शाल्यन्नन्तोयपयसी केवलोष्णे श्रृतेऽपि वा । तृष्णाघ्ने मुस्तगुड़योर्गुटिका वा मुखे धृता ।। २७९.
यवान्नविकृतिः पूपं शुष्कमूलकजन्तथा । शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् ।। २७९.
मुद्गाढ़कमसूराणां सतिलैर्जाङ्गलै रसैः । ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः ।। २७९.
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् । विसर्पी ससिताक्षौद्रमृद्वीकादाड़िमोदकम् ।। २७९.
रक्तयष्टिकगोधूमयवमुद्गादिकं लघु । काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्च्चला ।। २७९.
वातशोणितनाशाय तोयं शस्तं मधु । नाशारोगेषु च हितं घृतं दुर्व्वाप्रसाधितम् ।। २७९.
भृङ्गराजरसे सिद्धं तैलं धात्रीरसेऽपि वा । नश्यं सर्वामयेष्विष्टं मूर्द्धजन्तूद्भवेषु च ।। २७९.
शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् । द्विजजाढर्यकरं प्रोक्तं तथा तुष्टिकरम्परम् ।। २७९.
गण्डूषं तिलतैलेन द्विजजार्ढ्यकरं परं । विड़ङ्गचूर्णं गोमूत्रं सर्व्वंत्र कृमिनाशने ।। २७९.
धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् । शिरोरोगविनाशाय स्रिग्धमुष्णञ्च भोजनम् ।। २७९.
तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् । कर्णशूलविनाशाय सर्वशुक्तानि वा द्विज ।। २७९.
गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा । संयोज्या या कृता वर्त्तिः क्षतशुक्रहरी तु सा ।। २७९.
व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् । सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनम् ।। २७९.
आज्यभृष्टं शिलापिष्टं लोध्रकाञ्जीकसैन्धवैः । आश्च्योतनाविनाशाय सर्वनेत्रामये हितम् ।। २७९.
गिरिमृच्चन्दनैर्लेपो वरिर्नेत्रस्य शस्यते । नेत्रामयविघातार्थं त्रिफलां शीलयेत् सदा ।। २७९.
रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्ज्जिजीविषुः । शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ ।। २७९.
कलम्बिकानि माषाश्च वृष्यौ क्षीरघृतौ तथा । आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता ।। २७९.
मधुकादिरसोपेता बलीपलितनाशिनी । वचासिद्धघृतं विप्रं भूतदोषविनाशनम् ।। २७९.
कव्यं बुद्धिप्रदञ्चैव तथा सर्वार्थसाधनम् । वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम् ।। २७९.
रास्नासहचरैर्वापि तैलं वातविकारिणाम् । अनभिष्यन्दि यच्चान्नं तद्व्रणेषु प्रशस्यते ।। २७९.
शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते । पक्कस्य च तथा भेदे निम्बचूर्णञ्च रोपणे ।। २७९.
तथा शूच्युपचारश्च बलिकर्म विशेषतः । सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता ।। २७९.
भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् । तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवा घृतम् ।। २७९.
धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा । अर्कक्षीरेण संपिष्टं लोपा वीजं पलाशजं ।। २७९.
वृश्चिकार्त्तस्य कृष्णा वा शिवा च फलसंयुता । अर्कक्षीरं लितं तैल पललञ्च गुड़ं समम् ।। २७९.
पानाज्जयति दुर्बारं श्वविषं शीघ्रमेव तु । पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा ।। २७९.
सर्पकीटविषाण्याशु जयत्यतिबलान्यपि । चन्दनं पद्मकङ्कुष्ठं तलाम्बूशीरपाटलाः ।। २७९.
निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः । शिरोविरेचनं शस्तं गुड़नागरकं द्विज ।। २७९.
स्नेहपाने तथा वस्तौ तैलं घृतमनुत्तमम् । स्वेदनीयः परो वह्निः शीताम्भः स्तम्भनं परम् ।। २७९.
त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा । वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ।। २७९.