स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः। देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः
जिताः स्वर्गात्परिभ्रप्टा हरिं वै शरणं गताः। सुराणाममयं दत्त्वा अदित्या कश्यपेन च
स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ। बलेः श्रीयजमानस्य, राजद्वारेऽगृणात् श्रुतिम्
वेदान् पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत्। निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि
त्तत्तेऽहं सम्प्रदास्यामि,वामनो बलिमब्रवीत्। पदत्रयं हि गुर्वर्थं देहि दास्ये तमब्रवीत्
तोये तु पतिते हस्ते वामनोऽभूदवामनः। भूर्लोकं स भुवर्लोकं स्वर्लेकञ्च पदत्रयम्
चक्रे बलिञ्च सुतलं तच्छक्राय ददौ हरिः। शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखीं त्वभूत्
वक्ष्ये परशुरामस्य चावतारं श्रृणु द्विज। उद्वतान् क्षत्रियान् मत्वा भूभारहाणाय सः
अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः। जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः
दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभूत्। सहस्त्रबाहुः सर्वोर्वीपतिः स मृगयां गतः
श्रान्तो निमन्त्रितोऽरण्ये मुनिना जमदग्निना। कामधेनुप्रभावेण भोजितः सबलो नृपः
अप्रार्थयत् कामधेनुं यदा स न ददौ तदा। हृतवानथ रामेण शिरश्छित्त्वा निपातितः
युद्धे परशुना राजा धेनुः स्वाश्रममाययौ । कार्त्तवीर्यस्य पुत्रस्तु जमदग्निर्निपातितः
रामे वनं गते वैरादथ रामः समागतः। पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः
त्रिः सप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः। कुरुश्रेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितृन्
काश्यपाय महीं दत्त्वा महेन्द्रे पर्वते स्थितः। कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनम्
अवतारं च रामस्य श्रुत्वा याति दिवं नरः
अग्निरुवाच रामायणमहं वक्ष्ये नारदेनोदितं पुरा। वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम्
नारद उवाच विष्णुनाभ्यव्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः। मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः
ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः। ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः
रावणादेर्वधार्थाय चतुर्द्धाभूत स्वयं हरिः। राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह
कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः। शत्रुघ्नः ऋष्यश्रृङ्गेण तासु सन्दत्तपायसात्
प्राशिताद्यज्ञसंसिद्धाद्राद्रामाद्याश्च समाः पितुः। यज्ञविध्नविनाशाय विश्वामित्रार्थितो नृपः
रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह। रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत
मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत्। सुबाहुं यज्ञहन्तारं सबलञ्चावधीद् बली
सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह। गतः क्रतुं मैथिलस्य द्रष्टुञ्चापंसहानुजः
शतानन्दनिमित्तेन विश्वामित्रप्रभावतः। रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ
धनुरापूरयामास लीलया स बभञ्ज तत् । वीर्यशुल्कञ्च जनकः सीतां कन्यान्त्वयोनिजाम्
ददौ रामाय रामोऽपि पित्रादौ हि समागते। उपयेमे जानकीन्तामुर्मिलां लक्ष्मणस्तथा
श्रुतकीर्त्तिं माण्डवीञ्च कुशध्वजसुते तथा। जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ