धन्वन्तरिरुवाच आयुरारोग्यकर्तार ओंकारद्याश्च नाकदाः । ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् ।। २८४.
गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् । ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः ।। २८४.
ओं नमो भगवते वासुदेवाय सर्वदः । ओं ह्रूँ नमो विष्णवे मन्त्रोयञ्चौषधं परं ।। २८४.
अनेन देवा ह्यसुराः सश्रियो निरुजोऽभवन् । भूतानामुपकारश्च तथा धर्मो महौषधम् ।। २८४.
धर्म्मः सद्धर्म्मकृद्धर्मी एतैर्धर्म्मैश्च निर्म्मलः । श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ।। २८४.
श्रियः पतिः श्रीपरम् एतैः श्रियमवाप्नुयात् । कामी कामप्रदः कामः कामपालस्तथा हरिः ।। २८४.
आनन्दो माधवश्चैव नाम कामाय वै हरेः । रामः परशुरामश्च नृसिंहो विष्णुरेव च ।। २८४.
त्रिविक्रमश्च नामानि जप्तव्यानि जिगीषुभिः । विद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ।। २८४.
दामोदरो बन्धहरः पुष्कराक्षोऽक्षिरोगनुत् । हृषीकेशो भयहरो जपेदौषधकर्म्मणि ।। २८४.
अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः । जलतारे नारसिंहं पूर्व्वादौ क्षेमकामवान् ।। २८४.
चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खड्गिनं स्मरेत् । नारायणं सर्वकाले नृसिंहोऽखिलभीतिनुत् ।। २८४.
गरुडध्वजश्च विषहृत् वासुदेवं सदा जपेत् । धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरयेत् ।। २८४.
नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं । हयग्रीवञ्च विद्यार्थी जगत्सृतिं सुताप्तये ।। २८४.
बलभद्रं शौर्यकार्य्ये एकं नामार्थसाधकम् ।। २८४.
धन्वन्तरिरुवाच सिद्धयोगान् पुनर्वक्ष्ये मृतसञ्जीवनीकरान् । आत्रेयभाषितान् दिव्यान् सर्वव्याधिविमर्दनान् ।। २८५.
आत्रेय उवाच विल्वादिपञ्चमूलस्य क्काथः स्याद्वातिके ज्वरे । पावनं पिप्पलीमूलं गुडूची विष्वजोऽथ वा ।। २८५.
आमलक्यभ्या कृष्णा वह्निः सर्वज्वरान्तकः । विल्वाग्निमन्थश्योनाककाश्मर्य्यः पारला स्थिरा ।। २८५.
त्रिकण्टकं पृश्निपर्णी वृहती कण्टकारिकाः । ज्वराविपाकपार्श्वार्त्तिकाशनुत् कुशमृलकम् ।। २८५.
गुडूची पर्पटी मुस्तं किरातं विश्वभेषजम् । वातपित्तज्वरे देयं पञ्चभद्रमिदं स्मृतम् ।। २८५.
त्रिवृद्विशालकटुकात्रिफलारग्बधैः कृतः । संस्कारो भेदनक्काथः पेथः सर्वज्वरापहः ।। २८५.
देवदारुबलावासात्रिफलाव्योषपद्मकैः । सविडङ्गैः सितातुल्यं तच्चूर्णं पञ्चकाशजित् ।। २८५.
दशमूलीशटीरास्नापिप्पलीविल्वपौष्करैः । श्रृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः ।। २८५.
यवाग्रं विधिना सिद्धं कषायं वा पिवेन्नरः । काशहृद्ग्रहणीपार्श्वहिक्काश्वासप्रशान्तये ।। २८५.
मधुकं मधुना युक्तं पिप्पलीं शर्करान्वितां । नागरं गुड़संयुक्तं हिक्काघ्नं लावणत्रयम् ।। २८५.
कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाड़िमम् । सौवर्च्चलं गुड़ं क्षौद्रं सर्वारोचननाशनम् ।। २८५.
श्रृह्गवेररसञ्चैव मधुना सह पाययेत् । अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम् ।। २८५.
वटं श्रृङ्गी शिलालोध्रदाड़िमं मधुकं मधु । पिवेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ।। २८५.
गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् । कफान्वितञ्जयेद्रक्तं तृष्णआकासज्वरापहम् ।। २८५.
वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः . शिरीषपुष्पसुरसभावितं मरिचं हितं ।। २८५.
सर्व्वार्त्तिनुन्मसूरोऽथ पित्तमुक् तण्डुलीयकं । निर्ग्गुण्डी शारिवा शेलुरह्कोलश्च विषापहः ।। २८५.