पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् । समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित् ।। २८३.
त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं । तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे ।। २८३.
रुग्घातरजनीलाक्षाचूर्णाजक्षौद्रसंयुता । वासोवत्तिर्व्रणे योज्या शोधनी गतिनाशनी ।। २८३.
शयामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः । समरीचैः श्रृतं तैलं क्षीरे स्याद् व्रणरोहणं ।। २८३.
श्रीकार्पासदलैर्भस्मफलोपलवणा निशा । तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं ।। २८३.
कुम्भीसारं पयोयुक्तं वह्निग्धं व्रणे लिपेत् । तदेव नाशयेत्सेकान्नारिकेलरजोघृतम् ।। २८३.
विश्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया । तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी ।। २८३.
वत्सकातिविषाविश्वविल्लमुस्तश्रृतं जलं । सामे पुराणेऽतीसारे सासृक्शूले च पाययेत् ।। २८३.
अङ्गादग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् । शूलवान्थ वा तद्धि सिन्धुहिंगुकणाभया ।। २८३.
कटुरोहोत्कणातह्कलाजचूर्णं मधुप्लुतं । वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत् ।। २८३.
पाठादार्व्वीजातिदलं द्राक्षामृलफलत्रयैः । साधितं समधु क्काथं कवलं मुखपापहृत् ।। २८३.
कृष्णातिविषतिक्तेन्द्रदारुपाठापयोमुचां । क्काथो मूत्रे श्रृतः क्षौद्री सर्वकण्ठगदापहः ।। २८३.
पथ्यागोक्षुरदुस्पर्शराजवृक्षशिलाभिदां । कषायः समधुः पीतो मूत्रकृच्छ्रं व्यपोहति ।। २८३.
वंशत्वग्वरुणक्काथः शर्क्कराश्मविघातनः । शाखोटक्काथसक्षौद्रक्षीराशी श्लीपदी भवेत् ।। २८३.
मासार्कत्वक्पयस्तैलं मधुसिक्तञ्च सैन्धवं । पादरोगं हरेत्सर्पिर्जालकुक्कुटजं तथा ।। २८३.
शुण्ठीसौवर्चलाहिङ्गुचूर्णं शूण्ठीरसैर्घृतम् । रुजं हरेदथ क्काथो विद्धि वद्धाग्निसाधने ।। २८३.
सौवर्चलाग्निहङ्गूनां सदीप्यानां रसैर्युतं । विड़दीप्यकयुक्तं वा तक्रं गुल्मातुरः पिवेत् ।। २८३.
धात्रीपटोलमुद्गानां क्काथः साज्यो विसर्पहा । शुण्ठीदारुनवाक्षीरक्काथो मूत्रान्वितोऽपरः ।। २८३.
सव्योषायोरजः क्षारः फलक्काथश्च शोथहृत् । गुड़शिग्रुत्रिवृद्भिश्च सैन्धवानां रजोयुतः ।। २८३.
त्रिवृताफलकक्काथः सगुड़ स्याद्विरेचनः । वचाफलकषायोत्थं सैन्धवानां रजोयुतः ।। २८३.
त्रिफलायाः पलशतं पृथग्भृङ्गजभावितम् । विङ्ङ्गं लोहचूर्णञ्च दशभागसमन्वितम् ।। २८३.
शतावरीगुडुच्यग्निपलानां शतविंशतिः । मध्वाज्यतिलजैर्लिह्यद् बलीपलितवर्ज्जितः ।। २८३.
सितामधुघृतैर्युक्ता सकृष्णा त्रिफला तथा । त्रिफला सर्वरोगघ्नीस मधुः सर्क्करान्विता ।। २८३.
सितामधुघृतैर्युक्ता सकृष्णा त्रिफला तथा । पथ्याचित्रकशुण्ठ्यश्च गुडुचीमुष्लीरजः ।। २८३.
सगुडं भक्षितं रोगहरं त्रिशतवर्षकृते । किञअचिच्चूर्णं जवापुष्पं पिण्डितं विमृजेज्जले ।। २८३.
तैलं भवेद् घृताकारं किञ्चिच्चूर्ण्णं जलान्वितं । धूपार्थं दृश्यते चित्रं वृषदंशजरायुना ।। २८३.
पुनर्म्माक्षिकधूपेन दृश्यते तद्याथा पुरा । कर्पूरजलकाभेकतैलं पाटलिमूलयुक् ।। २८३.
पिष्ट्वा लिप्य पदे द्वे च चरेदङ्गारके नरः । तृणौत्थानादिकं व्यूह्य दर्शयन्वै कुतूहलं ।। २८३.
विषग्रहरुजध्वंसक्षुद्रनर्म्म च कामिकं । तत्ते षट्कर्म्मकं प्रोक्तं सिद्धिद्वयसमाश्रयं ।। २८३.
मन्त्रध्यानौषधिकथामुद्रेज्या यत्र मुष्टयः । चतुर्व्वर्गफलं प्रोक्तं यः पठेत्स दिवं व्रजेत् ।। २८३.