अनिर्देश्यप्रभावश्च ओषधीनां द्विजोत्तम । मधुरश्च कषायश्च तिक्तश्चैव तथा रसः ।। २८१.
शीतवीर्य्याः समुद्दिष्टाः शेषास्तूष्णाः प्रकीर्त्तिताः । गुडुची तत्र तिक्तापि भवत्युष्णातिवीर्यतः ।। २८१.
उष्णा कषायापि तथा पथ्या भवति मानद । मधुरोपि तथा मांस उष्ण एव प्रकीर्त्तितः ।। २८१.
लवणो मधुरश्चैव विपाकमधुरौ स्मृतौ । अम्लोष्णश्च तथा प्रोक्तः शेषाः कटुविपाकिनः ।। २८१.
वीर्य्यपाके विपर्य्यस्ते प्रभावात्तत्र निश्चयः । मधुरोऽपि कटुः पाके यच्चः क्षौद्रं प्रकीर्त्तितं ।। २८१.
क्काथयेत् षोडशगुणं पिवेद्द्रव्याच्चतुर्गुणम् । कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत् ।। २८१.
कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं । द्रव्यतुल्यं समुद्धृत्य द्रव्यं स्नेहं क्षिपेद्बुधः ।। २८१.
तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् । तोयवर्ज्जन्तु यद्द्रव्यं स्नेहद्रब्यं तथा भवेत् ।। २८१.
संवर्त्तितौषधः पाकः स्नेहानां परिकीर्त्तितः । तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत ।। २८१.१२ स्वच्छमल्पौषधं क्काथं कषायञ्चोक्तवद्भवेत् । अक्षं चूर्णस्य निर्दिष्टं कषायस्य चतुष्पलं ।। २८१.
मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना । वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा ।। २८१.
समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् । सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्द्धनाः ।। २८१.
मधुरास्तु विशेषेण विज्ञेया धातुवर्द्धनाः । दोषाणाञ्चैव धातूना द्रव्यं समगुणन्तु यत् ।। २८१.
तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् । उपस्तम्भत्रयं प्रोक्तं देहेऽस्मिन्मनुजोत्तम ।। २८१.
आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् । असेवनात् सेवनाच्च अत्यन्तं नाशमाप्नुयात् ।। २८१.
क्षयस्य बृंहणं कार्यं स्थूलदेहस्य कर्षणम् । रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ।। २८१.
उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं । हिताशीच मिताशी च जीर्णाशी च तथा भवेत् ।। २८१.
ओषधीनां पञ्चविधा तथा भवति कल्पना । रसः कल्कः श्रृतः शीतः फाण्टश्च मनुजोत्तम ।। २८१.
रसश्च पीडको ज्ञेयः कल्क आलोड़िताद् भवेत् । क्कथितश्च श्रृतो ज्ञेयः शीतः पर्युषितो निशां ।। २८१.
सद्योभिश्रृतपूतं यत् तत् फाण्टमभिधीयते । करणानां शतञ्चैव षष्टिश्चैवाधिका स्मृता ।। २८१.
यो वेत्ति स ह्यजेयः स्यात्सम्बन्धे वाहुशौण्डिकः । आहारशुद्धिरगन्यर्थमग्निमूलं बलं नृणां ।। २८१.
ससिन्धुत्रिफलाञ्चाद्यात्सुराज्ञि अभिवर्णदां । जाङ्गलञ्च रसं सिन्धुयुक्तं दधि पयः कणां ।। २८१.
रसाधिकं समं कुर्य्यान्नरो वाताधिकोऽपि वा । निदाघे मर्द्दनं प्रोक्तं शिशिरे च समं बहु ।। २८१.
वसन्ते मध्यमं ज्ञेयन्निदाघे मर्दनोल्वणं । त्वचन्तु प्रथमं मर्द्द्यमङ्गञ्च तदनन्तरं ।। २८१.
स्नायुरुधिरदेहेषु अस्थि भातीव मांसलं । स्कन्धौ बाहू तथैवेह तथा जङ्घे सजानुनी ।। २८१.
अरिवन्मर्द्दयेत् प्राज्ञो जत्रु वक्षश्च पूर्ववत् । अङ्गसन्धिषु सर्व्वेषु निष्पीड्य बहुलं तथा ।। २८१.
प्रसारयेदङ्गसन्धीन्न च क्षेपेण चाक्रमात् । नाजीर्णे तु श्रमं कुर्य्यान्न भुक्त्वा पीतवान्नरः ।। २८१.
दिनस्य तु चतुर्भाग ऊद्र्ध्वन्तु प्रहरार्द्धके । व्यायामं नैव कर्त्तव्यं स्नायाच्छीताम्बुना सकृत् ।। २८१.
वार्य्युष्णञ्च श्रमं जह्याद्धृदा श्वासन्न धारयेत् । व्यायामश्च कफं हन्याद्वातं हन्याच्च मर्द्दनम् ।। २९१.
स्नानं पित्ताधिकं हन्यात्तस्यान्ते चातपाः प्रियाः । आतपक्लेशकर्मादौ क्षेमव्यायामिनो नराः ।। २९१.
धन्वन्तरिरुवाच सिही शटी निशायुग्मं वत्सकं क्वाथसेवनं । शिशोः सर्व्वातिसारेषु स्तन्यदोषेषु शस्यते ।। २८३.