चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम्। पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया
श्रीं श्रीर्महालक्ष्मीतातार्क्ष्यो गुरुरिन्द्रादयोऽर्च्चनम्। सरस्वत्यासनं मूर्त्तिरौं ह्रीं देवी सरस्वती
हृदाद्यालक्ष्मीर्म्मेधा च कलातुष्टिश्च पुष्टिका। गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः
तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै। ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा चतुर्थ्यन्तनमोन्तकाः
प्रणवाद्याञ्च नामाद्यमक्षरं बिन्दुसंयुतम्। ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः
होमात्तिलघृताद्यैञ्च धर्म्मकामार्थमोक्षदाः। पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत्
नारद उवाच वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकाम्। गृहीत्वा तां द्विधा कृत्वा मनः स्त्रानमथैकया
निमज्जयाचम्य विन्यस्य सिंहेन कृतारक्षकः। विधिस्नां ततः कुर्य्यात् प्राणायामपुरः सरम्
हृदि ध्यायन् हरिज्ञानं मन्त्रेणाष्टाक्षरेण हि। त्रिधा पाणितले मृत्सनां दिग्बन्धं सिंहजप्ततः
वासुदेवप्रजप्तेन तीर्थंसङ्कल्प्य चालभेत्। गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्त्तिना
कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत्। विन्यस्य मन्त्रैर्द्विर्म्मार्ज्य पाणिस्थं जलमेव च
नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत्। जलं ध्यायन् हरिं पश्चद्दत्त्वार्घ्यं द्वादशाक्षरम्
जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात्। मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि
मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत्। न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत्
एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत्
नारद उवाच चक्ष्ये पूजाविधिं विप्रा यत कृत्वा सर्वमाप्नुयात्। प्रक्षालिताङ्घ्निराचम्य वाग्यतः कृतसक्षकः
प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च। यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम्
विशेषयेदशेषन्तु ध्यायेत् कायात्तु कल्मषम्। क्षौं हृत्पङ्कजमध्यस्थं वीजं ते जोनिधिं स्मरन्
अधोद्धर्वतिर्यग्गाभिस्तु ज्वालाभिः कल्प्रषं दहेत्। शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः
हत्पद्माव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः । सुसुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः
शोधयित्वा न्यसेत्तत्त्वं करसुद्धिरथास्त्रकम्। व्यापकं हस्तयोरदौ दक्षिणाङ्गुष्ठतोङ्गकम्
मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः। हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने
उदरं च तथा पृष्ठं बाहुरुजानुपादकं। मुद्रां दत्त्वा स्मरेद् विष्णुं जप्त्वाष्टशतमर्च्चयेत्
वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे। प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत्
चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा। फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे
धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङमुखाः। अधर्मादीनि गात्राणि पूर्वादौ योगपीठके
कूर्मं पीठे ह्यनन्तञ्च यमं सूर्य्यादिमण्डलम्। विमलाद्याः केशरस्थानुग्रहा कर्णिकास्थिता
पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चैच्च मण्डले। अर्घ्यं पाद्यं तथा चामं मधुपर्क्कं पुनश्च तत्
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम्। धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया
यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजम्। दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत्