शोधयित्वा न्यसेत्तत्त्वं करसुद्धिरथास्त्रकम्। व्यापकं हस्तयोरदौ दक्षिणाङ्गुष्ठतोङ्गकम्
मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः। हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने
उदरं च तथा पृष्ठं बाहुरुजानुपादकं। मुद्रां दत्त्वा स्मरेद् विष्णुं जप्त्वाष्टशतमर्च्चयेत्
वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे। प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत्
चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा। फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङमुखाः। अधर्मादीनि गात्राणि पूर्वादौ योगपीठके
कूर्मं पीठे ह्यनन्तञ्च यमं सूर्य्यादिमण्डलम्। विमलाद्याः केशरस्थानुग्रहा कर्णिकास्थिता
पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चैच्च मण्डले। अर्घ्यं पाद्यं तथा चामं मधुपर्क्कं पुनश्च तत्
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम्। धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया
यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजम्। दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत्
देवस्य वामतो दक्षे चेषुधी खड्गमेव च। वामे चर्म्म श्रियं पुष्टिं वामेग्रतो न्यसेत्
वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः। स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः
व्यस्तेन च समस्तेन अङ्गैर्वीजेन वै यजेत्। जप्त्वा प्रदक्षिणीकृत्य स्तुत्वार्घ्यञ्च समर्प्य च
हृदये विन्यसेद्ध्यात्वा अहं ब्रह्मा हरिस्त्विति। आगच्छावाहने योज्यं क्षमस्वेति विसर्ज्जने
एवमष्टाक्षाराद्यैश्च पूजां कृत्वा विमुक्तिभाक्। एकमूर्त्त्यर्च्चनं प्रोक्तं नवव्यूहार्च्चनं श्रृणु
अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान्। तर्ज्जन्यादौ शरीरेथ शिरोललाटवक्त्रके
हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत् । एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत्
नवाव्जे नवमूर्त्त्या च नवव्यूहञ्च पूर्ववत्। इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत्
नारद उवाच अग्निकार्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक् ।२४.००१ चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकं ॥२४.००१ सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत्खनेत्समं ।२४.००२ खातस्य मेखला कार्या त्यक्त्वा चैवाङ्गुलद्वयं ॥२४.००२ सत्त्वादिसञ्ज्ञा(१) पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता ।२४.००३ अष्टाङ्गुला द्व्यङुलाथ चतुरङ्गुलविस्तृता ॥२४.००३ योनिर्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा ।२४.००४ क्रमान्निम्ना तु कर्तव्या पश्चिमाशाव्यवस्थिता ॥२४.००४ अश्वत्थपत्रसदृशी किञ्चित्कुण्डे निवेशिता ।२४.००५ तुर्याङ्गुलायता नालं पञ्चदशाङ्गुलायतं ॥२४.००५ मूलन्तु त्र्यङ्गुलं(२) योन्या अग्रं तस्याः षडङ्गुलं ।२४.००६ लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु ॥२४.००६ एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहं ।२४.००७ कुण्डार्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते ॥२४.००७ तदर्धं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।२४.००८ कुण्डार्धं कोणभागार्धं दिशिश्चोत्तरतो वहिः ॥२४.००८ पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः ।२४.००९ संस्थाप्य भ्रामितं कुण्डमर्धचन्द्रं भवेत्शुभं ॥२४.००९ पद्माकारे दलानि स्युर्मेखलानान्तु वर्तुले ।२४.०१० बाहुदण्डप्रमाणन्तु होमार्थं कारयेत्स्रुचं ॥२४.०१० सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत् ।२४.०११ त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ॥२४.०११ तिर्यगूर्ध्वं समं खाताद्वहिरर्धन्तु शोधयेत् ।२४.०१२ अङ्गुलस्य चतुर्थांशं शेषार्धार्धं तथान्ततः ॥२४.०१२ खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत् ।२४.०१३ कण्ठं त्रिभागविस्तारं अङ्गुष्ठकसमायतं ॥२४.०१३ सार्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत् ।२४.०१४ चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ॥२४.०१४ त्रिकं द्व्यङ्गुलकं तत्स्यान्मध्यन्तस्य सुशोभनम् ।२४.०१५ आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः ॥२४.०१५ शुषिरं कण्ठदेशे स्याद्विशेद्यावत्कनीयसी ।२४.०१६ शेषकुण्डन्तु कर्तव्यं यथारुचि विचित्रितं ॥२४.०१६ स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितं (१) ।२४.०१७ वटुकं द्व्यङ्गुलं(२) वृत्तं कर्तव्यन्तु सुशोभनं ॥२४.०१७ गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत् ।२४.०१८ उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकां(१) ॥२४.०१८ सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः ।२४.०१९ मध्ये तिस्रस्तथा कुर्याद्दक्षिणादिक्रमेण तु ॥२४.०१९ एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ।२४.०२० विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीं ॥२४.०२० अलं कृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन् ।२४.०२१ प्रादेशमात्राः समिधो दत्वा परिसमुह्य तं ॥२४.०२१ दर्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकं ।२४.०२२ आसादयेदिध्मवह्नी भूमौ च श्रुक्श्रुवद्वयं ॥२४.०२२ आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया ।२४.०२३ प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य वारिणा ॥२४.०२३ पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलं ।२४.०२४ प्राङ्नीत्वा प्रोक्षणीपात्रण्ज्योतिरग्रे निधाय च ॥२४.०२४ तदद्भिस्त्रिश्च सम्प्रोक्ष्य इद्ध्मं विन्यस्य चाग्रतः ।२४.०२५ प्रणीतायां सुपुष्पायां विष्णुं ध्यात्वोत्तरेण च ॥२४.०२५ आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च ।२४.०२६ सम्प्लवोत्पवनाभ्यान्तु कुर्यादाज्यस्य संस्कृतिं ॥२४.०२६ अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ ।२४.०२७ ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ॥२४.०२७ आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत्(२) ।२४.०२८ स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिण ॥२४.०२८ प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि ।२४.०२९ निष्टप्य स्थापयित्वा(१) तु प्रणवेनैव साधकः ॥२४.०२९ प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत् ।२४.०३० गर्भाधानादिकर्माणि यावदंशव्यवस्थया ॥२४.०३० नामान्तं व्रतबन्धान्तं समावर्तावसानकम् ।२४.०३१ अधिकारावसानं वा कर्यादङ्गानुसारतः ॥२४.०३१ प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः ।२४.०३२ अङ्गैर्होमस्तु कर्तव्यो यथावित्तानुसारतः ॥२४.०३२ गर्भादानन्तु प्रथमं ततः पुंसवनं स्मृतम् ।२४.०३३ सीमन्तोन्नयनं जातकर्म नामान्नप्राशनम् ॥२४.०३३ चूडकृतिं व्रतबन्धं वेदव्रतान्यशेषतः(२) ।२४.०३४ समावर्तनं पत्न्या च योगश्चाथाधिकारकः(३) ॥२४.०३४ हृदादिक्रमतो ध्यात्वा एकैकं कर्म पूज्य च ।२४.०३५ अष्टावष्टौ तु जुहुयात्प्रतिकर्माहुतीः पुनः ॥२४.०३५ पूर्णाहुतिं ततो दद्यात्श्रुचा मूलेन साधकः ।२४.०३६ वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन् ॥२४.०३६ विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् ।२४.०३७ आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत्(४) ॥२४.०३७ आसनादिक्रमेणैव साङ्गावरणमुत्तमम् ।२४.०३८ गन्धपुष्पैः समभ्यर्च्य ध्याता देवं सुरोत्तमम् ॥२४.०३८ आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ ।२४.०३९ वायव्यनैर्ऋताशादिप्रवृत्तौ तु यथाक्रमम् ॥२४.०३९ आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे ।२४.०४० मध्येथ जुहुयात्सर्वमन्त्रानर्चाक्रमेण तु ॥२४.०४० आज्येन तर्पयेन्मूर्तेर्दशांशेनाङ्गहोमकम् ।२४.०४१ शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह(१) ॥२४.०४१ समाप्यार्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान् ।२४.०४२ आहूयाग्रे निवेश्याथ ह्यस्त्रेण प्रोक्षयेत्पशून् ॥२४.०४२ शिष्यानात्मनि संयोज्य अविद्याकर्मबन्धनैः ।२४.०४३ लिङ्गानुवृत्तश्चैतन्यं सह लिङ्गेन पाशितम्(२) ॥२४.०४३ ध्यानमार्गेन सम्प्रोक्ष्य वायुबीजेन शोधयेत् ।२४.०४४ ततो दहनबीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम् ॥२४.०४४ निर्दग्धां सकलां ध्यायेद्भस्मकूटनिभस्थिताम् ।२४.०४५ प्लावयेद्वारिणा भस्म संसारं वार्मयं स्मरेत्(३)२४.०४५ तत्र शक्तिं न्यसेत्पश्चात्पार्थिवीं बीजसञ्ज्ञिकाम् ।२४.०४६ तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम् ॥२४.०४६ अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम् ।२४.०४७ तन्मध्ये चिन्तयेन्मूर्तिं पौरुषीं प्रणवात्मिकाम् ॥२४.०४७ लिङ्गं सङ्क्रामयेत्पश्चादात्मस्थं पूर्वसंस्कृतम् (४) ।२४.०४८ विभक्तेन्द्रियसंस्थानं क्रमाद्वृद्धं विचिन्तयेत् ॥२४.०४८ ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम् ।२४.०४९ द्यावापृथिव्यौ शकले तयोर्मध्ये प्रजापतिम् ॥२४.०४९ जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम् ।२४.०५० मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम् ॥२४.०५० विष्णुर्हस्तं ततो मूर्ध्नि दत्वा ध्यात्वा तु वैष्णवम् ।२४.०५१ एवमेकं बहून् वापि जनित्वा ध्यानयोगतः ॥२४.०५१ करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा ।२४.०५२ नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु ॥२४.०५२ कृतपूजो गुरुः सम्यक्देवदेवस्य तत्त्ववान् ।२४.०५३ शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखानुपवेशयेत् ॥२४.०५३ अर्चयेयुश्च तेप्येवम्प्रसूता गुरुणा हरिम् ।२४.०५४ क्षिप्त्वा पुष्पाञ्जलिं तत्र पुष्पादिभिरनन्तरम् ॥२४.०५४ अमन्त्रमर्चनं कृत्वा(१) गुरोः पादार्चनन्ततः ।२४.०५५ विधाय दक्षिणां दद्यात्सर्वस्वं चार्धमेव वा ॥२४.०५५ गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः ।२४.०५६ विश्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम् ॥२४.०५६ तज्जपन्तञ्च तर्जन्या मण्डलस्थं विसर्जयेत्
नारद उवाच वासुदेवादिमन्त्राणां पूज्यानां लक्षणं वदे। वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः
नमो भगवते चादौ अ आ अं अः स्ववीजकाः । ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः
ओं तत् सद् ब्रह्मणे चैव ओं नमो विष्णवे नमः। ओं क्षों ओं नमो भगवते नरसिंहाय वै नमः
ओं भूर्नमो भगवते वराहाय नराधिपाः। जवारुणहरिद्राभा नीलश्यामललोहिताः
मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः। अङ्गानि स्वरवीजानां स्वनामान्तैर्यथाक्रमम्
हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः। व्यञ्चनादीनि बीजानि तेषां लक्षणमन्यथा
दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु। अह्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते
विभक्तनामवर्णान्तस्थितानि वीदमुत्तमम् । दीर्घैर्ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गंस्वरैः क्रमात्
व्यञ्चनानां क्रमो ह्येष हृदयादिप्रकूप्तये। स्ववीजेन स्वनामान्तैर्विभक्तान्यङ्गनाभिः
युक्तानि हृदयादीनि द्वादशान्तादि पञ्चतः । आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः
हृदयञ्च शिरश्चुडा कवचं नेत्रमस्तकम्। षडङ्गानि तु वीजानां मूलस्य द्वादशाङ्गकम्