पित्तं प्रकोपमायाति भयेन च तथा कद्विज । अत्यम्बुपानगुर्व्वन्नभोजिनां भुक्तशायिनाम ।। २८०.
श्लेष्मा प्रकोपमायाति तथा ये चालसा जनाः । वाताद्युत्थानि रोगाणि ज्ञात्वा शाम्यानि लक्ष्णैः ।। २८०.
अस्थिभङ्गः कषायत्वमास्ये शुष्कास्यता तथा । जृम्भणं लोमहर्षश्च वातिकव्याधिलक्षणम् ।। २८०.
नखनेत्रशिराणान्तु पीतत्वं कटुता मुखे । तृष्णा दाहोष्णता चैव पित्तव्याधिनिदर्शनम् ।। २८०.
आलस्यञ्च प्रसेकश्च गुरुता मधुरास्यता । उष्णाभिलाषिता चेति श्लेष्मिकव्याधिलक्षणम् ।। २८०.
स्निग्धोष्णमन्नमभ्यङ्गस्तैलपानादि वातनुत् । आज्यं क्षीरांसिताद्यं च चन्द्ररश्म्यादि पित्तनुत् ।। २८०.
सक्षौद्रं त्रिफलातैलं व्यायामादि कफापहम् । सर्वरोगप्रशान्त्यै स्याद्विष्णोर्ध्यानञ्च चपूजनम् ।। २८०.
धन्वन्तरिरुवाच रसादिलक्षणं वक्ष्ये भेषजानां गुणं श्रृणु । रसवीर्य्यविपाकज्ञो नृपादीन्रक्षयेन्नरः ।। २८१.
रसाः स्वाद्वम्ललवणाः सोमजाः परिकीर्त्तिताः । कटुतिक्तकषायानि तथाग्नेया महाभुज ।। २८१.
त्रिधा विपाको द्रव्यस्य कट्वम्ल्लवणआत्मकः । द्विधा वीय्य समुद्दिष्टमुष्णं शीतं तथैव च ।। २८१.
अनिर्देश्यप्रभावश्च ओषधीनां द्विजोत्तम । मधुरश्च कषायश्च तिक्तश्चैव तथा रसः ।। २८१.
शीतवीर्य्याः समुद्दिष्टाः शेषास्तूष्णाः प्रकीर्त्तिताः । गुडुची तत्र तिक्तापि भवत्युष्णातिवीर्यतः ।। २८१.
उष्णा कषायापि तथा पथ्या भवति मानद । मधुरोपि तथा मांस उष्ण एव प्रकीर्त्तितः ।। २८१.
लवणो मधुरश्चैव विपाकमधुरौ स्मृतौ । अम्लोष्णश्च तथा प्रोक्तः शेषाः कटुविपाकिनः ।। २८१.
वीर्य्यपाके विपर्य्यस्ते प्रभावात्तत्र निश्चयः । मधुरोऽपि कटुः पाके यच्चः क्षौद्रं प्रकीर्त्तितं ।। २८१.
क्काथयेत् षोडशगुणं पिवेद्द्रव्याच्चतुर्गुणम् । कल्पनैषा कषायस्य यत्र नोक्तो विधिर्भवेत् ।। २८१.
कषायन्तु भवेत्तोयं स्नेहपाके चतुर्गुणं । द्रव्यतुल्यं समुद्धृत्य द्रव्यं स्नेहं क्षिपेद्बुधः ।। २८१.
तावत्प्रमाणं द्रव्यस्य स्नेहपादं ततः क्षिपेत् । तोयवर्ज्जन्तु यद्द्रव्यं स्नेहद्रब्यं तथा भवेत् ।। २८१.
संवर्त्तितौषधः पाकः स्नेहानां परिकीर्त्तितः । तत्तुल्यता तु लेह्यस्य तथा भवति सुश्रुत ।। २८१.१२ स्वच्छमल्पौषधं क्काथं कषायञ्चोक्तवद्भवेत् । अक्षं चूर्णस्य निर्दिष्टं कषायस्य चतुष्पलं ।। २८१.
मध्यमैषा स्मृता मात्रा नास्ति मात्राविकल्पना । वयः कालं बलं वह्निं देशं द्रव्यं रुजं तथा ।। २८१.
समवेक्ष्य महाभाग मात्रायाः कल्पना भवेत् । सौम्यास्तत्र रसाः प्रायो विज्ञेया धातुवर्द्धनाः ।। २८१.
मधुरास्तु विशेषेण विज्ञेया धातुवर्द्धनाः । दोषाणाञ्चैव धातूना द्रव्यं समगुणन्तु यत् ।। २८१.
तदेव वृद्धये ज्ञेयं विपरीतं क्षमावहम् । उपस्तम्भत्रयं प्रोक्तं देहेऽस्मिन्मनुजोत्तम ।। २८१.
आहारो मैथुनं निद्रा तेषु यत्नः सदा भवेत् । असेवनात् सेवनाच्च अत्यन्तं नाशमाप्नुयात् ।। २८१.
क्षयस्य बृंहणं कार्यं स्थूलदेहस्य कर्षणम् । रक्षणं मध्यकायस्य देहभेदास्त्रयो मताः ।। २८१.
उपक्रमद्वयं प्रोक्तं तर्पणं वाप्यतर्पणं । हिताशीच मिताशी च जीर्णाशी च तथा भवेत् ।। २८१.
ओषधीनां पञ्चविधा तथा भवति कल्पना । रसः कल्कः श्रृतः शीतः फाण्टश्च मनुजोत्तम ।। २८१.
रसश्च पीडको ज्ञेयः कल्क आलोड़िताद् भवेत् । क्कथितश्च श्रृतो ज्ञेयः शीतः पर्युषितो निशां ।। २८१.
सद्योभिश्रृतपूतं यत् तत् फाण्टमभिधीयते । करणानां शतञ्चैव षष्टिश्चैवाधिका स्मृता ।। २८१.
यो वेत्ति स ह्यजेयः स्यात्सम्बन्धे वाहुशौण्डिकः । आहारशुद्धिरगन्यर्थमग्निमूलं बलं नृणां ।। २८१.