देवदारुबलावासात्रिफलाव्योषपद्मकैः । सविडङ्गैः सितातुल्यं तच्चूर्णं पञ्चकाशजित् ।। २८५.
दशमूलीशटीरास्नापिप्पलीविल्वपौष्करैः । श्रृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः ।। २८५.
यवाग्रं विधिना सिद्धं कषायं वा पिवेन्नरः । काशहृद्ग्रहणीपार्श्वहिक्काश्वासप्रशान्तये ।। २८५.
मधुकं मधुना युक्तं पिप्पलीं शर्करान्वितां । नागरं गुड़संयुक्तं हिक्काघ्नं लावणत्रयम् ।। २८५.
कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाड़िमम् । सौवर्च्चलं गुड़ं क्षौद्रं सर्वारोचननाशनम् ।। २८५.
श्रृह्गवेररसञ्चैव मधुना सह पाययेत् । अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम् ।। २८५.
वटं श्रृङ्गी शिलालोध्रदाड़िमं मधुकं मधु । पिवेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ।। २८५.
गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् । कफान्वितञ्जयेद्रक्तं तृष्णआकासज्वरापहम् ।। २८५.
वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः . शिरीषपुष्पसुरसभावितं मरिचं हितं ।। २८५.
सर्व्वार्त्तिनुन्मसूरोऽथ पित्तमुक् तण्डुलीयकं । निर्ग्गुण्डी शारिवा शेलुरह्कोलश्च विषापहः ।। २८५.
महौषधं मृतां क्षुद्रां पुष्करं ग्रन्थिकोद्भवं । पिवेत् कणायुतं क्काथं मूर्च्छायाञ्च मदेषु च ।। २८५.
हिङ्गुसौवर्च्चलव्योषैर्द्विपलांशैर्घृताढकं । चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनं ।। २८५.
शङ्खपुष्पीवचाकुष्ठैः सिद्धं ब्राह्मीरसैर्युतं । पुराणआं हन्त्यपस्मारं सोन्मादं मेध्यमुत्तमं ।। २८५.
पञ्चगव्यं घृतं तद्वत् कुष्ठनुच्चाभ्यायुतं । पटोलत्रिफलानिम्बगुडु वीधावणीवृषैः ।। २८५.
सकरञ्जैर्घृतं सिद्धं कुष्ठनुद्वज्र्कं स्मृतं । निम्बं पटोलं व्याघ्री च गुडुची वासकं तथा ।। २८५.
कुर्य्याद्दशपलान् भागान् एकैकस्य सकुट्टितान् । जलद्रोणए विपक्तव्यं यावत्पादावशेषितं ।। २८५.
घृतप्रस्थम्प्चेत्तेन त्रिफलागर्भसंयुतं । पञ्चतिक्तमिति ख्यातं सर्पिः कुष्ठविनाशनं ।। २८५.
अशीतिं वातजान् रोगान् चत्वारिंशच्च पैत्तिकान् । विंशतिं श्लैष्मिकान् कासपीनसार्शोव्रणादिकान् ।। २८५.
हन्त्यन्यान् योगराजोषऽयं यथार्कस्तिमिरं खलु । त्रिफलायाः कषायेन् भृङ्गराजरसेन च ।। २८५.
ब्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये । पटोलदलचूर्णेन दाडिमत्वग्रजोऽथ वा ।। २८५.
गुण्डयेच्च गजेनापि त्रिफलाचूर्णकेन च । त्रिफलायोरजोयष्टिमार्कवोत्पलमारिचै ।। २८५.
ससैन्धवैः पचेत्तैलमभ्यह्गाच्छर्द्दिकापहं । सक्षीरान् मार्कवरसान् द्विप्रस्थमधुकोत्पलैः ।। २८५.
पचेत्तु तैलकुडवं तन्नस्यं पलितापहं । निम्बम्पटोलं त्रिफला गुडूची खदिरं वृषं ।। २८५.
भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं । योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं ।। २८५.
पटोलामृतभूनिम्बवासारिष्टकपर्पटैः । खदिरान्तयुतैः क्काथो विस्फोटज्वरशान्तिकृत् ।। २८५.
दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा । ज्वर्रावद्रधिशोथेषु शिग्रुविश्वजिता हिताः ।। २८५.
मधूकं निम्बपत्राणि लेपः स्याद् व्रणशोधनः । त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः ।। २८५.
निम्बमूलकपत्राणां कषायाः शोधने हिताः । करञ्जारिष्टनिर्गुण्डीरसो हन्याद् व्रणक्रिमीन् ।। २८५.
धातकीचन्दनबलासमह्गामधुकोत्पलैः । दार्वीमेदोन्वितैर्लेपः ससर्पिर्व्रणरोपणः ।। २८५.
गुग्गुलुत्रिफलाव्योषसमांशैर्घृतयोगतः । नाडी दुष्टवणं शूलम्भगन्दरमुखं हरेत् ।। २८५.