गुण्डयेच्च गजेनापि त्रिफलाचूर्णकेन च । त्रिफलायोरजोयष्टिमार्कवोत्पलमारिचै ।। २८५.
ससैन्धवैः पचेत्तैलमभ्यह्गाच्छर्द्दिकापहं । सक्षीरान् मार्कवरसान् द्विप्रस्थमधुकोत्पलैः ।। २८५.
पचेत्तु तैलकुडवं तन्नस्यं पलितापहं । निम्बम्पटोलं त्रिफला गुडूची खदिरं वृषं ।। २८५.
भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं । योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं ।। २८५.
पटोलामृतभूनिम्बवासारिष्टकपर्पटैः । खदिरान्तयुतैः क्काथो विस्फोटज्वरशान्तिकृत् ।। २८५.
दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा । ज्वर्रावद्रधिशोथेषु शिग्रुविश्वजिता हिताः ।। २८५.
मधूकं निम्बपत्राणि लेपः स्याद् व्रणशोधनः । त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः ।। २८५.
निम्बमूलकपत्राणां कषायाः शोधने हिताः । करञ्जारिष्टनिर्गुण्डीरसो हन्याद् व्रणक्रिमीन् ।। २८५.
धातकीचन्दनबलासमह्गामधुकोत्पलैः । दार्वीमेदोन्वितैर्लेपः ससर्पिर्व्रणरोपणः ।। २८५.
गुग्गुलुत्रिफलाव्योषसमांशैर्घृतयोगतः । नाडी दुष्टवणं शूलम्भगन्दरमुखं हरेत् ।। २८५.
हरितकीं मूत्रसिद्धां सतैललवणान्वितां । प्रातः प्रातश्च सेवेत् कफवातामयापहां ।। २८५.
त्रिककटुत्रिफलाक्काथं९ सक्षारलवणं पिवेत् । कफवातात्मकेष्वेव विंरेकः कफवृद्धिनुत् ।। २८५.
पिप्पलीपिप्पलीमूलवचाचित्रकनागरैः । क्काथितं वा पिवेत्पेयमामवातविनाशनं ।। २८५.
रास्नां गुडुचीमेरण्डदेवदारुमहौषधं । पिवेत् सर्वाड्गिके वाते सामे सन्ध्यस्थिमज्जगे ।। २८५.
दशमूलकषायं वा पिवेद्वा नागराम्भसा । सुण्ठीगोक्षुरकक्काथः प्रातः प्रातर्न्निषेवितः ।। २८५.
सामवातकटीशूलपाचनो रुक्प्रणाशनः । समूलपत्रशाखायाः प्रसारण्याश्च तैलकं ।। २८५.
गुडुच्याः सुरसः कल्कः चूर्णं वा क्काथमेव च । प्रभूतकालमासेव्य मुच्यते वातशोणितात् । २८५.
पिप्पली वर्द्धमानं वा सेव्यं पथ्या गुडेन् वा । पटोलत्रिफलातीव्रकटुकामृतसाधितं ।। २८५.
पक्वं पीत्वा जयत्याशु सदाहं वातशोणितं । गुग्गुलं कोष्णशीते तु गुडुची त्रिफलाम्भ्सा ।। २८५.
बलापुनर्न्नवैरण्डवृहतीद्वयगोक्षुरैः । सहिङ्गु लवणैः पीतं सद्यो वातरुजापहं ।। २८५.
कार्षिकं पिप्पलीलमूलं पञ्चैव लवणानि च । पिप्पली चित्रकं शुण्ठी त्रिफ्ला त्रिवृता वचा ।। २८५.
द्वौ क्षारौ शाद्वला दन्ती स्वर्णक्षीरी विषाणिका । कोलप्रमाणां गुटिकां पिवेत् सौवीरकायुतां ।। २८५.
शोथावपाके त्रिवृता प्रवृद्धे चोदरादिके । क्षीरं शोथहरं दारु वर्षाभूर्नागरैः शुभम् ।। २८५.
सेकस्तथार्कवर्षाभूनिम्बक्काथेन शोथजित् । व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि ।। २८५.
साधितं पिवतः सर्पिः पतत्यर्शो न संशयः । विश्वक्सेनावनिर्ग्गुण्डीसाधितं चापि लावणं ।। २८५.
विड़ङ्गानलसिन्धूत्थरास्नाग्रक्षारदारुभिः । तैलञ्चतुर्गुणं सिद्धं कटुद्रव्यं जलेन वा ।। २८५.
गणअडमालापहं तैलमभ्यङ्गात् गलगण्डनुत् । शटीकुनागबलयक्काथः क्षीरससे युतम् ।। २८५.
पयस्यापिप्पलीवासाकल्कं सिद्धंक्षये हितम् । वचाविड़भयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकान् ।। २८५.
द्वित्रिषट्चतुरेकांशसप्तपञ्चाशिकाः क्रमात् । चूर्णं पीतं हन्ति गुल्मं उदरं शूलकासनुत् ।। २८५.
पाठानिकुम्भत्रिकटुत्रिफलाग्निषु साधितम् । मूत्रेण चूर्णगुटिका गुल्मप्लीहादिमर्द्दनी ।। २८५.