मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः । कुष्ठिनाञ्च तता शस्तं पानार्थे खदिरोदकं ।। २७९.
मसूरमुद्गौ पेयार्थे भोज्या जीर्णाश्च शालयः । निम्बपर्पटकैः शाकैर्ज्जाङ्गलानां तथा रसः ।। २७९.
विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्च्चिका । मनः शिला च वालेयः कुष्ठहा मूत्रपेषितः ।। २७९.
अपूपकुष्ठकुल्माषयवाद्या मेहिनां हिताः । यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः ।। २७९.
तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च । तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च ।। २७९.
मुद्गाः सयवगोधूमा धान्यं वर्षस्थितञ्च यत् । जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां ।। २७९.
कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः । पूपैर्वा विस्किरैः सिद्धैर्दधिदाड़िमसाधितैः ।। २७९.
मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः । यवगोधूमशाल्यन्नैर्भोज्येच्छ्वासकासिनं ।। २७९.
दशमूलवलारास्नाकुलत्थैरुपसाधिताः । पेयाः पूपरसाः क्काथाः श्वासहिक्कानिवारणा ।। २७९.
शुष्कमूलककौलत्थमूलजाह्गलजै रसैः । यवगोधूमशाल्यन्नं जीर्णं सोशीरमाचरेत् ।। २७९.
शोथवान् सगुड़ां पथ्यां खादेद्वा गुड़नागरम् । तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ ।। २७९.
पुराणयवगोधूमशालयो जाङ्गलो रसः । मुद्गामलकखर्जूरमृद्वीकावदराणि च ।। २७९.
मधु सर्पिः पयः शक्र निम्बपर्पटकौ वृषम् । तक्रारिष्टाश्च शस्यन्ते सततं वातरोगिणाम् ।। २७९.
हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः । तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा ।। २७९.
मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये । सक्षोद्रपयसा लाक्षआं पिवेच्च क्षचवान्नरः ।। २७९.
क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् । शालयो भोजने रक्ता नीवारकलमादयः ।। २७९.
यवान्नविकृतिर्म्मांसं शाकं सौवर्चलं शटी । पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा ।। २७९.
मुस्ताभ्यासस्तथा लोपश्चित्रकेण हरिद्रया । यवान्नविकृतिः शालिर्व्वास्तूकं ससुवर्च्चलम् ।। २७९.
त्रपुषैर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः । मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः ।। २७९.
लाजाः शक्तुस्तथा क्षौद्रं शूल्यं मांसं परूषकम् । वार्त्ताकुलावशिखिनश्छर्द्दिघ्नाः पानकानि च ।। २७९.
शाल्यन्नन्तोयपयसी केवलोष्णे श्रृतेऽपि वा । तृष्णाघ्ने मुस्तगुड़योर्गुटिका वा मुखे धृता ।। २७९.
यवान्नविकृतिः पूपं शुष्कमूलकजन्तथा । शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् ।। २७९.
मुद्गाढ़कमसूराणां सतिलैर्जाङ्गलै रसैः । ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः ।। २७९.
यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् । विसर्पी ससिताक्षौद्रमृद्वीकादाड़िमोदकम् ।। २७९.
रक्तयष्टिकगोधूमयवमुद्गादिकं लघु । काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्च्चला ।। २७९.
वातशोणितनाशाय तोयं शस्तं मधु । नाशारोगेषु च हितं घृतं दुर्व्वाप्रसाधितम् ।। २७९.
भृङ्गराजरसे सिद्धं तैलं धात्रीरसेऽपि वा । नश्यं सर्वामयेष्विष्टं मूर्द्धजन्तूद्भवेषु च ।। २७९.
शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् । द्विजजाढर्यकरं प्रोक्तं तथा तुष्टिकरम्परम् ।। २७९.
गण्डूषं तिलतैलेन द्विजजार्ढ्यकरं परं । विड़ङ्गचूर्णं गोमूत्रं सर्व्वंत्र कृमिनाशने ।। २७९.
धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् । शिरोरोगविनाशाय स्रिग्धमुष्णञ्च भोजनम् ।। २७९.