क्षौद्राज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् । रुदन्तिकाकज्यमधुभुक् दुग्धभोजी च मृत्युजित् ।। २८६.
कर्षं भृङ्गरसेनापि रोगजीच्चामरो भवेत् । रुदन्तिकाज्यमधुभुक् दुग्धभोजी च मृत्युजित् ।। २८६.
कर्षचूर्णं हरीतक्या भावितं भृङ्गराड्रसैः । घृतेन मधुना सेव्य त्रिशतायुश्च रोगजित् ।। २८६.
वाराहिका भृङ्गरसं लोहचूर्णं शतावरी । साज्यं कर्षं पञ्चशती कार्त्तचूर्णं शतावरी ।। २८६.
भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् । ताम्रं मृतं मृततुल्यं गन्धकञ्च कुमारिका ।। २८६.
रसैविमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् । अश्वगन्धा पलं तैलं साज्यंखण्डं शताब्दवान् ।। २८६.
पलम्पुनर्न्नवाचूर्णं मध्वाज्यपयसा पिवन् । अशोकचूर्णस्य पलं मध्वाज्यं पयसार्त्तिन्त् ।। २८६.
तिलस्य तैलं समधु नस्यात् कृष्णकचः शती । कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन् ।। २८६.
अभयं सगुडञ्जग्ध्वा घृतेन मधुरादिभिः । दुग्धान्नभुक् कृष्णकेशोऽरोगी पञ्चशताब्दवान् ।। २८६.
पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् । मासं दुग्धान्नभोजी च सहस्रायुविंशोगवान् ।। २८६.
शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृतं । कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान् ।। २८६.
त्रिफला पिप्पली शुण्ठी सेविता त्रिशताव्दकृत् । शतावर्य्याः पूर्वयोगः सहस्रायुर्बलातिकृत् ।। २८६.
चित्रकेन तथा पूर्वस्तथा शुण्ठीविडङ्गतः । लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः ।। २८६.
खदिरेण च निर्गुण्ड्या कण्टकार्य्याथ वासकात् । वर्षाभुवा तद्रसैर्वा भावितो वटिकाकृतः ।। २८६.
चूर्णङ्घृतैर्वा मधुना गुडाद्यैर्वारिणा तथा । ॐ ह्रूं स इति मन्त्रेण मन्त्रितो योगराजकः ।। २८६.
मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् । सुरासुरैश्च मुनिभिः सेविताः कल्पसागराः ।। २८६.
गजायुर्वेदं प्रोवाच पालकाप्योऽङ्गराजकं ।। २८६.
पालकाप्य उवाच गजलक्षअम चिकित्साञ्च लोमपाद वदामि ते । दीर्घहस्ता महोच्छ्वासाः प्रशस्तास्ते सहिष्णवः ।। २८७.
विंशत्यष्टादशनखाः शीतकालमदाश्च ये । दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ।। २८७.
हस्तिन्यः पार्श्वगर्भिण्यो ये च मूढा मतङ्गजाः । वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ।। २८७.
सप्तस्थितो गजश्वेदृक् सङ्ग्रामेरीञ्जयेत्स च । कुञ्जराः परमा शोभा शिविरस्य बलस्य च ।। २८७.
आयत्तं कुञ्जरैश्चैव विजयं पृथिवीक्षितां । पाकलेषु च सर्वेषु कर्त्तव्यमनुवासनं ।। २८७.
घृततैलपरीपाकं स्थानं वातविवर्जितं । स्कन्धेषु च क्रिया कार्य्या तथा पालकवन्नृपाः ।। २८७.
गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज । आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ।। २८७.
लवणैः पञ्चभिर्म्मिश्रा प्रतिपानाय वारुणी । विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ।। २८७.
मृर्च्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् । अब्यङ्ग शिरसः शुले नस्यञ्चैव प्रशस्यते ।। २८७.
नागानां स्नेहपुटकः पादरोगानुपक्रमेत् । पश्चात् कल्ककषायेण शोधनञ्च विधीयते ।। २८७.
शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः । रसैः सम्भोज्येन्नागं वेपथुर्यस्य जायते ।। २८७.
बालविल्वं तथा लोध्रं धातकी सितया सह । अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ।। २८७.
नस्यं करग्रहे देयं घृतं लवणसंयुतम् । मागधीनागराजाजीयवागूर्मुस्तसाधिता ।। २८७.