्तिरिसन्निभः ।। २८९.
विषमः श्वेतपादश्च ध्रुवावर्त्तविवर्जितः । अशुभावर्त्तसंयुक्तो वर्जनीयस्तुरङ्गमः ।। २८९.
रन्ध्रोपरन्ध्रयोर्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः । प्रयाणो च ललाटे च कण्ठावर्त्ताः शुभा दश ।। २८९.
सृक्कण्याञ्च ललाटे च कर्णमूले निगालके । बाहुमूले गले श्रेष्ठा आवर्त्तास्त्वशुभाः परे ।। २८९.
शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः । सुवर्णवर्णाः स्निग्धाश्च प्रशस्यास्तु सदैव हि ।। २८९.
दीर्घग्रीवाक्षिकूटाश्च ह्रस्वकर्णाश्च शोभनाः । राज्ञान्तुरङ्गमा यत्र विजयं वर्जयेत्ततः ।। २८९.
पालितस्तु हयो दन्तो शुभदो दुःखदोऽन्यथा । क्षियः पुत्रास्तु गन्धर्व्वा वाजिनो रत्नमुत्तमम् ।। २८९.
अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते । वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका ।। २८९.
सिंहा गन्धकरी पिण्डी स्वेदश्च शिरसस्तथा । हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं ।। २८९.
पिप्पलीसैन्धवयुतं शूलघ्नं चोष्णवारिणा । नागरातिविषा मुस्ता सानन्ता विल्वमालिका ।। २८९.
क्काथमेषां पिवेद्वाजी सर्व्वातीसारनाशनम् । प्रियङ्गुसारिवाभ्याञ्च युक्तमाजं श्रृतं पयः ।। २८९.
पर्य्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते । द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे ।। २८९.
कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् । दाड़िमं त्रिफला व्योषं गुड़ञ्च समभाविकम् ।। २८९.