विरेकः सर्व्वरोगघनः श्रेष्ठो नाराचसंज्ञकः । सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः ।। २८५.
सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि ।। २८५.
धन्वन्तरिरुवाच कल्पान्मृत्युञ्चयान्वक्ष्ये ह्यायुर्द्दान्रोगमर्द्दनान् । त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता ।। २८६.
पलं पलार्द्धं कर्षं वा त्रिफलां सकलां तथा । विल्वतैलस्य नस्यञ्च मासं पञ्चशती कवि ।। २८६.
रीगापमृत्युबलिजत् तिलं भल्लातकं तथा । पञ्चाङ्गं वाकुचीचूर्णं षण्मासं शकदिरोदकैः ।। २८६.
क्काथैः कुष्ठञ्जयेत् सेव्यं चूर्णं लीलकुरुण्टजम् । क्षीरेण मधुना वापि शतायुः खण्डदुग्धभुक् ।। २८६.
मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः स मृत्युजित् । बलीपलितजिज्जीवेन्माण्डूकी चूर्णदुग्धपाः ।। २८६.
उच्चटामधुना कर्ष पयःपा मृत्युजिन्नरः । मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ।। २८६.
पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् । दुग्धभोजी पञ्चशती सहस्रायुर्भ्वेन्नरः ।। २८६.
ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् । मधुनाज्यन्ततस्तद्वत् शतावर्य्या रजः पलं ।। २८६.
क्षौद्राज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् । रुदन्तिकाकज्यमधुभुक् दुग्धभोजी च मृत्युजित् ।। २८६.
कर्षं भृङ्गरसेनापि रोगजीच्चामरो भवेत् । रुदन्तिकाज्यमधुभुक् दुग्धभोजी च मृत्युजित् ।। २८६.
कर्षचूर्णं हरीतक्या भावितं भृङ्गराड्रसैः । घृतेन मधुना सेव्य त्रिशतायुश्च रोगजित् ।। २८६.
वाराहिका भृङ्गरसं लोहचूर्णं शतावरी । साज्यं कर्षं पञ्चशती कार्त्तचूर्णं शतावरी ।। २८६.
भावितं भृङ्गराजेन मध्वाज्यन्त्रिशती भवेत् । ताम्रं मृतं मृततुल्यं गन्धकञ्च कुमारिका ।। २८६.
रसैविमृज्य द्वे गुञ्जे साज्यं पञ्चशताब्दवान् । अश्वगन्धा पलं तैलं साज्यंखण्डं शताब्दवान् ।। २८६.
पलम्पुनर्न्नवाचूर्णं मध्वाज्यपयसा पिवन् । अशोकचूर्णस्य पलं मध्वाज्यं पयसार्त्तिन्त् ।। २८६.
तिलस्य तैलं समधु नस्यात् कृष्णकचः शती । कर्षमक्षं समध्वाज्यं शतायुः पयसा पिवन् ।। २८६.
अभयं सगुडञ्जग्ध्वा घृतेन मधुरादिभिः । दुग्धान्नभुक् कृष्णकेशोऽरोगी पञ्चशताब्दवान् ।। २८६.
पलङ्कुष्माण्डिकाचूर्णं मध्वाज्यपयसा पिवन् । मासं दुग्धान्नभोजी च सहस्रायुविंशोगवान् ।। २८६.
शालूकचूर्णं भृङ्गाज्यं समध्वाज्यं शताब्दकृतं । कटुतुम्बीतैलनस्यं कर्षं शतद्वयाब्दवान् ।। २८६.
त्रिफला पिप्पली शुण्ठी सेविता त्रिशताव्दकृत् । शतावर्य्याः पूर्वयोगः सहस्रायुर्बलातिकृत् ।। २८६.
चित्रकेन तथा पूर्वस्तथा शुण्ठीविडङ्गतः । लोहेन भृङ्गराजेन बलया निम्बपञ्चकैः ।। २८६.
खदिरेण च निर्गुण्ड्या कण्टकार्य्याथ वासकात् । वर्षाभुवा तद्रसैर्वा भावितो वटिकाकृतः ।। २८६.
चूर्णङ्घृतैर्वा मधुना गुडाद्यैर्वारिणा तथा । ॐ ह्रूं स इति मन्त्रेण मन्त्रितो योगराजकः ।। २८६.
मृतसञ्जीवनीकल्पो रोगमृत्युञ्जयो भवेत् । सुरासुरैश्च मुनिभिः सेविताः कल्पसागराः ।। २८६.
गजायुर्वेदं प्रोवाच पालकाप्योऽङ्गराजकं ।। २८६.
पालकाप्य उवाच गजलक्षअम चिकित्साञ्च लोमपाद वदामि ते । दीर्घहस्ता महोच्छ्वासाः प्रशस्तास्ते सहिष्णवः ।। २८७.
विंशत्यष्टादशनखाः शीतकालमदाश्च ये । दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ।। २८७.
हस्तिन्यः पार्श्वगर्भिण्यो ये च मूढा मतङ्गजाः । वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ।। २८७.