श्रृङ्गीं सकृष्णातिविषां चूर्णितां मधुना लिहेत् । एका चातिविशा काशच्छर्द्दिज्वरहरी शिशोः ।। २८३.
बालैः सेव्या वचा साज्या सदुग्धा वाथ तैलयुक् । यष्टिकां शङ्खपुष्पीं वा बालः क्षीरान्वितां पिवेत् ।। २८३.
वाग्रूपसम्पद्युक्तायुर्म्मेधाश्रीर्वर्द्धते शिशोः । वचाह्यग्निशिखावासाशुण्ठीकृष्णानिशागदं ।। २८३.
सयष्टिसैन्धवं बालः प्रातर्मेघाकरं विवेत् । देवदारुमहाशिग्रुफलत्रयपयोमुचां ।। २८३.
क्काथः सकृष्णा मृद्वीका कल्कः सर्वान् कृमीन्हरेत् । त्रिफलाभृङ्गविश्वानां रसेषु मधुसर्पिषोः ।। २८३.
मेषीक्षीरे च गोमूत्रे सिक्तं रोगे हितं शिशोः । नासारक्तहरो नस्याद्दुर्व्वारस इहोत्तमः ।। २८३.
लशुनार्द्रकशिग्रूणां रसः कर्णस्य पूरणम् । तैलमार्द्रकजात्यं वा शूलहा चौष्ठरोगनुत् ।। २८३.
जातीपत्रं फलं व्योषं कवलं मूत्रकं निशा । दुग्धक्काथेऽभयाकल्के सिद्धं तैलं द्वलिजार्त्तिनुत् ।। २८३.
धान्याम्बु नारिकेलं गोमूत्रं क्रमूकविश्वयुक् । क्काथितं कबलं कार्य्यमधिजिह्वाधिशान्तये ।। २८३.
साधितं लाङ्गलीकल्के तैलं निर्गुण्डिकारसैः । गण्डमालागलगण्डौ नाशयेन्नस्यकर्मणा ।। २८३.
पल्लवैरर्क्कपूतीकस्नुहीरुग्घातजातिकैः । उद्वर्त्तयेत् सगोमूत्रैः सर्वत्वग्दोषनाशनैः ।। २८३.
वाकुची सतिला भुक्ता वत्सरात् कुष्ठनाशनी । पथ्या भल्लातकी तैलगुडपिण्डी तु कुष्ठजित् ।। २८३.
पूतीकवह्निरजनी त्रिफलाव्योषचूर्णयुक् । तक्रं गुदाङ्गुरे पेयं भक्ष्या वा सगुडाऽभया ।। २८३.
फलदार्व्वीविषाणान्तु क्काथो धात्रीरसोऽथवा । पातव्यो रजनीकल्कः क्षौद्राक्षौद्रप्रमेहिणा ।। २८३.
वासागर्भो व्याधिघातक्काथ एरण्डतैलयुक् । वातशोणितहृत् पानात् पिप्पली स्यात् प्लीहाहरी ।। २८३.
सेव्या जठरिणा कृष्णा स्नुक्क्षीरवहुभाविता । पयो वा रच्यदन्त्याग्निविडङ्गव्योषकल्कयुक् ।। २८३.
ग्रन्थिकोग्राभया कृष्णा विडङ्गाक्ता घृते कस्थिता । मांसन्तक्रं ग्रहण्यर्शःपाण्डुगुल्मकृमीन् हरेत् ।। २८३.
फलत्रयामृता वासा तिक्तभूनिम्वजस्तथा । क्काथः समाक्षिको हन्यात् पाण्डुरोगं सकामलं ।। २८३.
रक्तपित्ती पिवेद्वासासुरसं ससितं मधु । वरीद्राक्षाबलाशुण्ठीसाधितं वा पयः पृथक् ।। २८३.
बरी विदारी पथ्या च बलात्रयं सवासकं । श्वदंष्ट्रामधुसर्पिर्भ्यामालिहेत् क्षयरोगवान् ।। २८३.
पथ्याशिग्रुकरञ्जार्कत्वक्सारं मधुसिन्धुमत् । समूत्रं विद्रधिं हन्ति परिपाकाय तन्त्रजित् ।। २८३.
त्रिवृता जीवती दन्ती मञ्जिष्ठा शर्वरीद्वयं । तार्क्षजं निम्बपत्रञ्च लेपः शस्तो भगन्दरे ।। २८३.
रुग्घातरजनीलाक्षाचूर्णाजक्षौद्रसंयुता । वासोवत्तिर्व्रणे योज्या शोधनी गतिनाशनी ।। २८३.
शयामायष्टिनिशालोध्रपद्मकोत्पलचन्दनैः । समरीचैः श्रृतं तैलं क्षीरे स्याद् व्रणरोहणं ।। २८३.
श्रीकार्पासदलैर्भस्मफलोपलवणा निशा । तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं ।। २८३.
कुम्भीसारं पयोयुक्तं वह्निग्धं व्रणे लिपेत् । तदेव नाशयेत्सेकान्नारिकेलरजोघृतम् ।। २८३.
विश्वाजमोदसिन्धूत्थचिञ्चात्वग्भिः समाभया । तक्रेणोष्णाम्बुना वाथ पीतातीसारनाशनी ।। २८३.
वत्सकातिविषाविश्वविल्लमुस्तश्रृतं जलं । सामे पुराणेऽतीसारे सासृक्शूले च पाययेत् ।। २८३.
अङ्गादग्धं सुगतं सिन्धुमुष्णाम्बुना पिवेत् । शूलवान्थ वा तद्धि सिन्धुहिंगुकणाभया ।। २८३.
कटुरोहोत्कणातह्कलाजचूर्णं मधुप्लुतं । वस्त्रच्छिद्रगतं वक्त्रे न्यस्तं तृष्णां विनाशयेत् ।। २८३.