वासानिम्बपटोलानि त्रिफला वातपित्तनुत् । लिह्यात् क्षौद्रेण विड़ङ्गं चूर्णं कृमिविनाशनम् ।। २८५.
विड़ङ्गसैन्धवक्षारमृत्रेनापि हरीतकी । शल्लकीवदरीजम्बुपियालाम्रार्जुनत्वचः ।। २८५.
पीताः क्षीरेण मध्वक्ताः पृथक्शोणितवारणाः । विल्वाम्रधातकीपाठाशुण्ठीमोचरसाः समाः ।। २८५.
पीता रुन्धन्त्यतीसारं गुड़तक्रेण दुर्जयम् । चाङ्गेरीकोलदध्यम्बुनागरक्षारसंयुतम् ।। २८५.
घृततयुक्क्काथितं पेयं गुदभ्रंसे रुजापहम् । विड़ङ्गातिविषामुस्तं दारुपाठाकलिङ्गकम् ।। २८५.
मरीचेन समायुक्तं शोथातीसारनाशनम् । शर्करासिन्धुशुण्ठीभिः कृष्णामधुगुड़ेन वा ।। २८५.
द्वे द्वे खादेद्धरीतक्यौ जीवेद्वर्षशतं सुखी । त्रिफला पिप्पलीयुक्ता समध्वाज्या तथैव सा ।। २८५.
चूर्णमामलकं तेन सुरसेन तु भावितम् । मध्वाज्यशर्करायुक्तं लिढ्वा स्त्रीशः पयः पिवेत् ।। २८५.
मासपिप्पलिशालीनां यवगोधूमयोस्तथा । चूर्णभागैः समांशैश्च पचेत् पिप्पलिकां शुभां ।। २८५.
तां भक्षयित्वा च पिवेत् शर्करामधुरं पयः । नवश्चटकवज्जम्भेद् दशवारान् स्त्रियं ध्रुवम् ।। २८५.
समङ्गाधातकीपुष्पलोध्रनीलोत्पलानि च । एतत् क्षीरेण दातव्यं स्त्रीणां प्रदरनाशनं ।। २८५.
वीजङ्कौरण्टकञ्चापि मधुकं श्वेतचन्दनं । पद्मोत्पलस्य मूलानि मधुकं शर्करातिलान् ।। २८५.
द्रवमाणेषु गर्भेषु गर्भस्थापनमुत्तमं । देवदारु नभः कुष्ठं नलदं विश्वभेषजं ।। २८५.
लेपः काञ्जिकसम्पिष्टस्तैलयुक्तः शिरोर्त्तिनुत् । वस्त्रपूतं क्षिपेत् कोष्णं सिन्धूत्थं कर्णशूलनुत् ।। २८५.
लशुनार्द्रकशिग्रूणां कदल्या वा रसः पृथक् । बलाशतावरीरास्नामृताः मैरीयकैः पिवेत् ।। २८५.
त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं । त्रिफलाव्योषसिन्धूत्थैर्घृतं सिद्धं पिवेन्नरः ।। २८५.
चाक्षुष्यम्भेदनं हृद्यं दीपनं कफरोगनुत् । नीलोत्पलस्य किञ्जल्कं गोशकृद्रससंयुतं ।। २८५.
गुटिकाञ्जनमेतत् स्यात् दिनरात्र्यन्धयोर्हितं । यष्टिमधुवचाकृष्णावीजानं गुटजस्य च ।। २८५.
कल्केनालोड्य निम्बस्य कषायो वमनायसः । स्निग्धस्विन्नयवन्तोयं प्रदातव्यं विरेचनम् ।। २८५.
अन्य्था योजितं कुर्य्यात् मन्दाग्निं गौरवारुचिं। पथ्यासैन्धवकृष्णानां चूर्णमुष्णाम्बुना पिवेत् ।। २८५.
विरेकः सर्व्वरोगघनः श्रेष्ठो नाराचसंज्ञकः । सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः ।। २८५.
सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि ।। २८५.
धन्वन्तरिरुवाच कल्पान्मृत्युञ्चयान्वक्ष्ये ह्यायुर्द्दान्रोगमर्द्दनान् । त्रिशती रोगहा सेव्या मध्वाज्यत्रिफलामृता ।। २८६.
पलं पलार्द्धं कर्षं वा त्रिफलां सकलां तथा । विल्वतैलस्य नस्यञ्च मासं पञ्चशती कवि ।। २८६.
रीगापमृत्युबलिजत् तिलं भल्लातकं तथा । पञ्चाङ्गं वाकुचीचूर्णं षण्मासं शकदिरोदकैः ।। २८६.
क्काथैः कुष्ठञ्जयेत् सेव्यं चूर्णं लीलकुरुण्टजम् । क्षीरेण मधुना वापि शतायुः खण्डदुग्धभुक् ।। २८६.
मध्वाज्यशुण्ठीं संसेव्य पलं प्रातः स मृत्युजित् । बलीपलितजिज्जीवेन्माण्डूकी चूर्णदुग्धपाः ।। २८६.
उच्चटामधुना कर्ष पयःपा मृत्युजिन्नरः । मध्वाज्यैः पयसा वापि निर्गुण्डी रोगमृत्युजित् ।। २८६.
पलाशतैलं कर्षैकं षण्मासं मधुना पिवेत् । दुग्धभोजी पञ्चशती सहस्रायुर्भ्वेन्नरः ।। २८६.
ज्योतिष्मतीपत्ररसं पयसा त्रिफलां पिवेत् । मधुनाज्यन्ततस्तद्वत् शतावर्य्या रजः पलं ।। २८६.