पल्लवैरर्क्कपूतीकस्नुहीरुग्घातजातिकैः । उद्वर्त्तयेत् सगोमूत्रैः सर्वत्वग्दोषनाशनैः ।। २८३.
वाकुची सतिला भुक्ता वत्सरात् कुष्ठनाशनी । पथ्या भल्लातकी तैलगुडपिण्डी तु कुष्ठजित् ।। २८३.
पूतीकवह्निरजनी त्रिफलाव्योषचूर्णयुक् । तक्रं गुदाङ्गुरे पेयं भक्ष्या वा सगुडाऽभया ।। २८३.
फलदार्व्वीविषाणान्तु क्काथो धात्रीरसोऽथवा । पातव्यो रजनीकल्कः क्षौद्राक्षौद्रप्रमेहिणा ।। २८३.
वासागर्भो व्याधिघातक्काथ एरण्डतैलयुक् । वातशोणितहृत् पानात् पिप्पली स्यात् प्लीहाहरी ।। २८३.
सेव्या जठरिणा कृष्णा स्नुक्क्षीरवहुभाविता । पयो वा रच्यदन्त्याग्निविडङ्गव्योषकल्कयुक् ।। २८३.
ग्रन्थिकोग्राभया कृष्णा विडङ्गाक्ता घृते कस्थिता । मांसन्तक्रं ग्रहण्यर्शःपाण्डुगुल्मकृमीन् हरेत् ।। २८३.
फलत्रयामृता वासा तिक्तभूनिम्वजस्तथा । क्काथः समाक्षिको हन्यात् पाण्डुरोगं सकामलं ।। २८३.
रक्तपित्ती पिवेद्वासासुरसं ससितं मधु । वरीद्राक्षाबलाशुण्ठीसाधितं वा पयः पृथक् ।। २८३.
बरी विदारी पथ्या च बलात्रयं सवासकं । श्वदंष्ट्रामधुसर्पिर्भ्यामालिहेत् क्षयरोगवान् ।। २८३.
पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् । समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित् ।। २८३.
त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं । तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे ।। २८३.
रुग्घातरजनीलाक्षाचूर्णाजक्षौद्रसंयुता । वासोवत्तिर्व्रणे योज्या शोधनी गतिनाशनी ।। २८३.
शयामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः । समरीचैः श्रृतं तैलं क्षीरे स्याद् व्रणरोहणं ।। २८३.
श्रीकार्पासदलैर्भस्मफलोपलवणा निशा । तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं ।। २८३.
कुम्भीसारं पयोयुक्तं वह्निग्धं व्रणे लिपेत् । तदेव नाशयेत्सेकान्नारिकेलरजोघृतम् ।। २८३.
विश्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया । तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी ।। २८३.
वत्सकातिविषाविश्वविल्लमुस्तश्रृतं जलं । सामे पुराणेऽतीसारे सासृक्शूले च पाययेत् ।। २८३.
अङ्गादग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् । शूलवान्थ वा तद्धि सिन्धुहिंगुकणाभया ।। २८३.
कटुरोहोत्कणातह्कलाजचूर्णं मधुप्लुतं । वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत् ।। २८३.
पाठादार्व्वीजातिदलं द्राक्षामृलफलत्रयैः । साधितं समधु क्काथं कवलं मुखपापहृत् ।। २८३.
कृष्णातिविषतिक्तेन्द्रदारुपाठापयोमुचां । क्काथो मूत्रे श्रृतः क्षौद्री सर्वकण्ठगदापहः ।। २८३.
पथ्यागोक्षुरदुस्पर्शराजवृक्षशिलाभिदां । कषायः समधुः पीतो मूत्रकृच्छ्रं व्यपोहति ।। २८३.
वंशत्वग्वरुणक्काथः शर्क्कराश्मविघातनः । शाखोटक्काथसक्षौद्रक्षीराशी श्लीपदी भवेत् ।। २८३.
मासार्कत्वक्पयस्तैलं मधुसिक्तञ्च सैन्धवं । पादरोगं हरेत्सर्पिर्जालकुक्कुटजं तथा ।। २८३.
शुण्ठीसौवर्चलाहिङ्गुचूर्णं शूण्ठीरसैर्घृतम् । रुजं हरेदथ क्काथो विद्धि वद्धाग्निसाधने ।। २८३.
सौवर्चलाग्निहङ्गूनां सदीप्यानां रसैर्युतं । विड़दीप्यकयुक्तं वा तक्रं गुल्मातुरः पिवेत् ।। २८३.
धात्रीपटोलमुद्गानां क्काथः साज्यो विसर्पहा । शुण्ठीदारुनवाक्षीरक्काथो मूत्रान्वितोऽपरः ।। २८३.
सव्योषायोरजः क्षारः फलक्काथश्च शोथहृत् । गुड़शिग्रुत्रिवृद्भिश्च सैन्धवानां रजोयुतः ।। २८३.
त्रिवृताफलकक्काथः सगुड़ स्याद्विरेचनः । वचाफलकषायोत्थं सैन्धवानां रजोयुतः ।। २८३.