पृषताद्द्रुपदस्तस्माद्धृष्टद्युम्नोऽथ तत्सुतः । धृष्टकेतुश्च धूमिन्यामृक्षोऽभूदजमीढतः ।। २७८.
ऋक्षात्सम्बलणो जज्ञे कुरुः सम्वरणात्ततः । यः प्रयागादपाक्रम्य कुरुक्षेत्रञ्चकार ह ।। २७८.
कुरोः सुधन्वा सुधनुः परिक्षइच्चारिमेजयः । सुधन्वनः सुहोत्रोऽभूत् सुहोत्राच्च्यवनो ह्यभूत् ।। २७८.
वशिष्ठपरिचाराभ्यां सप्तासन् गिरिकासुताः । वृहद्रथः कुशो वीरो यदुः प्रत्यग्रहो बलः ।। २७८.
मत्स्यकाली कुशाग्रोऽतो ह्यासीद्राज्ञो वृहद्रथात् । कुशाग्राद्वृषभो जज्ञे तस्य सत्यहितः सुतः ।। २७८.
सुधन्वा तत्सुतश्चोर्ज्ज ऊर्ज्जादासीच्च सम्भवः । सम्भवाच्च जरासन्धः सहदेवश्च तत्सुतः ।। २७८.
सहदेवादुदापिश्च उदापेः श्रुतकर्मकः । परिक्षइतस्य दायादो धार्मिको जनमेजयः ।। २७८.
जनमेजयात्त्रसदस्युर्जह्रोस्तु सुरथः सुतः । श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ।। २७८.
जनमेजयस्य पुत्रौ तु सुरथो महिमांस्तथा । सुरथाद्विदूरथोऽभूदृक्ष आसीद्विदूरथात् ।। २७८.
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः । प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः ।। २७८.
देवापिर्व्वाह्लिकश्चैव सोमदत्तस्तु शान्तनोः । वाह्लिकात्सोमदत्तोऽभूद्भूरिर्भूरिस्रवाः शलः ।। २७८.
गङ्गायां शान्तनोर्भीष्मः काल्यायां विचित्रवीर्य्यकः । कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्य्यके ।। २७८.
धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् । पाण्डोर्युधिष्ठिरः कुन्त्यां भीमश्चैवार्जुनस्त्रयः ।। २७८.
नकुलः सहदेवश्च पाण्डोर्म्माद्य्राञ्च दैवतः । अर्जुनस्य च सौभद्रः परिक्षिदभिमन्युतः ।। २७८.
द्रौपदी पाण्डवानाञ्च प्रिया तस्यां युधिष्ठिरात् । प्रतिविन्ध्यो भीमसेनाच्छ्रुतकीर्त्तिर्द्धनञ्जयात् ।। २७८.
सहदेवाच्छ्रुतकर्म्मा शतानीकस्तु नाकुलिः । भीमसेनाद्धिड़िम्बायामन्य आसीद् घटोत्कचः ।। २७८.
एते भूता भविष्याश्च नृपाः संख्या न विद्यते । गताः कालेन कालो हि हरिस्तं पूजयेद्द्विज ।। २७८.
होममग्नौसमुद्दिश्य कुरु सर्व्वप्रदं यतः ।। २७८.
अग्निरुवाच आयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् । देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं ।। २७९.
सुश्रुत उवाच आयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् । सिद्धयोगान् सिद्धमन्त्रान् मृतसञ्जीवनीकरान् ।। २७९.
धन्वन्तरिरुवाच रक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् । सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं श्रृतं जलम् ।। २७९.
मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः । षड़हे च व्यतिक्रान्ते तिक्तकं पाययेद्ध्रुवम् ।। २७९.
स्नेहयेत्त्यक्तदोषन्तु ततस्तञ्च विरेचयेत् । जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः ।। २७९.
तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस्तथा । मुद्गा मसूराश्चणकाः कुलत्थास्च सकुष्ठकाः ।। २७९.
आटक्यो नारकाद्याश्च कर्क्कोटककटोल्वकम् । पटोलं सफलं निम्बं पर्पटं दाडिमं ज्वरे ।। २७९.
अधोगे वमनं शस्तमूद्र्ध्वगे च विरेचनम् । रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्ज्जितम् ।। २७९.
शक्रुगोधूमलाजाश्च यवशालिमसूरकाः । सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः ।। २७९.
साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु । अतीसारे पुराणानां शालीनां भक्षणं हितं ।। २७९.
अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् । मारुतं वर्ज्जयेद् यत्नः कार्य्यो गुल्मेषु सर्वथा ।। २७९.११ वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं । गोधूमशालयस्तिक्ता हिता जठरिणामथ ।। २७९.
गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरोऽभया । पञ्चकोलञ्जाङ्गलाश्च निम्बधात्र्याः पटोलकाः ।। २७९.