अस्थनो मज्जा ततः शुक्रं शुक्राद्रागस्तथौजसः । देशमार्त्ति बलंशक्तिं कालं प्रकृतिमेव च ।। २८०.
ज्ञात्वा चिकित्सितं कुर्य्याद्भेषजस्य तथा बलम् । तिथिं रिक्तान्त्यजेद् भौमं मन्द्भन्दारुणोग्रकम् ।। २८०.
हरिगोद्विजचन्द्रार्क्कसुरादीन् प्रतिपूज्य च । श्रृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत् ।। २८०.
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्क्काऽनिलानलाः । ऋषयश्चौषधिग्रामा भूतसकङ्घाश्च पान्तु ते ।। २८०.
रसायनमिवर्षीणां देवानाममृतं यथा । सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ।। २८०.
बातश्लेष्मातको देशो वहुवृक्षो वहूदकः । अनूपइतिविख्यातो जाङ्गलस्तद्विवर्ज्जितः ।। २८०.
किञ्चिद्वृक्षोदको देशस्तथा साधारणः स्मृतः । जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः ।। २८०.
सूक्ष्मः शीतश्चलो वायुः पित्तमुष्णं कटुत्रयम् । स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते ।। २८०.
वृद्धिः समानैरेतेषां विपरीतैर्विपर्य्ययः । रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ।। २८०.
कटुतिक्तकषायाश्य वातलाः श्लेष्मनाशनाः । कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्द्धनाः ।। २८०.
तिक्तस्वादुकषायाश्च तथा पित्तविनाशनाः । रसस्यैतद्गुणं नास्ति विपाकस्यैतदिष्यते ।। २८०.
वीर्य्योष्णाः कफवातघ्नाः शीताः पित्तविनाशनाः । प्रभावतस्तथा कर्म्म ते कुर्वन्ति च सुश्रुत ।। २८०.
शिशिरे च वसन्ते च निदाघे च तथा क्रमात् । चयप्रकोपप्रशमाः कफस्य तु प्रकीर्त्तिताः ।। २८०.
निदाघवर्षारात्रौ च तथा शरदि सुश्रुत । चयप्रकोपप्रशमाः पवनस्य प्रकीर्त्तिताः ।। २८०.
मेघकाले च शरदि हेमन्ते च यथाक्रमात् । चयप्रकोपप्रशमास्तथा पित्तस्य कीर्त्तिताः ।। २८०.
वर्षादयो विसर्गास्तु हेमन्ताद्यास्तथा त्रयः । शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ।। २८०.
सौम्यो विसर्गस्त्वादानमाग्नेयं परिकीर्त्तितम् । वर्षादीस्त्रीनृतून् सोमश्चरन् पर्य्यायशो रसान् ।। २८०.
जनयत्यम्ललवणमधुरांस्त्रीन् यथाक्रमम् । शिशिरादीनृतूनर्कश्चरन् पर्य्यायशो रसान् ।। २८०.
विवर्द्धयेत्तथा तिक्तकषायकटुकान् क्रमात् । यथा रजन्यो वर्द्धन्ते बलमेकं हि वर्द्धते ।। २८०.
क्रमशोऽथ मनुष्याणां हीयमानासु हीयते । रात्रिभुक्तदिनानाञ्च वयसश्च तथैव च ।। २८०.
आदिमध्यावसानेषु कफपित्तसमीरणाः । प्रकोपं यान्ति कोपादौ काले तेषाञ्चयः स्मृतः ।। २८०.
प्रकोपोत्तरके काले रामस्तेषां प्रकीर्त्तितः । अतिभोजनतो विप्र तथा चाभोजनेन च ।। २८०.
रोगा हि सर्वे जायन्ते वेगोदीरणधारणैः । अन्नेन कुक्षेर्द्वावंशावेकं पानेन पूरयेत् ।। २८०.
आश्रयं पवनादीनां तथैकमवशेषयेत् । व्याधेर्न्निदानस्य तथा विपरीतमथौषधम् ।। २८०.
कर्तव्यमेतदेवात्र मया सारं प्रकीर्त्तितम् । नाभेरुद्र्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ।। २८०.
बलाशपित्तवातानां देहे स्थानं प्रकीर्त्तितं । तथापि सर्वगाश्चैते देहे वायुर्विशेषतः ।। २८०.
देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् । कृशोऽल्पकेशश्चपलो बहुवाग्विषमानलः ।। २८०.
व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते । अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ।। २८०.
स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिको नरः । तामसा राजसाश्चैव सात्विकाश्च तता स्मृता ।। २८०.
शुद्धाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः । तामसा राजसाश्चैव सात्विकाश्च तथा स्मृताः ।। २८०.३९ मनुष्या मुनिशार्दूल वातपित्तकफात्मकाः । रक्तपित्तं व्यवायाच्च गुरुकर्म्मप्रवर्त्तनैः ।। २८०.