हय गन्धर्वराजस्त्वं श्रृणुष्व वचनं मम । गन्धर्वकुलकजातस्त्वं माभूस्त्वं कुलदूषकः ।। २८८.
द्विजानां सत्यवाक्येन सोमस्य गरुडस्य च । रुद्रस्य वरुणस्यैव पवनस्य बलेन च ।। २८८.
हुताशनस्य दीप्त्या च स्मर जाति तुरङ्गम । स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर ।। २८८.
समर त्वं वारुणीं कन्यां स्मर त्वं कौस्तुभं मणिं । क्षीरोदसागरे चैव मथ्यमाने सुरासुरैः ।। २८८.
तत्र देवकुले जातः स्ववाक्यं परिपालय । कुले जातस्त्वमश्वानां मित्रं मे भव शाश्वतम् ।। २८८.
श्रृणु मित्र त्वमेतच्च सिद्धो मे भव वाहन । विजयं रक्ष माञ्चैव समरे सिद्धिमावह ।। २८८.
तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा । अधुना त्वां समारुह्य जेष्यामि रिपुवाहिनीं ।। २८८.
पर्य्यानयेद्धयं सादी वाहयेद् युद्धतो जयः ।। २८८.
सञ्जाताः स्वशरीरेण दोषाः प्रायेण वाजिनां । हन्यन्तेऽतिप्रयत्नेन गुणाः सादिवरैः पुनः।। २८८.
सहजा इव दृश्यन्ते गुणाः सादिवरोद्भवाः । नाशयन्ति गुणानन्ये सादिनः सहजानपि ।। २८८.
गुणानेको विजानाति वेत्ति दोषांस्तथाऽपरः । धन्यो धीमान् हयं वेत्ति नोभयं वेत्ति मन्दधीः ।। २८८.
अकर्म्मज्ञोऽनुपायज्ञो वेगासक्तोऽतिकोपनः । घनदण्डरतिच्छिद्रे यः समोपि न व्शस्यते ।। २८८.
उपायज्ञोऽथ चित्तज्ञो विशुद्धो दोपनाशनः । गुणार्ज्जनपरो नित्यं सर्व्वकर्म्मविशारदः ।। २८८.
प्रग्रहेण गृहीत्वाऽथ चित्तज्ञो विशुद्धो दोषनाशनः । गुणार्ज्जनपरो नित्यं सर्व्वकर्म्मविशारदः ।। २८८.
आरुह्य सहसा नैव ताड़नीयो हयोत्तमः । ताड़नाद् भयमाप्नोति भयान्मोहश्च जायते ।। २८८.
प्रातः सादी प्लुतेनैव वल्गामुद्धृत्य चालयेत् । मन्दं मन्दं विना नालं धृतवल्गो दिनान्तरे ।। २८८.
प्रोक्तमाश्वसनं सामभेदोऽश्वेन नियोज्यते । कषादिताड़नं दण्डो दानं कालसहिष्णुता ।। २८८.
पूर्व्वपूर्व्वविशुद्धौ तु विदध्यादुत्तरोत्तरम् । जिह्वातले विनायोगं विदध्याद्वाहने हये ।। २८८.
गुणेतरशतां वल्गां सृक्कण्या सह गाहयेत् । विस्मार्य्य वाहनं कुर्य्याच्छिथिलानां शनैः शनैः ।। २८८.
हयं जिह्वाङ्गमाहीने जिह्वाग्रन्थिं विमोचयेत् । गाटतां मोचयेत्तावद्यावत् स्तोभं न मुञ्चति ।। २८८.
कुर्य्याच्छ्रतमुरस्त्राणमविलालञ्च मुञ्चति । ऊद्र्ध्वाननः स्वभावाद्यस्तस्योरस्त्राणमश्लथम् ।। २८८.
विधाय वाहयेद्दुष्ट्या लीलया सादिसत्तमः । तस्य सव्येन पूर्वेण संयुक्तं सव्यवल्गया ।। २८८.
यः कुर्य्यात्पश्चिमं पादं गृहीतस्तेन दक्षिणः । क्रमेणानेन यो सेवां कुरुते वामवल्गया ।। २८८.
पादौ तेनापि पादः स्याद्गृहीतो वाम एव हि । अग्ने चेच्चरणे त्यक्ते जायते सुदृढासनं ।। २८८.
यौ हृतौ दुष्करे चैव मोटके नाटकायनं । सव्यहीनं खलीकारो हनने गुणने तथा ।। २८८.
स्वबावं हि तुरङ्गस्य मुखव्यावर्त्तनं पुनः । न चैवेत्थं तुरङ्गाणां पादग्रहणहेतवः ।। २८८.
विश्वस्तं हयमालोक्य गाढ़मापीड्य चासनं । रोकयित्वा मुखे पादं ग्राह्यतो लोकनं हितं ।। २८८.
गाढ़मापीड्य रागाभ्यां वल्गामाकृष्य गृह्यते । तद्वन्धनाद् युग्मपादं तद्वद्वक्कनमुच्यते ।। २८८.
संयोज्य वल्गया पादान् वल्गामामोच्य वाञ्छितम् । वाह्यपार्ष्णिप्रयोगात्तु यत्र तत्ताड़नं मतम् ।। २८८.
प्रलयाविप्लवे ज्ञात्वा क्रमेणानेन बुद्धिमान् । मोटनेन चतुर्थेन विधिरेष विधीयते ।। २८८.