गुणानेको विजानाति वेत्ति दोषांस्तथाऽपरः । धन्यो धीमान् हयं वेत्ति नोभयं वेत्ति मन्दधीः ।। २८८.
अकर्म्मज्ञोऽनुपायज्ञो वेगासक्तोऽतिकोपनः । घनदण्डरतिच्छिद्रे यः समोपि न व्शस्यते ।। २८८.
उपायज्ञोऽथ चित्तज्ञो विशुद्धो दोपनाशनः । गुणार्ज्जनपरो नित्यं सर्व्वकर्म्मविशारदः ।। २८८.
प्रग्रहेण गृहीत्वाऽथ चित्तज्ञो विशुद्धो दोषनाशनः । गुणार्ज्जनपरो नित्यं सर्व्वकर्म्मविशारदः ।। २८८.
आरुह्य सहसा नैव ताड़नीयो हयोत्तमः । ताड़नाद् भयमाप्नोति भयान्मोहश्च जायते ।। २८८.
प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् । मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे ।। २८८.
प्रोक्तमाश्वसनं सामभेदोऽश्वेन नियोज्यते । कषादिताड़नं दण्डो दानं कालसहिष्णुता ।। २८८.
पूर्व्वपूर्व्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् । जिह्वातले विनायोगं विदध्याद्वाहने हये ।। २८८.
गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् । विस्मार्य्य वाहनं कुर्य्याच्छिथिलानां शनैः शनैः ।। २८८.
हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् । गाटतां मोचयेत्तावद्यावत् स्तोभं न मुञ्चति ।। २८८.
कुर्य्याच्छ्रतमुरस्त्राणमविलालञ्च मुञ्चति । ऊद्र्ध्वाननः स्वभावाद्यस्तस्योरस्त्राणमश्लथम् ।। २८८.
विधाय वाहयेद्दुष्ट्या लीलया सादिसत्तमः । तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया ।। २८८.
यः कुर्य्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः । क्रमेणानेन यो सेवां कुरुते वामवल्गया ।। २८८.
पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि । अग्ने चेच्चरणे त्यक्ते जायते सुदृढासनं ।। २८८.
यौ हृतौ दुष्करे चैव मोटके नाटकायनं । सव्यहीनं खलीकारो हनने गुणने तथा ।। २८८.
स्वबावं हि तुरङ्गस्य मुखव्यावर्त्तनं पुनः । न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः ।। २८८.
विश्वस्तं हयमालोक्य गाढ़मापीड्य चासनं । रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं ।। २८८.
गाढ़मापीड्य रागाभ्यां वल्गामाकृष्य गृह्यते । तद्वन्धनाद् युग्मपादं तद्वद्वक्कनमुच्यते ।। २८८.
संयोज्य वल्गया पादान् वल्गामामोच्य वाञ्छितम् । वाह्यपार्ष्णिप्रयोगात्तु यत्र तत्ताड़नं मतम् ।। २८८.
प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् । मोटनेन चतुर्थेन विधिरेष विधीयते ।। २८८.
नाधत्तेऽधश्च यः पादं योऽस्वो लघुनि मण्डले । मोटनोद्वक्कनाभ्यान्तु ग्राहयेत् पादमीशितं ।। २८८.
वटयित्वासने गाटं मन्दमादाय यो ब्रजेत् । ग्राह्यते संग्रहाद्यत्र तत्संग्रहणमुच्यते ।। २८८.
हत्वा पार्श्वे प्रहारेण स्थानस्थो व्यग्रमानसम् । वल्गामाकृष्य पादेन ग्राह्यकण्टकपायनम् ।। २८८.
उत्थितो योऽङिग्नणानेन पार्ष्णिपादात्तुरह्गमः । गृह्यते यत् खलीकृत्य खलीकारः स चेष्यते ।। २८८.
गतित्रयेपि यः पादमादत्ते नैव वाञ्छितः । हत्वा तु यत्र दण्डेन ग्राह्यते गहनं हि तत् ।। २८८.
खलीकृत्य चुष्केण तुरङ्गो वल्गयान्यया । उच्छ्वास्य ग्राह्यतेऽन्यत्र तत्स्यादुच्छ्वासनं पुनः ।। २८८.
स्वभावं वहिरस्यन्तं तस्यां दिशि पदायनं । नियोज्य ग्राहयेत्तत्तु मुखव्यावर्त्तनं मतम् ।। २८८.
ग्राहयित्वा ततः पादं त्रिविधासु यथाक्रमम् । साधयेत् पञ्चधारासु क्रमशो मण्डलादिषु ।। २८८.
आजनोर्द्धाननं वाहं शिथिलं वाहयेत् सुधीः । अङ्गेषु लाघवं यावत्तावत्तं वाहयेद्धयं ।। २८८.
मृदुः स्कन्धे लघुर्वक्त्रे शिथिलः सर्वसन्धिषु । यदा स सादिनो वश्यः सङ्गृह्णीयात्तदा हयं ।। २८८.