उत्कर्णके तु दातव्या वारहञ्च तथा रसम् । दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ।। २८७.
तैलमूषणसंयुक्तं गलग्रहगदापहम् । अष्टभिर्लवणैः पिष्टैः प्रसन्नाः पाययेद्घृतम् ।। २८७.
मूत्रभङ्गेऽथ वा वीजं क्कथितं त्रपूषस्य च । त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्कथितं द्विपः ।। २८७.
गवां मूत्रं विड़ङ्गानि कृमिकोष्ठेषु शस्यते । श्रृङ्गवेरकणाद्राक्षाशर्कराभिः श्रृतं पयः ।। २८७.
क्षतक्षयकरं पानं तथा मांसरसः शुभः । मुद्गोदनं व्योषयुतमरुचौ तु प्रशस्यते ।। २८७.
त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरे भपिप्पली । एतैर्गुल्महरः स्नेहः कृतश्चैव तथापरः ।। २८७.
भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः । सर्वानेव समुत्पन्नान् विद्रवान् समुपाहरेत् ।। २८७.
यष्टिकं मुद्गसूपेन शारदेन तथा पिवेत् । बालविल्वैस्तथा लेपः कटुरोगेषु शस्यते ।। २८७.
विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् । पूर्वाह्णे पाययेत् पिण्डात् पिण्डान् सर्वशूलोपशान्तये ।। २८७.
प्रधानभोजने तेषां यष्टिकब्रीहिशालयः । मध्यमौ यवगोधूमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ।। २८७.
यवश्चैव तथैवेक्षुर्नागानां बलवर्द्धनः । नागानां यवसं शुष्कं तथा धातुप्रकोपणं ।। २८७.
मदक्षीणस्य नागस्य पयःपानं प्रशस्यते । दीपनीयैस्तथा द्रव्यैः श्रृतो मांसरसः शुभः ।। २८७.
कटुमत्स्यविड़ङ्गानि क्षारः कोषातकी पयः । हरिद्राचेति धूपोयं कुञ्जरस्य जयावहः ।। २८७.
पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षइकम् तथा । नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ।। २८७.
पुरीषञ्जतनेत्रस्तु तथा पारावतस्य च । क्षीरवृक्षकरीषाश्च प्रसन्नायेष्टमञ्जनं ।। २८७.
अनेनाञ्जिनेत्रस्तु करोति कदनं रणे । उत्पलानि च नीलानि सुस्तन्तगरमेव च ।। २८७.
तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् । नखवृद्धौ नखच्छेदस्तैलसेकश्च मास्यपि ।। २८७.
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा । शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ।। २८७.
धन्वन्तरिरुवाच अश्ववाहनसारञ्च वक्ष्ये चाश्वचिकित्सनम् । वाजिनां संग्रहः कार्यो धर्म्मकर्मार्थसिद्धये ।। २८८.
अश्विनी श्रवणं हस्तं उत्तरात्रितयन्तथा । नक्षत्राणि प्रशस्तानि हयानामादिवाहने ।। २८८.
हेमन्तः शिशिरश्चैव वसन्तश्चाश्वावाहने । ग्रीष्मे शरदि वर्षासु निषिद्धं बाहनं हये ।। २८८.
तीब्रैर्न्न च परैर्द्दण्डैरदेशे न च ताडयेत् । कीलास्थिसंकुले चैव विषमे कण्टकान्विते ।। २८८.
वालुकापङ्कसंच्छन्ने गर्त्तागर्त्तप्रदूषिते । अचित्तज्ञो विनोपायैर्वाहनं कुरुते तु यः ।। २८८.
स वाह्यते हयेनैव पृष्ठस्थः कटिकां विना । छन्दं विज्ञापयेत् कोपि सुकृती धीमतां वरः ।। २८८.
अब्यासादबियोगाच्च विनाशास्त्रं स्ववाहकः । स्नातस्य प्राङ्मुखस्याथ देवान् वपुषि योजयेत् ।। २८८.
प्रणवादिनमोन्तेन स्ववीजेन यथाक्रमम् । ब्रह्मा चित्ते वले विष्णुर्वैनतेयः पराक्रमे ।। २८८.
पार्श्वे रुद्रा गुरुर्बुद्धौ विश्वेदेवाश्च मर्मसु । दृगावर्त्ते दृशीन्द्वर्कौ कर्णयोरश्विनौ तथा ।। २८८.
जठरेऽग्निः स्वधा स्वेदे वाग्जिह्वायां जवेऽनिलः । पृष्ठतो नाकपृष्ठस्तु खुराग्रे सर्वपर्वता ।। २८८.
ताराश्च रोमकूपेषु हृदि चान्द्रमसी कला । तेजस्यग्नीरतिः श्रोण्यां ललाटे च जगत्पतिः ।। २८८.
ग्रहाश्च हेषिते चैव तथैवोरसि वासुकिः । उपोषितोऽर्च्चयेत् सादी हयं दक्षश्रुतौ जपेत् ।। २८८.