शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते । पक्कस्य च तथा भेदे निम्बचूर्णञ्च रोपणे ।। २७९.
तथा शूच्युपचारश्च बलिकर्म विशेषतः । सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता ।। २७९.
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् । तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवा घृतम् ।। २७९.
धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा । अर्कक्षीरेण संपिष्टं लोपा वीजं पलाशजं ।। २७९.
वृश्चिकार्त्तस्य कृष्णा वा शिवा च फलसंयुता । अर्कक्षीरं लितं तैल पललञ्च गुड़ं समम् ।। २७९.
पानाज्जयति दुर्बारं श्वविषं शीघ्रमेव तु । पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा ।। २७९.
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि । चन्दनं पद्मकङ्कुष्ठं तलाम्बूशीरपाटलाः ।। २७९.
निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः । शिरोविरेचनं शस्तं गुड़नागरकं द्विज ।। २७९.
स्नेहपाने तथा वस्तौ तैलं घृतमनुत्तमम् । स्वेदनीयः परो वह्निः शीताम्भः स्तम्भनं परम् ।। २७९.
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा । वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ।। २७९.
वातपित्तबलाशानां क्रमेण परमौषधं ।। २७९.
धन्वन्तरिरुवाच शारीरमानसागन्तुसहजा व्याधयो मताः । शारीरा ज्वरकुष्ठाद्याः क्रोधाद्या मानसा मताः ।। २८०.
आगन्तवो विघातोत्थाः सहजाः क्षुज्जरादयः । शारीरागन्तुनाशाय सूर्य्यवारे घृतं गुड़म् ।। २८०.
लवणं सहिरण्यञ्च विप्रायापूपमर्पयेत् । चन्द्रे चाभ्यङ्गदो विप्रे सर्वरोगैः प्रमुच्यते ।। २८०.
तैलं शनैश्चरे दद्यादाश्विने गोरसान्नदः । घृतेन पयसा लिङ्गं संस्नाप्य स्याद्रुगुज्झितः ।। २८०.
गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् । यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे ।। २८०.
मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् । वातपित्तकफा दोषा धातवश्च तथा श्रृणु ।। २८०.
भुक्तं पक्काशयादन्नं द्विधा याति च सुश्रुत । अंशेनैकेन किट्टत्वं रसताञ्चापरेण च ।। २८०.
किट्टभागो मलस्तत्र विण्मूत्रस्वेददूषिकाः । नासामलह्कर्णमलं तथा देहमलञ्च यत् ।। २८०.
रसभागाद्रसस्तत्र समाच्छोणिततां व्रजेत् । मांसं रक्तात्ततो मेदो मेदसोऽस्थ्नश्च सम्भवः ।। २८०.
अस्थनो मज्जा ततः शुक्रं शुक्राद्रागस्तथौजसः । देशमार्त्ति बलंशक्तिं कालं प्रकृतिमेव च ।। २८०.
ज्ञात्वा चिकित्सितं कुर्य्याद्भेषजस्य तथा बलम् । तिथिं रिक्तान्त्यजेद् भौमं मन्द्भन्दारुणोग्रकम् ।। २८०.
हरिगोद्विजचन्द्रार्क्कसुरादीन् प्रतिपूज्य च । श्रृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत् ।। २८०.
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्क्काऽनिलानलाः । ऋषयश्चौषधिग्रामा भूतसकङ्घाश्च पान्तु ते ।। २८०.
रसायनमिवर्षीणां देवानाममृतं यथा । सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ।। २८०.
बातश्लेष्मातको देशो वहुवृक्षो वहूदकः । अनूपइतिविख्यातो जाङ्गलस्तद्विवर्ज्जितः ।। २८०.
किञ्चिद्वृक्षोदको देशस्तथा साधारणः स्मृतः । जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः ।। २८०.
सूक्ष्मः शीतश्चलो वायुः पित्तमुष्णं कटुत्रयम् । स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते ।। २८०.
वृद्धिः समानैरेतेषां विपरीतैर्विपर्य्ययः । रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ।। २८०.
कटुतिक्तकषायाश्य वातलाः श्लेष्मनाशनाः । कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्द्धनाः ।। २८०.